संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|तृतीयः पादः| सूत्र ९-१२ तृतीयः पादः सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६-८ सूत्र ९-१२ सूत्र १३-१४ सूत्र १५ सूत्र १६ तृतीयः पादः - सूत्र ९-१२ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ९-१२ Translation - भाषांतर सामीप्यात्तु तद्वयपदेश: ॥९॥ननु कायविषयेऽपि ब्रम्हाशब्दो नोपपद्यते समन्वये समस्तस्यहि जगतो जन्मादिकारणं ब्रम्हाति स्थापितामिति ।अत्रोच्यते ॥सामीप्यात्तु तद्वयषदेश: ॥तुशब्द आशङकाव्यावृत्त्यर्थ: ।परब्रम्हासामीष्यादपरस्यब्रम्हाणस्तस्मिन्नपि ब्रम्हाशब्दप्रयोगो न विरुध्यते ।परमेव हि ब्रम्हा विशुद्धोपाधिसंबन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिरुपासनायोपदिश्यमानमपरमिति स्थिति: ॥९॥कार्यात्यये तदध्यक्षेण सहात: परमभिधानात् ॥१०॥ननु कार्यप्राप्तावनावृत्तिश्रवणं न घटते ।न हि परस्माब्रम्हाणोऽन्यत्र क्वचिन्नित्यता संभवति ।दर्शयति च देवयानेन पथा प्रस्थितानामनावृत्तिं एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त इति तेषामिह न पुनरावृत्तिरस्ति तयोर्ध्वमायन्नमृतत्वमेतीति चेत् ।अत्र ब्रूम: ॥कार्यात्यये तदध्यक्षेण सहात: परमंभिवानात् ॥कार्यब्रम्हालोकप्रलयप्रत्युपस्थाने सति तत्रैवोत्पन्नसम्यग्दर्शना: सन्तस्तदध्यक्षेण हिरण्यगभेंण सहात: परं परिशुद्धं विष्णो: परमं पदं प्रतिपद्यन्त इति ।इत्थं क्रममुक्तिरनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्था ।न हयञ्जस्यैव गतिपूर्विका परप्राप्ति: संभवतीत्युपपादितम् ॥१०॥स्मृतेश्च ॥११॥स्मृतेश्व ॥स्मृतिरप्येतमर्थमनुजानाति - ब्रम्हाणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।परस्यान्ते कृतात्मान: प्रविशन्ति परं पदमिति ।तस्मात्कार्यब्रम्हाविषया गति: श्रूयत इति सिद्धान्त: ॥११॥परं जैमिनिर्मुख्यत्वात् ॥१२॥परं जैमिनिर्मुख्यत्वात् ॥कं पुन: पूर्वपक्षमाशङ्कयायं सिद्धान्त: प्रतिष्ठापित: कार्यं बादरिरित्यादिनेति ।स् इदानीं सूत्रैरेवोपदर्श्यते ।जैमिनिस्त्वाचार्य: स एताब्रम्हा गमयतीत्यत्र परमेव ब्रम्हा प्रापयतीति मन्यते ।क्रुत । मुख्यत्वात् ।परंहि ब्रम्हा ब्रम्हाशद्धस्य मुख्यमालम्बनं गौणमपरम ।मुयगौणयोश्च मुख्ये संप्रत्ययो भवति ॥१२॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP