संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|तृतीयः पादः| सूत्र १५ तृतीयः पादः सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६-८ सूत्र ९-१२ सूत्र १३-१४ सूत्र १५ सूत्र १६ तृतीयः पादः - सूत्र १५ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १५ Translation - भाषांतर अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥१५॥अप्रतीकालम्बनान्नयतीनि बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥स्थितमेतत्कार्यंविषया गतिर्न परविषयेति ।इदमिदानीं संदिहयते किं सर्वान्विकारालंबनानविशेषेणैबामानव: पुरुष: प्रापयति ब्रम्हालोकमुत कांश्चिदेवेति ।किं तावत्प्राप्तं सर्वेषामेवैषां विदुषमन्यत्र परस्मादब्रम्हाणो गति: स्यात् ।तथा हि अनियम: सर्वासामित्यत्राविशेषेणैवेषा विद्यान्त्रेष्ववतारितेति ।एवं प्राप्ते प्रत्याह ।अप्रतीकालम्बनानिति ।प्रतीकालम्बनान्वर्जयित्वा सर्वानन्यान्विकारालम्बनान्नयति ब्रम्हालोकमिति बादरायण आचार्यो मन्यते ।न हयेवमुभयथाभावाभ्युपगमे कश्चिद्दोषोऽस्ति ।अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्ते: ।तत्क्रुतुश्वास्योभयथाभावस्य समर्थको हेतुर्द्रष्टव्य: ।यो हि ब्रम्हाक्रतु: स ब्राम्हामैश्वर्यमासीदेदिति श्लिष्यते तं यथा यथोपासते तदेव भवन्तीति श्रुते: ।न तु प्रतीकेषु ब्रम्हाक्रतुत्वमस्ति प्रतीकप्रधानत्वादुपासनस्य ।नन्वब्रम्हाक्रतुरपि ब्रम्हा गच्छतीति श्रुयते यथा पञ्चाग्निविद्यायां स एनान्ब्रम्हा गमयतीति ।भवतु यत्रैवमाहत्यवाद उपलभ्यते तदभावे त्वौत्सर्गिकेण तत्क्रतुन्यायेन ब्रम्हाक्रतूनामेव तत्प्राप्तिर्नेतरेषामिति गम्यते ॥१५॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP