संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| चतुर्थः पाद:| सूत्र २१-२२ चतुर्थः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५-१६ सूत्र १७ सूत्र १८-१९ सूत्र २० सूत्र २१-२२ चतुर्थः पाद: - सूत्र २१-२२ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २१-२२ Translation - भाषांतर वैशेष्यात्तु तद्वादस्तद्वाद: ॥२१॥अणिष्ठं तु मन: । एवमितरयोरप्तेजसोर्यंथाशब्दं कार्यमवगन्तव्यम् ।एवं मूत्रं लोहितं प्राणश्चापां कार्यम् ।अस्थिमज्जा वाक तेजस इति ॥२१॥वैशेष्यात्तु तद्वादस्तद्वाद: ॥२२॥अत्राह यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकमविशेषश्रुतेस्तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति ।किं कृतस्तहर्ययं विशेषव्यपदेश इदं तेज इमा आप इदमन्नमिति ।तथा अध्यात्ममिदमन्नस्यासितस्य कार्यं मांसादि ।इदमपां पीतानां कार्यं लोहितादि ।इदं तेजसोऽशितस्य कार्यमस्थ्यादीति ।अत्रोच्यते ॥वैशेष्यात्तु तद्वादस्तद्वाद: । तुशब्देन चोदितं दोषमपनुदति ।विशेषरय भावो विशेष्यं भूयस्त्वमिति यावत् ।सत्यपि त्रिवृत्करणे क्कचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यतेऽग्नेस्तेजोभूयस्त्वमुदकस्याब्भूयस्त्वं पृथिव्या अन्नभूयस्त्वमिति ।व्यवहारप्रसिद्धयर्थं चेदं त्रिवृत्करणम् ।व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वपत्तौ सत्यां न भेदेन भृतत्रयगोचरो लोकस्य प्रसिध्येत् ।तस्मात्सत्यपि त्रिवृत्करणे विशेष्यादेव तेजोऽबन्नविसेषवादो भूतभौतिकविषय उपपद्यते ।तद्वादस्तद्वाद इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥२२॥इति श्रीमच्छारीरकमीमांसाभाष्ये शङ्करभगवत्पादकृतौ द्वितीयस्याध्यायस्य चतुर्थ: पाद: ॥४॥अध्यावश्च समाप्त: ।महाराष्ट्रतात्पर्योपेतश्रीमच्छंकराचार्यप्रणीतशारीरभाष्यसमेतानि । N/A References : N/A Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP