संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|प्रथम: पाद:| सूत्र १९-२१ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३-४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८ सूत्र १९-२१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६-२७ प्रथम: पाद: - सूत्र १९-२१ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १९-२१ Translation - भाषांतर स्मर्यतेऽपि च लोके ॥१९॥स्मर्यतेऽपि च लोके ॥ अपि च स्मर्यते लोके द्रोणधृष्टद्युन्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां चायोनिजत्वम् ।तत्र द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति ।धृष्टद्युन्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्त: ।यथा च तत्राहुतिसंख्यानादरो भवत्येवमन्यन्नापि भविष्यति ।बलाकाप्यन्तरेणैव रेत: सेकं गर्भं धत्त इति लोकरूढि: ॥१९॥दर्शनाच्च ॥२०॥दर्शनाच्च ॥ अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदेजीद्भज्जलक्षणे स्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्मत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति ।एवमन्यत्रापि भविष्यति ।ननु तेषां स्वल्वेषां भूतानां त्रीण्येव बीजानि भवन्याण्ढजं जीवजमुद्धिज्जमिति ।अत्र त्रिविध एव भूतग्राम: श्रूयते कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति । अत्रोच्यते ॥२०॥तृतीयशब्दावरोध: संशोकजस्य ॥२१॥तृतीयशब्दावरोध: संशोकजस्य ॥आणजं जीवजमुद्भिज्जमित्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रह: कृत: प्रत्येतव्य: ।उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युकोद्भेदप्रभबत्वस्य तुल्यत्वात् ।स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोध: ॥२१॥ N/A References : N/A Last Updated : December 19, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP