संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|तृतीयः पादः| सूत्र ६-८ तृतीयः पादः सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६-८ सूत्र ९-१२ सूत्र १३-१४ सूत्र १५ सूत्र १६ तृतीयः पादः - सूत्र ६-८ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ६-८ Translation - भाषांतर वैद्युतेनैव ततस्तच्छ्रुते: ॥६॥कथं पुनरातिवाहिकत्वपक्षे वरुणादिषु तत्संभव: ।विद्युतो हयधि वरुणादय उपक्षिप्ता विद्युतस्त्वनन्तरमाब्रहम्हाप्राप्तेरमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतमिति ।अत उत्तरं पठति ॥वैद्यतनैव ततस्तच्छुत: ।ततो विद्युदभिसंभवन दूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रम्हालोकं गच्छन्तीत्यवगन्तव्यम् ।तान्वैद्युत न्पुरुषोऽमानव: स एत्य ब्रम्हालाकं गमयतीति तस्यैव गमयितृत्वश्रुते: ।वरणादयस्तु तस्यैवाप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचिदनुग्राहक्रा इत्यवगन्तव्यम् ।तस्म त्साधूक्तमातिवाहिका देवतात्मानोऽर्चिरादय इति ॥६॥कार्यं बादरिरस्य गत्युपपत्ते: ॥७॥कार्यं बादरिरस्य गत्युपपत्ते: ॥ स एनान्ब्रम्हा गमयतीत्यत्र विचिकित्स्यते किं कार्यमपरं ब्रम्हा गमयत्याहोस्वित्परमेवाविकृतं मुख्यं ब्रम्होति ।कुत: संश्य: ।ब्रम्हाशाब्दप्रयांगाद्नतिश्रुतेश्च ।तत्र कार्यमेव सगुणमपरं ब्रम्हा नयतेतानमानव: पुरुष इति बादरिराचार्यो मन्यते । कुत: ।अस्य गत्युपपत्ते: ।अस्य हि कार्यब्रम्हाणो गन्तव्यत्वमुपपद्यते प्रदेशवत्त्वात् ।न तु परस्मिन्ब्रम्हाणि गन्तृत्वं गन्तव्यत्वं गतिर्वाऽवकल्पते ।सर्वगतत्वात्प्रत्यगात्मत्वाच्च गन्तृणाम् ॥७॥विशेषितत्वाच्च ॥८॥विशेषितत्वाच्च ॥ब्रम्हालोकन्गमयति ते तेष ब्रम्हालोकेषु परा: परावतो वसन्तीति श्रुत्यन्तरे विशेषितत्वात्कार्यब्रम्हाविषयैव गतिरित्यवगम्यने ।न हि बहुवचनेन विशेषणं परस्मिन्ब्रम्हाण्यवलक्पते ।कार्ये त्ववस्थाभेदापपत्ते: संबवति बहुवचनम् ।लोकशृतिरफि विकारगोचरायामेव संनिवेशविशिष्टायां भोगभूमावाञ्जसी ।गौणी त्वन्यत्र ब्रम्हौव लोक एव सम्राडित्यादिषु ।अधिकरणाधिकर्तव्यनिर्देशोऽपि परस्मिन्ब्रम्हाण्यनाञ्चस: स्यात् ।तस्मात्क्रार्यविषयभेवेदं नयनम् ॥८॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP