प्रथम: पाद: - सूत्र २४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥२४॥

अन्याधिष्ठितेपु पूर्ववदभिलापात् । तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठयते त इह ब्रीहियवा ओषधिवनस्पतयस्तिलमापा इति जायन्त इति ।
तत्र संशय: किमस्मिन्नेवावदौ स्थावरजात्यापन्ना स्थावरसुखदु:खभाजोऽनुशयिनो भवन्त्याहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेपु  संश्चेषमात्र गच्छन्तीति ।
किं तावत्प्राप्तम् ।
स्थावरजात्यापनास्तस्तुखदु:खभाजोऽनुशयिनो भवन्तीति ।
कुत एतत् ।
जनेर्मुख्यार्थस्वोपपत्ते: ।
स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धे: पशुहिंसादियोगाच्चेष्टादे: कर्मजातस्यानिष्टफलत्वोपपत्ते: ।
तस्मान्मुख्यमेवेदमनुशयिनां व्रीहयादिजन्म श्वादिजन्मवत् ।
यथा श्वयोनिं बा सूकरयोनिं वा चण्डालयोनिं वेति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदु:खान्वितं भवति ।
एवं व्रीहयादिजन्मापीति ।
एवं प्राप्ते ब्रूम: । अन्यैर्जीवैरधिष्ठितेषु व्रीहयादिषु संसगमात्रमनुसयिन: प्रतिपद्यन्ते न तत्सुखदु:खभाजो भवन्ति ।
पूर्ववत् ।
यथा वायुधूमादिभावोऽनुशयिनां तस्यंश्लेषामवं व्रीहयादिभावोऽपि जातित्थावरै: संश्लेषमात्रम् ।
कुत एतत् ।
तद्वदेवेहाप्यभिलापात् ।
को‍ऽभिलापस्य तद्वद्भाव: ।
कर्मव्यापारमन्तरेण संकीर्तनम् । यथाकाशादिषु प्रवर्षणान्तेषु न किंचित्कर्मव्यापारं परामृशत्येवं ब्रीहयादिजन्मन्यपि ।
तस्मान्नास्त्यत्र सुखदु:खभाक्त्वमनुशयिनाम् ।
यत्र तु सुखदु:खभाक्त्वमभिप्रौति परामृशति तत्र कर्मव्यापारं रमणीयचरणा:  कपूयचरणा इति च ।
अपि च मुख्येऽनुशयिनां व्रीहयादिजन्मनि व्रीहयादिषु लूयमानेषु कण्डयमानेषु पच्यमानेषु भक्षमाणेपु च तदभिमानिनोऽनुशयिन; प्रवसेयु: ।
यो हि जीवो यच्छरीरमभिमन्यते स तमिन्पीडयमाने प्रवसतीति प्रसिद्धम् ।
तत्र व्रीहयादिभावाद्रेत: सिग्भावोऽनुसयिनां नाहीलप्येत ।
अत: संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीहयादिषु भवति ।
एतेन जनेर्मुख्यार्थत्वं प्रति ब्रूयात् ।
उपभोगस्थानत्वं च स्थावरभावस्य ।
न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे भवत्वन्येषां जन्तूनामषुण्यसामर्थेन स्थावरभावमुपगतानांएतदुपभोगस्थानम्।
चन्द्रमसस्त्ववरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥२४॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP