संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|तृतीयः पादः| सूत्र १३-१४ तृतीयः पादः सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६-८ सूत्र ९-१२ सूत्र १३-१४ सूत्र १५ सूत्र १६ तृतीयः पादः - सूत्र १३-१४ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १३-१४ Translation - भाषांतर दर्शनाच्चा ॥१३॥दर्शनाच्च ॥तयोर्ध्वमायन्नम्रुतत्वमेतीति च गतिपूर्वकममृतत्वं दर्शयति ।अमृतत्वं च परस्मिन्ब्रम्हाण्युपपद्यते न कार्ये विनाशित्वात्कार्यस्य ।अथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यमिति वचनात्परविषयैव चैषा गति: कठवल्लीषु पठयते ।न हि तत्र विद्यान्तरप्रक्रमोऽस्ति अन्यत्र धर्मादन्यत्राधर्मादिति परस्यैव ब्रम्हाण: प्रक्रान्तत्वात् ॥१३॥न च कार्ये प्रतिपत्त्यभिसंधि: ॥१४॥न च कार्ये प्रतिपत्त्यभिसंधि: ॥अपि च प्रजाशते: सभां वेश्य प्रपद्य इति नायं कार्यविषय: प्रतिपत्त्यभिसंधि: ।नामरूपयोर्निर्वहिता ते यदन्तरा तब्रम्होति कार्यविलक्षणस्य परस्यैव ब्रम्हाण: प्रकृतत्वात् ।यशोऽहं भवामि ब्राम्हाणानामिति च सर्वात्मत्वेनोपक्रमात् ।न तस्य प्रतिमाऽस्ति यस्य नाम महद्यश इति च परस्यैव ब्रम्हाणोयशोनामत्वप्रतिद्धे ।सा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता तदपराजिता पूर्ब्रम्हाण: प्रभुविमितं हिरण्ययमित्यत्र ।पदेरपिच गत्यर्थत्वान्मार्गापेक्षताऽवसीयते ।तस्मात्परब्रम्हाविषया गतिश्रुतय इति पक्षान्तरम् ।तावेतौ द्वौ पक्षावाचार्येण सूत्रिता गत्युपपत्त्यादिभ्रेक: ।मुख्यत्वादिभिरपर: ।तत्र गत्युपपत्त्यादय: प्रभवन्ति मुख्यत्वादीनाभासयितुं न तु मुख्यत्वादयो गत्युपपत्त्यादीनित्याद्य एव सिद्धान्तो व्याख्यातो द्वितीयस्तु पूर्व: पक्ष: ।न हयसत्यपि संभवे मुक्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यते ।परविद्याप्रकरणेऽपि च तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते विष्वङ्ङन्या उत्क्रमण भवन्तीतिवत् ।प्रजापते: सभां बेश्म प्रपद्य इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसन्धिर्न विरुध्यते ।सगुणेऽपि ब्रम्हाणि च सर्वात्मत्वसंकीर्तनं सर्वकर्मा सर्वकाम इत्यादिवदवकल्पते ।तस्मादपरविषया एव गतिश्रुतय: ।केचित्पुन: पूर्वाणि पूवपक्षसूत्राणि भवन्त्युत्तराणि सिद्धान्तसूत्राणीत्येतां व्यवस्थामनुरुध्यमाना: परविशया एव गतिश्रुती: प्रतिष्ठापयन्ति तदनुपपन्नं गन्तव्यत्वानुपपत्तेर्ब्रम्हाण: ।यत्सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रम्हा आकाशवत्सर्वगतश्च नित्य: यत्साक्षादपरोक्षादब्रम्हा य आत्मा सर्वान्तर: आत्मैवेदं सर्वं ब्रम्हौवेदं विश्वमिदं वरिष्ठमित्यादिश्रुतिनिर्धारितविशेषं तस्य गन्तव्यता न कदाचिदप्युपपद्यते ।न हि गतमेव गम्यते ।अन्यो हयन्यद्नच्छतीति प्रसिद्धं लोके ।ननु लोके गतस्यापि गन्तव्यता देशान्तरविशिष्टा द्दष्टा ।यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छतीति ।तथाऽनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं वार्धक्यं स्वात्मभूतमेव गन्तव्यं द्दष्टं तद्वदब्रम्हाणोऽपि सर्वशक्त्युपेतत्वात्कथंचिद्नन्तव्यता स्यादिति । न ।प्रतिषिद्धसर्वविशेषत्वादब्रम्हाण: ।निष्कलं निष्क्रियं शान्त निरवद्यं निरञ्जनम् ।अस्थूलमनण्वन्हस्वमदीर्घं सबाहयाभ्यन्तरा हयज: स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रम्हा स एष नेति नेत्यात्मेत्यादिश्रुतिस्मृतिन्यायेभ्यो न देशकालादिविशेषयोग: परमात्मनि कल्पयितुं शक्यते ।येन भूषदशवयोवस्थान्यायेनास्य गन्तव्यता स्यात् ।भूवयसोस्तु प्रदेशावस्थादिविशेशयोगादुपपद्यते देशकालविशिष्टा गन्तव्यता ।जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरनेकशक्तित्वं ब्रम्हाण इति चेत् । न ।विशेषनिराकरणश्रुतीनामनन्यार्थत्वात् ।उत्पत्त्यादिश्रुतीनामपि समानमनन्यार्थत्वमिति चेत् । न ।तासामक्रत्वप्रतिपादनपरत्वात् ।मृदादिद्दष्टान्तौर्हि सतो ब्रम्हाण एकस्य सत्यत्वं विकारस्य चानृतत्वं प्रतिपादयच्छास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति ।कस्मात्पुनरुत्पत्त्यादिश्रुतीनां विशेषनिराकरणश्रुतिशेषत्वं न पुनरितरशेषत्वमितरासामिति । उच्यते ।विशेषनिराकरणश्रुतीनां निरकाङ्क्षार्थत्वात् ।न हयात्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूय: काचिदाकाङ्क्षोपजायते पुरुषार्थसमाप्तिबुद्धयुत्पत्ते: ।तत्र को मोह: का शोक एकत्वमनुपश्यत: अभयं वै जनक प्राप्तोऽसि विद्वान्न बिभेति कुतश्चन एत ह वाव न तपति किमह साधु नाकरवं किमहं पापमकरवमित्यादिश्रुतिभ्य: । तथैव च विदुषां तुष्टयनुभवादिदर्शनात् ।विकारानृताभिसन्ध्यपवादाच्च मृत्यो: स मृत्युमाप्नोति य इह ननिव पश्यतीति ।अतो न विशेषनिराकरणश्रुतीनामन्यशेषत्वमवगन्तुं शक्यते ।नैवमुत्पत्त्यादिश्रुतीनां निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति ।प्रत्यक्षं तु तासामन्यार्थत्वं समनुगम्यते ।तथा हि तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतीत्युपन्यस्योदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति ।यतो वा इमानि भूतानि जापन्ते ।येन जातानि जीवन्ति ।यत्प्रयन्त्यभिसंविशन्ति ।तद्विजिज्ञासस्व ।तदब्रम्होति च ।एवमुत्पत्त्यादिश्रुतीनामैकात्म्यावगमपरत्वान्नानेकशक्तियोगो ब्रम्हाण: ।अतश्च गन्त व्यत्वानुपपत्ति: ।न तस्य प्राणा उत्क्रामन्ति ब्रम्हौव सन्ब्रम्हाप्येतीति च परस्मिन्ब्रम्हाणि गतिं निवारयति ।तव्द्याख्यातं स्पष्टो हयेकेषामित्यत्र ।गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रम्हाणोऽवयवो विकारोऽन्यो वा तत:स्यात् ।अत्यन्ततादात्म्ये गमनानुपपत्ते: ।यद्येवं तत: किं स्यात् ।अत उच्यते ।यद्येकदेशस्तेनैकदेशिनो नित्यप्राप्तत्वान्न पुनर्ब्रम्हागमनमुपपद्यते ।एकदेशैकदेशिकल्पना च ब्रम्हाण्यनुपपन्ना निरवयवत्वप्रसिद्धे: ।विकारपक्षेऽप्येतत्तुल्यं विकारेणापि विकारिणो नित्यप्राप्तत्वात् ।न हि घटो मृदात्मतां परित्यज्यावतिष्ठते परित्यागेऽभावप्राप्ते: ।विकारावयवपक्षयोश्च तद्वत: स्थिरत्वादब्रम्हाण: संसारगमनमप्यनक्लृप्तम् ।अथान्य एव जीवो ब्रम्हाण: ।सोऽभुर्व्यापी मध्यमपरिमाणो वा भवितुमर्हति ।व्यापित्वे गमनानुपपत्ति: ।मध्यमपरिमाणत्वे चानित्यत्वप्रसङ्ग: ।अणुत्वे कृत्स्नशरीरवेदनानुपपत्ति: ।प्रतिषिद्धे चाणुत्वमध्यमपरिमाणत्वे विस्तरेण षुरस्तात् ।परस्माच्चान्यत्वे जीवस्य तत्त्वमसीत्यादिशास्त्रबाधप्रसङ्ग: ।विकारावयवपक्षयोरपि समानोऽयं दोष: ।विकारावयवयोस्तद्वतोऽनन्यत्वाददोष इति चेत् । न ।मुख्यैकत्वानुपपत्ते: ।सर्वेष्वेतेषु पक्षेष्वनिर्मोक्षप्रसङ्ग ।संयार्यात्मत्वानिवृत्ते: ।निवृत्तौ वा स्वरूपनाशप्रसङ्ग:। ब्रम्हात्मत्वानभ्युपगमाच्च ।यत्तु कैश्चिज्जल्प्यते नित्यानि नैमित्तिकानि कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये काम्यान प्रतिषिद्धानि च परिहियन्ते स्वर्गनरकानवाप्तये सांप्रतदेहोपभोग्यानि च कर्माण्युपभोगेनैव क्षप्यन्त इत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसंधानकारणाभावात्स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रम्हात्मतयैवंतृत्तस्य सेत्यतीति ।तदसत् ।प्रमाणाभावात् ।न हयेतच्छास्त्रेण केनचित्प्रतिपादितं मोक्षार्थीत्थं समाचरेचिति ।स्वमनीषया त्वेतत्तावतं यस्मात्मर्मनिमित्त: संसारस्तस्मान्निमित्ताभावान्न भविष्यतीत ।न चैतत्तर्कयितुमपि शक्यते निमित्ताभावस्य दुर्ज्ञानत्वात् ।बहूनि हि क्रर्माणि जात्यन्तरसंचितानीष्टानिष्टविपाकान्येकैक्रस्य जन्ता: संभाव्यन्त ।तेषां विरुद्वफलानां युगपदुपभोगासंभवात्कानिचिल्लब्धावसराणीदं जन्म निर्मिमते कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासत श्त्यतस्तेषामवशिष्टानां सांप्रतेनोपभोगंन क्षपणासंभावान्न यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभाव: शक्यते निश्चेतुम् ।कर्मशेषसद्भावसिद्धिश्च तद्य इह रमणीयचरणास्तत: शेषेणेत्यादिश्रुतिस्मृतिभ्य: ।स्यादेतत् ।नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति ।तन्न विरोधाभावात् ।सति हि विरोधे क्षेप्यक्षेपकभावा भवति ।न च जन्मान्तरसंचितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोध: ।शुद्धिरूपत्वाविशेषात् ।दुरितानां त्वशुद्धिरूपत्वात्सति हि विरोधे भवतु क्षेपणं न तु तावता देहान्तरनिमित्ताभावसिद्धि: ।सुकृतनिमितत्वोपपत्ते: ।दुश्चरितस्याप्यशेषक्षपणानवगमात् ।न च नित्यनैमित्तिकानुष्ठानात्प्रत्यवायानुत्पत्तिमात्रं न पुन: फलान्तरोत्पत्तिरिति प्रमाणमस्ति फलान्तरस्याप्यनुनिष्पादिन: संभवात् ।स्मरति हयापस्त्तम्बस्तयथा आम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चाचर्यमाणमर्था अभूत्पद्यन्त इति ।न चासति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धावर्जन जन्मप्रायणान्तराल केनचित्प्रतिज्ञातुं शक्यम् ।सुनिपुणानामपि सूक्ष्मापराधर्शनात् ।संशयितव्यं तु भवति तथापि विमित्ताभावस्य दुर्ज्ञानत्वमेव ।न चानभ्युपगम्यमाने ज्ञानगम्ये ब्रम्हात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्यात्मन: कैवल्यमाकाङ्क्षयितुं शक्यम् ।अग्न्यौष्ण्यवत्स्वभावस्यापरिहार्यत्वात् ।स्यादेतत् ।कर्तृत्वभाक्तृत्वकार्यमनर्थो न तच्छक्तिस्तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इति ।तच्च न ।शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् ।अथापि स्यान्न केवला शक्ति: कार्यमारभतेऽनपेक्ष्यान्यानि निमित्तानि ।अत एकाकिनी सा स्थितापि नापराध्यतीति ।तच्च न ।निमित्तामामपि शक्तिलक्षणेन संबन्धेन नित्यसंबद्धत्वात् ।तस्मात्कर्तृत्वभोक्तृत्वस्वभावे सत्यात्मन्यसत्यां विद्यागम्यायां ब्रम्हात्मतायां न कथंचन मोक्षं प्रत्याशाऽअस्त ।श्रुतिश्च नान्य: पन्था विद्यतेऽयनायेति ज्ञानादन्यं मोक्षमार्गां वारयति ।परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गा ।प्रत्यक्षादिप्रमाणाप्रवृतिरिति चेत् ।न ।प्राकप्रबोधात्स्वप्नव्यवहारवत्तदुपपत्ते: ।शास्त्रं च यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यादिनाऽप्रबुद्धविषये प्रत्यक्षादिब्यवहारमुक्त्वा पुन: प्रबुद्ध विषये यत्रत्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादिना तदभावं दर्शयति ।तदेवं परब्रम्हाविदो गन्तव्यादिविज्ञानस्य बाधितत्वान्न कथंचन गतिरुपपादयितुं शक्या ।किंविषया: पुनर्गतिश्रुतय इति । उच्यते ।सगुणविद्याविषया भवष्यन्ति ।तथा हि क्वचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते क्वचित्पर्यङ्कविद्यां क्वचिद्वैश्वानरविद्याम् ।यत्रापि ब्रम्हा प्रकृत्य गतिरुच्यते यथा प्राणो ब्रम्हा कं ब्रम्हा खं ब्रम्होति अथ यदिदमस्मिन्ब्रम्हापुरे दहरं पुण्डरीक वेश्मेति तत्रापि च वामनीत्वादिभि: सत्यकामादिभिश्च गुणै: सगुणस्यैवोपास्यत्वात्संभवति गति: ।न क्वचित्परब्रम्हाविषया गति: श्राव्यते ।तद्यथा गतिप्रतिषेध: श्राव्यते न तस्य प्राणा उत्क्रामन्तिति ।ब्रम्हाविदाप्नोति परमित्यादिषु त सत्यप्याप्नोतेर्गत्यर्थत्वे वर्णितेन न्यायेन देशान्तरप्राप्त्यसंभवात्स्वरूपप्रत्तिपतिरेवेयमविद्याध्यारोपितनामरूपप्रविलयापेक्षयाऽभिधीयते ।ब्रम्हौव सन्ब्रम्हाप्येतीत्यादि च द्रष्टव्यम् ।अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यादनुचिन्तनाय वा ।तत्र प्ररोचनं तावदब्रम्हाविदोन गत्युक्त्या क्रियते ।स्वसंवद्येनेवौव्यवहितने विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धे: ।न च नित्यसिद्धनि: श्रेयसनिवेदनस्यासाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षोपपद्यते ।तस्मादपरविषयैव गति: ।तत्र परापरब्रम्हाविवेकानवधारणेनापरस्मिन्ब्रम्हाणि प्रवर्तमाना गतिश्रुतय: परस्मिन्नध्यारोप्यन्ते ।किं द्वे ब्रम्हाणी परमपरं चेति ।बाढं एतद्वै सत्यकाम परं चापरं च ब्रम्हा यदोंकार इत्यादिर्शनात् ।किं पुन: परं ब्रम्हा किमपरमिति । उच्यते ।यत्राविद्याकृतनामरूपादिविशेषप्रतिषेधादस्थूलादिशब्दैर्ब्रम्हा व्यपदिश्यते तत्परम् ।तदेव यत्र नामरूपादिविशेषेण केनचिद्विशिष्टमुपासनायोपदिश्यते मनोमय: प्राणशरीरो भारूप इत्यादिशब्दैस्तदपरम् ।नन्वेवमद्वितीय श्रुतिरुपरुध्येत । न ।अविद्याकृतनामरूपोपाधिकतया परिह्रतत्वात् ।तस्य चापरब्रम्होपासनस्य तत्संनिदौ श्रूयमाणं स यदि पितृलोकक्रामो भवतीत्यादिजगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति ।अनिवर्तितरवादविद्याया: ।तस्य च देशविशेषावबद्धत्वात्तत्प्राप्त्यर्थं गमनमविरुद्धम् ।सर्वगतत्वेऽपि चात्मन आकाशस्येव घटादिगमने बुद्धयाद्युपाधिगमने गमनप्रसिद्धिरित्यवादिष्म तद्रुणसारत्वादित्यत्र ।तस्मात्कार्यं बादरीत्येष एव पक्ष: स्थित: ।परं जैमिनिरिति तु पक्षान्तरप्रतिपादनमात्रप्रदर्शनं प्रज्ञाविकाशनायेति द्रष्टव्यम् ॥१४॥ N/A References : N/A Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP