संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|प्रथम: पाद:| सूत्र ५ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६-२७ प्रथम: पाद: - सूत्र ५ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ५ Translation - भाषांतर प्रथमेऽश्रवणादिति चेन्न ता एव हयुपपत्ते: ॥५॥प्रथमेऽश्रवणादिति चेन्न ता एव हयुपपत्ते: ॥ स्यादेतत् ।कथं पुन: पञ्चम्याहुतावाप: पुरुषवचसो भवन्तोत्येतन्निर्धारयितुं पार्यते ।यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति ।इह हिद्युलोकप्रभृतय: पञ्चाग्नय: पञ्चानामाहुतीनामाधारत्वेनाधीता: ।तेषां च प्रमुखं अऔ वाव लोके गौतमाग्निरित्युपन्यस्य तस्मिन्नेतस्मिन्नग्नौ देवा: श्रद्धां जुहवतीति श्रद्धा ह्ॐयद्रव्यस्वेनावंवदिता ।न तत्रापो हौम्यद्रव्यतया श्रुता: ।यदि नाम प्पजन्यादिषूत्तरेषु चतुर्ष्त्रग्निष्वपां हौम्यद्रव्यता परिकल्प्येत परिकल्प्यतां नाम तेषु होतव्यतयोपात्तानां सोमादिणामब्बहुलत्वोपपत्ते: ।प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्याश्रुता आप: परिकल्प्यन्त इति साहसमेतत् ।श्रद्धा च नाम प्रत्ययविशेष: प्रसिद्धिसामर्थ्यात ।तस्मादयुक्त: पञ्चम्यामाहुतावपां पुरुषभाव इति चेत् ।नैष दोष: ।यतस्तत्रापि प्रथमेऽग्नौ ता एवाप: श्रद्धाशब्देनाभिप्रयन्ते ।कुत: । उपपत्ते: ।एवं हयादिमध्यावसानसंगानादनाकुलमेतदेकवाक्यमुपपद्यते ।इतरथा पुन: पञ्चम्यामाहुतावपां पुरुषवचस्स्वप्रकारे पृष्ठे प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो हौम्यद्रव्यं श्रद्धां नामावतारयेत्ततोऽन्यथा प्रश्नाऽन्यथा प्रतिवचनीमत्येकवाक्यता न स्यात् ।इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति चोपसंहरन्नेतदेव दर्शयति ।श्रद्धाकार्यं च सोमवृष्टयादिस्थूलीभवदब्बहूलं लक्ष्यते ।सा च श्रद्धाया अप्त्वे युक्ति: ।कारणानुरुपं हि कार्यं भवति ।न च श्रद्धाख्य: प्रत्ययो मनसो जीवस्य वा धर्म: सन्धर्मिणो निष्कृष्य होमायोपादातुं शक्यते पश्वादिभ्य इव ह्रदयादीनीत्याप एव श्रद्धाशब्दा भवेयु: ।श्रद्धाशाब्दश्चाप्सूपपद्यते वैदिकप्रयोगदर्शनात् - श्रद्धा वा आप इति ।तनुत्वं स्रद्धासारूप्यं गच्छन्त्यापो देहबीजभूता इत्यत: श्रद्धाशब्दा: स्यु: ।यथा सिंहपराक्रमो नर: सिंहशब्दो भवति ।श्रद्धापूर्वककर्मसमवायाच्चाप्सु श्रद्धाशब्द उपपद्यते मञ्चशब्द इव पुरुषेषु ।श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिरपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मण इति श्रुते: ॥५॥ N/A References : N/A Last Updated : December 19, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP