TransLiteral Foundation

किष्किंधाकांडम् - काव्य २०१ ते २५०

किष्किन्धाकाण्डम् या प्रकरणातील श्लोकातील चवथे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य २०१ ते २५०
तिष्ठस्व रा जन् समये भर्तुर्भार्येव तद्वशे
मूर्ध्ना प्रणम्य सौमित्रिं त्वं प्रसादय सत्वरम्. ’ ॥२०१॥
प्लवंग म पतिः पुत्रमंगदं कनकांगदम्
प्रेषयामास सौमित्रिमंतरानयितुं द्रुतम् ॥२०२॥
अंगदो ज वतो गत्वा नत्वा सौमित्रिमादरात्
प्रवेशयामास पुरीमयोध्याधिकसंपदम् ॥२०३॥
कीशा भ य प्रांजलयो दूरे तस्थुर्निरायुधाः
प्रविष्टे लक्ष्मणे वीरे नोचुः किंचिदधोमुखाः. ॥२०४॥
सुग्रीवो ज नितत्रासोऽभवच्छ्रुत्वा धनुर्ध्वनिम्
तारामुवाच, ‘ गच्छ त्वं तं स्तुत्वाऽपरुषं कुरु. ’ ॥२०५॥
तारा प्रि य समादिष्टा प्रत्युद्गम्य मदाकुला
सांत्वयामास सौमित्रिं सा सुधासारसूक्तिभिः ॥२०६॥
दृष्ट्वा ता रा समानीतं सौमित्रिं कुपितं भृशम्
रुमया सह सुग्रीव उत्तस्थौ कांचनासनात्. ॥२०७॥
प्रांजलिं म हिलावृंदान्निःसृतं पुरतः स्थितम्
लक्ष्मणः क्रोधरक्ताक्षो मदशोणाक्षमब्रवीत्. ॥२०८॥
कृतघ्न ! श्री मदाविष्ट ! स्त्रैण ! मद्यप ! दुर्मते !
मिथ्याप्रतिज्ञ ! सुग्रीव ! रामं त्वं विस्मृतः कथम्. ॥२०९॥
गोघ्ने सु रा पे चौरे च तथा भग्नव्रते जने
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः. ॥२१०॥
ननु ना म कृतार्थेन त्वया रामस्य वानर !
सीताया मार्गणे यत्नः कार्य आनृण्यमिच्छता. ॥२११॥
कीशरा ज ! कृते तिष्ठ समये तमये स्मर
नो चेत्सद्यः शरैस्तस्य हतो द्रक्ष्यसि वालिनम्. ’ ॥२१२॥
तारा श्रे य स्करं वाक्यमुवाच विनयान्विता,
‘ कुमार ! नैवं वक्तव्यो नायं परुषमर्हति. ॥२१३॥
न शठो रा जपुत्रायमुपकारं न विस्मृतः
राज्यं रुमां मां कीर्तिं च प्राप्तो रामप्रसादतः. ॥२१४॥
सुदुःख म नुभूयादौ प्रप्येदं सुखमुत्तमम्
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः. ॥२१५॥
स गाधि ज स्तदासक्तो घृताच्यां वत्सरान् दश
अहोऽमन्थत धर्मात्मा, किं पुनर्यः पृथक् जनः ? ॥२१६॥
अविज्ञा य मनोऽस्य त्वं सहसा रोषमुल्बणम्
कर्तुं नार्हसि सौमित्रे ! मित्रेऽस्मिन् मित्रवत्सल ! ॥२१७॥
महारा ज प्रियार्थं मां रुमामंगदमप्ययम्
राज्यं प्राणंश्च सुग्रीवस्त्यजेदिति मतिर्मम. ॥२१८॥
रामं प्रि य तमायुक्तं हत्वा तं राक्षसाधमम्
करिष्यत्येव न चिरादत्र मे नास्ति संशयः. ॥२१९॥
लंकायां रा क्षसानां तु राजपुत्र ! श्रुतानि मे
शतकोटिसहस्त्राणि तथा षडयुतानि च. ॥२२०॥
नरोत्त म ! तथा त्रिंशत्सहस्त्राणि शतानि च
एवमाख्यातवान् वाली स ह्यभिज्षो हरीश्वरः. ॥२२१॥
कपीनां श्री मतानेन तथर्क्षाणां च राघव !
कोटीरनेका आनेतुं दूताः संप्रेषिताः प्रभो ! ॥२२२॥
तान्वान रा न्महावीर्यानृक्षाश्चामितविक्रमान्
प्रतीक्षमाणोऽयं वीर ! न निर्याति हरीश्वरः. ॥२२३॥
अद्य त्वा म मिता ऋक्षा गोलांगूलाश्च सत्तम !
उपयास्यंति सिद्ध्यर्थं, जहि कोपमरिंदम ! ॥२२४॥
प्रीत्या भ ज स्व सुग्रीवं भजमानं महाभुज ! ’
इति तारावचः श्रुत्वा प्रसन्नो लक्ष्मणोऽभवत्. ॥२२५॥
तं सखा य मुवाचाथो सुग्रीवो मधुरं वचः
‘ सीतां प्राप्स्यति रामस्तं रावणं च वधिष्यति. ॥२२६॥
कः शक्तो रा जसिंहस्य ख्यातस्य स्वेन कर्मणा
तादृशं प्रतिकुर्वीत लेशेनापि नृपात्मज ! ॥२२७॥
येन प्र म थितो वाली बाणेनैकेन लीलया
माहेश्वरं धनुर्भग्नं सहायैस्तस्य किं प्रभोः ? ॥२२८॥
राजरा ज स्य व्रजतो हंतुं तं रावणं रणे
अनुयात्रां करिष्यामि दासोऽह्यं वानरैः सह. ॥२२९॥
सौमित्रे ! य द्यतिक्रांतं किंचिद्विश्वासतः प्रभो
प्रेष्यस्य मे तत्क्षंतव्यं न कश्चिन्नापराध्यति. ’ ॥२३०॥
कपिरा ज स्य वाक्येन प्रीतः सौमित्रिरब्रवीत्,
‘ त्वया नाथेन मे भ्राता सनाथः सर्वथा सखे ! ॥२३१॥
योग्यः श्रि य मिमां भोक्तुं त्वं सुग्रीव ! कपीश्वर !
वक्तैवं रामतस्त्वत्तः कोऽन्यः सत्यतुले बले ? ॥२३२॥
सदृशो रा घवेण त्वं विक्रमेण बलेन च
सहायो दैवतैर्दत्तश्चिराय कपिपुंगव ! ॥२३३॥
किंतु त्व म द्यैव सखे ! निष्कमेतो मया सह
सांत्वयस्व वयस्यं तं भार्याहरणदुःखितम्. ॥२३४॥
शोचतः श्री मतः श्रुत्वा विलापं भृशदुःसहम्
यन्मया परुषाण्युक्तस्तत्क्षमस्व सखे ! मम. ’ ॥२३५॥
तच्छ्रुत्वा रा घववचः सुग्रीवो हृष्टमानसः
उवाच मारुतिं, ‘ दूतान् पुनः प्रेरय शीघ्रगान्. ॥२३६॥
स्थिता हि म गिरौ कीशाः कैलासे मंदरे तथा
महेंद्रविंध्ययोर्येऽन्ये मेरुपार्श्वगता अपि ॥२३७॥
वसंत्यं ज नगोत्रे च येऽस्ताद्रावुदयाचले
पृथिवीवर्तिनः सर्वान्महाबलपराक्रमान् ॥२३८॥
इहान य स्व तान् प्राप्तानाहोभिर्दशभिस्तु ये
हंतव्यास्ते दुरात्मानो राजशासनदूषकाः. ’ ॥२३९॥
स समी रा त्मजो दूतान् कोटिशः प्राहिणोद् द्रुतम्
पूर्वं गतैः समाहूता आययुः कपिकोटयः. ॥२४०॥
कीशा हि म वति प्राज्यमाहेश्वरसवान्नजम्
मूलं फलं च जगृहुर्मासतृप्तिप्रदायकम्. ॥२४१॥
वानरा ज वनास्तस्मिन्मुहूर्ते बहुकोटयः
आगताः सर्वतो हृष्टाः सुग्रीवं प्लवगेश्वरम्. ॥२४२॥
यदुपा य नमानीतं दिव्यं मूलं फलं मुदा
सुग्रीवायार्पयामासुर्नमश्चक्रुः कृपार्थिनः. ॥२४३॥
रामानु ज स्तदोवाच, ‘ प्लवगेंद्र ! मया सह
निर्गच्छ राघवं द्रष्टुं यदि ते सौम्य ! रोचते. ’ ॥२४४॥
कपिना य क आहा ‘ र्य ! स्थेयं त्वच्छासने मया. ’
इत्युक्त्वा तेन ताराद्याः प्रेयस्यस्ता विसर्जिताः. ॥२४५॥
प्रथमं रा घवं स्थपय शिबिकायां कपीश्वरः
स्नेहहर्षोत्सवैर्युक्तः स्वयमारुह्य निर्ययौ. ॥२४६॥
नरोत्त म स्थितेर्देशं प्राप्य यानात्सलक्ष्मणः
अवतीर्य पपाताथ स मूर्ध्ना पादयोः प्रभोः. ॥२४७॥
रामेण श्री मता प्रेम्णा दृढमालिंगितः सखा
सांत्वितश्च यथान्यायं बोधितः संस्तुतो भृशम्. ॥२४८॥
आगता रा ज्ञ आज्ञातः कपयो न पयोधराः
यथातथा रजोव्रातैः कुर्वंतो दुर्दिनं तदा. ॥२४९॥
कपीनां म हतां सेना असंख्याः सिंधुसन्निभाः
समागतास्ताः संप्रेक्ष्य हृष्टो रामः सलक्ष्मणः. ॥२५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:38.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

येरें

  • सना . ( ** व्य ) दुसरा ; तो एक ; उल्लेख केलेला मनुष्य ; अन्य ; इतर . सीता म्हणे लक्ष्मणा धाव । येरु म्हणे राक्षसी माव । 
  • न. ( गो . ) सुकाणूं . येरें भर - न . येरें धरुन बसण्याचें होडीचें टोंक . येरें घुंवडावप - क्रि . ( गो . ) मार्गास लावणें ; दिशा दाखविणें ; किल्ली फिरविणें . येर्‍हिं - क्रिवि . येर्‍हवीं . येर्‍हिं नाकळसी कोण्हासी । - सप्र ६ . ३५ . 
  • हा ; जवळचा . पूववाक्यांत ज्याचा नामनिर्देश केला असतो त्याचा पुनः उल्लख कर्तव्य असतां ह्या सर्वनामाचा प्रयोग करितात ; तो ; हा . तैसाचि देखे येरें । निनादें अति गहिरें । - ज्ञा १ . १४६ . [ सं . अपर , अवर . सं . अन्यतर - अण्णयर - यर = येरु ] सामाशब्द - 
  • ०घर न. ब्रह्मस्वरुप . जावाई पु जावयाच्या भावास तुच्छतेनें म्हणतात . 
More meanings
RANDOM WORD

Did you know?

भक्त आणि भक्ती या संकल्पना स्पष्ट कराव्यात.
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.