संस्कृत सूची|संस्कृत स्तोत्र साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|प्रथम: पाद:| सूत्र ८ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६-२७ प्रथम: पाद: - सूत्र ८ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ८ Translation - भाषांतर कृतात्ययेऽनुशयवान्द्दष्टस्मृतिभ्यां यथेतमनेवं च ॥८॥कृतात्ययेऽनुशयवान्द्दष्टस्मृतिभ्यां यथेतमनेवं च ॥इष्ठादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां तत: प्रत्यवरोह आन्नायते तस्मिन्यावत्संपातमुत्रित्वाऽथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमित्यारभ्य यावद्नमणीयचरणा ब्राम्हाणादियोनिमापद्यन्ते कपूयचरणा: श्वादियोनिमिति ।तत्रेदं विचार्यते किं निरनुशया भुककृत्स्नकर्माणोऽवरोहन्त्याहोस्वित्सानुशया इति ।किंतावत्प्राप्तं निरनुशया इति ।कुत: । यावत्संपातमिति विशेषणात् ।संपातशब्देनात्र कंर्माशय उच्यते ।संपतन्त्यनेनास्माल्लोकादमुं लोकं फलोपभोगायेति ।यावत्संपातमुषित्वेति च कृत्न्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति ।तेषां यदा तत्पर्यवैतीति च श्रुत्यन्तरेणैष एवार्थ: प्रदर्श्यते ।स्यादेतत् ।यावदमुष्मल्लोक उपभोक्तव्यं कर्म तावदुपभुङक्त इति कल्पयिष्यामीति ।नैवं कल्पयितुं शक्यते यत्किंचेत्यन्यत्र परामर्शात् ।प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् ।तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मण इति हयप्यपरा श्रुतिर्यत्किंचेत्यविशेष्यपरामर्शॆन कृत्स्नस्येह कृतस्य कर्मणस्तत्र क्षयिततां दर्शयति ।अपि च प्रायणमनारब्धफलस्य कर्मणीऽभिव्यञ्जकम् ।प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्ते: ।तच्चाविशेषाद्यावत्किंञ्चदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् ।न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति ।न हयविशिष्टे प्रदीपसंनिधौ घटोप्रभिव्यज्यते न पट इत्यु पपद्यते ।तस्मान्निरनुशया अवरोहन्तित्येवं प्राप्ते ब्रूम: ।कृतात्ययेऽनुशयवानिति ।येन कर्मवृन्देन चन्द्रमसमारूढा: फलोपभोगाय तस्मिन्नुपभोगेन क्षयिते तेषां यदम्मयं शरीरं चन्द्रमस्पुपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंपर्कात्प्रविलीयते सवितृक्तिरणसंपर्कादिव हिमकरका हुतभुगर्चि: संपर्कादिव च घृतकाठिन्यम् ।तत: कृतात्यये कृतस्येष्टादे: कर्मण: फलोपभोगेनोपक्षये सति सानुसया एवेममवरोहन्ति ।केन हेतुना ।दृष्टस्मृतिभ्यामित्याह ।तथा हि प्रत्यक्षा श्रुति: सानुशयानामवरोहं दर्शयति तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राम्हाणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाऽथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्चयोनिं वा सूकरयोनिं वा चण्डालयोनिं वेति ।चरणशब्देनात्रानुशय: सूच्यत इति वर्णयिष्यति ।दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूप उपभोग: प्रविभज्यमान आकस्मिकत्वासंवादनुशयसद्भावं सूचयति ।अभ्युदयप्रत्यवाययो: सुकृतदुष्कृतहेतुत्वस्य सामान्यत: शास्त्रेणावगमितत्वात् ।स्मृतिरपि वर्णां आश्रमाश्च स्वकर्मनिष्ठा: प्रेत्य कर्मफलमनुभूय तत: शेषेण विशिष्टदेशजातिकुलरूपायु: - श्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्त इति सानुशायानामेवावरोहं दर्शयति ।क: पुनरनुशयो नामेति ।केचित्तावदाहु: स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेष: कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् ।यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते तथानुशयोऽपीति ।ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम् ।नायं दोष: ।न हि सर्वांत्मना भुक्तफलत्वं कर्मण: प्रतिजानीमहे ।ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढा: । बाढम् ।तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते ।यथा किल कश्चित्सेवक: सकलै: सेवोपकरणै राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरणश्च्छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शन्कोत्येवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलेऽस्थातुं शक्नोतीति ।न चैतद्युक्तमिव ।न हिस्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्यविरोधित्वादित्युक्तम् ।नन्वेतदप्युक्तं न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति ।तदेतदपेशलम् ।स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति स्वर्गच्युतस्यापि कंचित्फललेशं जनयतीति ।न शब्दप्रमाणकानामीदृशी कल्पनाऽवकल्पते ।स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टात्वादुपपद्यते ।तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते ।न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रविरोधात् ।अवश्यं चैतदेवं न स्वर्गफलस्येष्टादे: कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति ।यदि हि येन सुकृतेन कर्मणेष्टादिना स्वर्गमन्वभूवंस्तस्यैव कश्चिदेकदेशोऽनुशय: कल्प्येत ततो रमणीय एवैकोऽनुशय: स्यान्न विपरीत: ।तत्रेयमनुशयविभागश्रुतिरुपरुध्येत तद्य इह रमणियचरणा अथ य इह कपूयचरणा इति ।तस्मादामुष्मिकफले कर्मजात उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयस्तद्बन्तोऽवरोहन्तीति ।यदुक्तं यत्किंचेत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मण: फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति ।नैतदेवम् ।अनुशयसद्भावस्यावगमितत्वात् ।यत्किंचिदिह कृतमामुष्मिकफलं कर्मारब्धभोगं तत्सर्वं फलोपभोगेन क्षपयित्वेति गम्यते ।यदप्युक्तं प्रायणमविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति तत्र केनचित्कर्मणामुष्मिल्लोके फलमारभ्यते केनचिदस्मिन्नित्ययं विभागो न संभवतीति ।तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम् ।अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणाऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् ।आरब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेस्तदुपशमात्प्रायणकाले वृत्युद्भवो भवतीति यद्युच्येत ।ततो वक्तव्यम् ।यथैव तर्हि प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरित्येवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासंभवाद्बलवता प्रतिबद्धस्य दुर्बलस्यवृत्त्युद्भवानुपपत्तिरिति ।न हयनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन्प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुम् ।प्रतिनियतफलत्वविरोधात् ।नापि कस्यचित्कर्मण: पायणेऽभिव्यक्ति: कस्याचिदुच्छेद इति शक्यते वक्तुम् ।ऐकान्तिकफलत्वविरोधात् ।न हि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेद: संभाव्यते ।स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरत्य चिरमबस्थानं दर्शयति - कदाचित्सुकृतं कर्म कूटस्थमिह तिष्ठति ।मज्जमानस्य संसारे वायदु: खाद्विभुच्यत इत्येवंजातीयका ।यदि च कृत्स्नमनारब्धफलं कर्मैक्रस्मिन्प्रायणेऽभिव्यक्तं सदेकां जातिमारभेत तत: स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमाद्धर्माधर्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपप्ययेत ।ब्रम्हाहत्पादीनां चैकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत ।न च धर्माधर्मयो: स्वरूपफललसाधनादिसमधिगमे शास्त्रदतिरिक्तं कारणं शक्यं संभावयितुमु ।न च दृष्टकलस्य कर्मण: कारीर्यादे: प्रायणमभिव्यञ्जकं संभवतीत्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ।प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शननैव प्रतिनीत: ।स्थूलसूक्ष्मरूपाभिव्यक्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् ।यथा हि प्रदीप: समानेऽपि संनिधाने स्थूलं रूपमभिव्यनक्ति न सूक्ष्मम् ।एवं प्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवत: कर्मणो वृत्तिमुद्भावयति न दुर्बलस्येति ।तस्माच्छुतिस्मृतिन्यायविरोधादश्लिप्टोऽयमशेषकर्माभिव्यक्त्यभ्युपगम: ।शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्थाने संभ्रम: ।स्म्यग्दर्शनादशेषकर्मक्षयश्रुते: ।तस्मात्स्थितमेतदेवानुशयवन्तोऽवरोहन्तीति ।ते चावरोहन्तो यथेतमनेवं चावरोहन्ति ।यथेतमिति यथागतमित्यर्थ: ।अनेवमिति तद्विपर्ययेणेत्यर्थ: ।धूमाकाशयो: पितृयाणेऽध्वन्युपात्तयोरवरोहे सकीतताद्यथेतंशब्दाच्च यथागतमिति प्रतीयते ।रात्र्याद्यसंकीर्तर्तनादभ्राद्युपसंख्यानाच विपर्ययोऽपि प्रतीयते ॥८॥ N/A References : N/A Last Updated : December 19, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP