तृतीयः पादः - सूत्र ५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


उभयव्यामोहात्तत्सिद्धे: ॥५॥

ननु लिङ्गमात्रमगमकं न्यायाभावात् ।
नैष दोष: ॥
उभयव्यामोहात्तत्सिद्धे: ॥
ये तावदर्चिरादिमार्गास्ते देहवियोगात्संपिण्डितकरणग्रामा इत्यस्वतन्त्रा अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यमित्यतोऽर्चिराद्यभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते ।
लोकेऽपि हि मत्तमूर्च्छितादय: संपिण्डितकरणग्नामा: परप्रयुक्तवर्त्मानो भवन्ति ।
अनवस्थितत्वादप्यर्चिरादीनां न मार्गलक्षणत्वोपपत्ति: ।
न हि रात्रौ प्रेतस्याह: स्वरूपाभिसंभव उपपद्यते ।
न च प्रतिपालनमस्तीत्युक्तं पुरस्तात् ।
ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवति ।
अर्चिरादिशब्दता चैषामर्चिराद्यभिमानादुपपद्यते ।
अर्चिषोऽहरित्यादिनिर्देशस्त्वातिवाहिकत्वेऽपि न विरुध्यते ।
अर्चिषा हेतुनाऽहरभिसंबवन्ति ।
अन्हा हेतुनाऽऽपूर्यमाणपक्शमिति ।
तथा च लोकप्रसिद्धेष्वष्यातिवाहिकेष्वेवंजातीयक उपदेशो द्दश्यते ।
गच्छ त्वमितो बलवर्मामं ततो जयसिहं तत; कृष्णगुप्तमिति ।
अपि चोपक्रमे तेऽर्चिषमभिसंभवन्तीति संबन्धमात्रमुक्तं न संबन्धविशेष: कश्चित् ।
उपसंहारे तु स एतान्ब्रम्हा गमयतीति संबन्धविशेषोऽतिवाहयातिवाहकत्वलक्षण उक्तस्तेन स एवोपक्रमेऽपीति निर्धार्यते ।
मंपिण्डितकरणग्रामत्वादेव च गन्तृणां न तत्र भोगसंभव: ।
लोकशाब्दस्त्वनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते ।
अन्येषां तल्लोकवासिनां भोगभूमित्वात् ।
अतोऽग्निस्वामिकं लोकं प्राप्तोऽग्निनाऽतिवाहयते वायुस्वामिकं प्राप्तो वायनति योजयितव्यम् ॥५॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP