TransLiteral Foundation

किष्किंधाकांडम् - काव्य १०१ ते १५०

किष्किन्धाकाण्डम् या प्रकरणातील श्लोकातील चवथे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


काव्य १०१ ते १५०
मुनिरा ज स्त्वतिक्रुद्धः शप्तवान् वालिनं प्रभो !
तेनात्र न प्रवेष्टव्यं प्रविष्टस्य वधो भवेत्. ॥१०१॥
वालिनो य इह स्थाने किचित्स्थास्यंति वानराः
बहुवर्षाणि शैलत्वं तेषामपि भविष्यति. ॥१०२॥
तं वान रा णां वदनात् शापं श्रुत्वा कपीश्वरः
ऋष्यमूकमिमं द्रष्टमपि राम ! बिभेत्यलम्. ॥१०३॥
अतोऽह म त्र तिष्ठामि द्विषोऽपगतसाध्वसः
गिरिकूटनिभः शुष्कः कायस्तस्यैष दृश्यते. ॥१०४॥
इमे च श्री भृतः शालाः सप्त शाखावलंबिनः
यत्रैकं घटते वाली निष्पत्रयितुमोजसा. ॥१०५॥
एतद्धि रा म ! तद्वेर्यं भया सर्वं प्रकाशितम्,
कथं तं वालिनं हंतुं समरे शक्ष्यसे नृप ! ’ ॥१०६॥
सुग्रीव म थ तच्छ्रुत्वा प्रहसंल्लक्ष्मणोऽब्रवीत्,
‘ कस्मिन्कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ? ’ ॥१०७॥
कपि रा ज उवा, ‘ चांग ! सप्त शालानिमान् पुरा
एवमेकैकशो वाली पीडयामास चासकृत्. ॥१०८॥
एषाम य मगं राम ! एकमेकेषुणा यदि
विदारयेद्धतं मन्ये वालिनं शक्तिशालिनम्. ॥१०९॥
यत्कास रा सुरस्यास्थि पादेनैकेन लक्ष्मण !
उद्यम्य प्रक्षिपेच्चापि तरसा द्वे धनुःशते. ’ ॥११०॥
उवाच म धुरं रामः, ‘ प्रत्ययो मे न विक्रमे
तर्हि तं समरे श्लाघ्यमहमुत्पादयामि ते. ’ ॥१११॥
उक्त्वैवं ज गदीशस्तं दुंदुभेः कायपंजरम्
पादांगुष्ठेन चिक्षेप लीलया दशयोजनम्. ॥११२॥
‘ आर्द्रः का य स्तदा शुष्क इदानीं तेन राघव !
नात्र शक्यं बलं ज्ञातुमि ’ति कीशाधिपोऽब्रवीत्. ॥११३॥
तच्छ्रुत्वां ज गतां नाथः शालानुद्दिश्य सायकम्
मुमोचाशु स तान् सप्त भित्वा भूमिं च दुर्धरः ॥११४॥
पाताले य मसात्कृत्वा दानवान् शरधिं पुनः
प्रविवेश मुहूर्तेन तदृट्ष्ट्वा विस्मितः कपिः ॥११५॥
प्रणम्य रा घवायाह, ‘ सेंद्रानपि सुरान् शरैः
समर्थस्त्वं रणे हंतुं किं पुनर्वालिनं प्रभो ! ॥११६॥
अरिं त म द्यैव रणे मत्प्रियार्थं महाभुज !
जहि दाशरथे ! तुभ्यं मया बद्धोऽयमंजलिः. ’ ॥११७॥
तं रामः श्री पतिः प्रेम्णा परिष्वज्याब्रवी, ‘ त्सखे !
इतो गच्छाम किष्किंधां क्षिप्रं गच्छ त्वमग्रतः. ॥११८॥
गत्वा चा रा दरातिं तमाह्वय भ्रातृगंधिनम्
त्वया समागतं पापं हंताशु मम मार्गणः. ’ ॥११९॥
तथेति म ह दास्थाय धैर्यं कीशो गतोऽग्रतः
वृक्षैरात्मानमावृत्य रामोऽतिष्ठन्महावने. ॥१२०॥
सुग्रीवो ज नितोत्साहो बद्ध्वा परिकरं दृढम्
वेगेन व्यनदद्धोरं कोपादाहूय वालिनम्. ॥१२१॥
समरा य समाहूतः क्रोधांधो वानरेश्वरः
निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव. ॥१२२॥
ततः प रा क्रमवतोस्तयोर्भ्रात्रोः सरोषयोः
रणोऽभवत्सुतुमुलो बुधांगारकयोरिव. ॥१२३॥
दृष्ट्वा स म स्वरूपौ तावुभौ देवाविवाश्विनौ
नावगच्छत्सुकंठं तं वालिनं वापि राघवः. ॥१२४॥
ततो नि ज मिषुं मोक्तुं बुद्धिं चक्रे न राघवः
भग्नः सुकंठोऽजानानो नाथं शैलं प्रदुद्रवे. ॥१२५॥
प्राप्तोऽभ य मभिप्रेक्ष्य ऋष्यमूकमगं ततः
‘ मुक्तो ग्यसि त्वमि ’ त्युक्त्वा परावृत्तः कपीश्वरः. ॥१२६॥
सहानु ज स्तमागच्छद्राघवोऽमुमुवाच सः
आह्वयस्वेति मामुक्त्वा ‘ किमिदानीं त्वया कृतम् ? ’ ॥१२७॥
रामो व य स्यं प्लवगं तमुवाचाभिसांत्वयन्,
‘ श्रूयतां कारणं तात ! क्रोधश्च व्यपनीयताम्. ॥१२८॥
परस्प रा भिन्नरूपस्वरविक्रमवेगयोः
सादृश्यातिशयाद्भ्रात्रोर्व्याक्तिर्वां नोपलक्षिता. ॥१२९॥
प्लवंग म पते !ऽत्यंतं सादृश्यान्मोहितेन वाम्
त्वद्धातशंकितेनेषुर्न प्रक्षिप्तः सखे ! मया. ॥१३०॥
न त्वया श्री मता भूयो योद्धव्यं तेन वालिना
हंताहं तात ! तं दृष्टा त्वय्यभिज्ञानमुज्ज्वलम्. ’ ॥१३१॥
उक्त्वैवं रा घवः प्राह, ‘ लक्षणोत्तिष्ठ सत्वरम्
प्रफुल्लां नागपुष्पीं त्वं सख्युः कंठे स्वयं कुरु. ’ ॥१३२॥
प्लवंग म स्तया कंठे कृतया लतया बभौ,
आकाशे शारदश्चंद्रो यथा नक्षत्रमालया. ॥१३३॥
सुग्रीवो ज यकामस्तां किष्किंधां प्राप्य वालिनम्
आह्वयामास सहसा स्वपुरात्सोऽपि निर्गतः. ॥१३४॥
वाली प्र य तयोत्सिक्तस्तारया श्रुतवृत्तया
निवारितोऽपि निरगादपुनर्गतये गृहात्. ॥१३५॥
तं संग रा य प्रवृत्तं पुनर्वालिनमुद्धतम्
हयिमानं च सुग्रीवं दृष्ट्वा श्रितहितः प्रभुः ॥१३६॥
बाणेन म हता रामस्ताडयामास वक्षसि
स विद्धवक्षाः सहसा निपपात धरातले. ॥१३७॥
इंद्रध्व ज इवोद्धूतो गतसत्त्वो विचेतनः
पतितः प्लवगाधीशः प्रभोः परशराहतः. ॥१३८॥
सुरना य कदता या मला कंठेऽस्य कांचनी
सा दधार श्रियं प्राणान् पतितस्यापि वालिनः ॥१३९॥
देवरा ज सुतो दृष्ट्वा समीपे सानुजं प्रभुम्
गर्हयामास बहुशः पराड्मुखवधाघतः. ॥१४०॥
‘ कः क्षत्रि य कुले जातः श्रुतवान् नष्टसंशयः
धर्मलिंगप्रतिच्छन्नः क्रूरं कर्म समाचरेत् ? ॥१४१॥
शठः क्रू रा चरणवान् मिथ्याप्रश्रितमानसः
कथं दशरथेन त्वं जातः पापो महात्मना ? ॥१४२॥
सुग्रीव म नसः कर्तुं प्रियमेतत्कृतं त्वया
स्वदारप्राप्तिकामेन राम ! कामपरात्मना. ॥१४३॥
रावणं श्री मदांधं तं पूर्वं संप्रार्थितो ह्यहम्
एकाह्वा न किमाहर्ता कंठे बद्ध्वा तवांतिकम् ? ॥१४४॥
पारावा रा प्सु वा न्यस्तां पाताले वापि मैथिलीम्. ’
आनयेयं तवादेशाद्धयग्रीव इव श्रुतिम्. ’ ॥१४५॥
इत्यादि म न्युमान् राममुवाच कुवचः कपिः
तमुवाच प्रभु, ‘ नं ! त्वं धर्मं जानासि वानर ! ॥१४६॥
भरतो ज गतीपालस्तदाज्ञाकारिणा मया
वध्या अधार्मिकाः सर्वे नृपैरन्यैरपि क्षितौ. ॥१४७॥
त्वं यवी य स उद्वृत्त भार्यायां खलु वर्तसे
पुत्रः कनीयान् धर्मेण तद्भार्या च स्नुषा मता. ॥१४८॥
भ्रातृदा रा पहर्तारं हत्वा त्वां वानराधमम्
धर्मस्य रक्षआण्ल्लोकसंग्रहोऽयं मया कृतः. ॥१४९॥
न मेऽत्र म नसस्तापश्छन्ना दृश्याश्च भूमिपाः
मृगान् हत्वापि निर्दोषास्त्वं च शाखामृगः स्फुटम्. ’ ॥१५०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:38.2100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

क्रोधा

  • वि. ( संगीत ) नवव्या श्रुतीचें नांव . ( सं .) 
RANDOM WORD

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.