संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|प्रथम: पाद:| सूत्र ११ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६-२७ प्रथम: पाद: - सूत्र ११ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ११ Translation - भाषांतर सुकृतदुष्कृते एवेति तु बादरि: ॥११॥सुकृतदुष्कृते देवति तु बादरि: ॥ बादरिस्त्वाचार्य: सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते ।चरणमनुष्ठानं कर्मेत्यनथ न्तरम् ।तथा हयविशषेण कर्ममात्रे चरति: प्रयुज्थमानो दृश्यते ।यो हीष्टादिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्मं चरत्येप महात्मेति ।आचारोऽपि च धर्मविशेष एव ।भेदब्यपदेशस्तु कर्मचरणयोर्ब्राम्हाणपरित्राजकन्यायेनाप्युपपद्यते ।तस्माद्रमणियचरणा: प्रशस्तकर्माण: कपूयचरणा निन्दितकर्माण इति निर्णय: ॥११॥अनिष्टादिकारिणामपि च श्रुतम् ॥१२॥अनिष्टादिकारिणामपि च श्रृतम् ।इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम् ।ये त्वितरेऽनिष्टादिकारिणस्तेपि किं चन्द्रमसं गच्छन्त्युत न गच्छन्तीति चिन्त्यते ।तत्र तावदाह ।इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतन्न ।कस्मात् ।यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् ।तथा हयविशेषेण कौषीतकिज: समामनन्ति ये वै के चास्मालोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ।देहारम्भोऽपि च पुनर्जायमानानां नान्तरेण चन्द्रप्राप्तिमवकल्पते ।पञ्चम्यामाहुतावित्याहुतिसंख्यानियमात् ।यस्मात्सर्व एव चन्द्रमसमासीदेयु: ।इष्टादिकारिणामितरेथां च समानगतित्वं न युक्तमिति चेत् ।न । इतरेषां चन्द्रमण्डले भोगाभावात् ॥१२॥ N/A References : N/A Last Updated : December 19, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP