प्रथम: पाद: - सूत्र ९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनि: ॥९॥

चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनि: ॥
अथापि स्यात्  । या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता तद्य इह रमणीयचरणा इति सा खलु चरणाद्योन्यापत्तिं दर्शयति नानुशयात् ।
अन्यञ्चरणमन्योऽनुसय: ।
चरणं चारित्रमाचार: सीलमित्यनर्थान्त्रम् ।
अनुशयस्तु भुक्तफलात्कर्मणोऽतिरिक्तं कर्माभिप्रेतम् ।
श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति ।
य्थाकारी यथाचारी तथा भवतीति ।
यान्यनवद्यानि कर्माणि तानि सेवितव्यानि ।
नो इतराणि ।
यान्तस्माकँ सुचरितानि ।
तानित्वयोपास्यानीति च ।
तरमाच्चरणाद्योन्यापत्तिश्रुतेर्नानुशयसिद्धिरिति चेत् ।
नैष दोष: ।
सतोऽनुशयोपलक्षार्थैवैषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते ॥९॥

N/A

References : N/A
Last Updated : December 19, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP