संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| चतुर्थः पाद:| सूत्र १२ चतुर्थः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५-१६ सूत्र १७ सूत्र १८-१९ सूत्र २० सूत्र २१-२२ चतुर्थः पाद: - सूत्र १२ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १२ Translation - भाषांतर पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॥१२॥पञ्चवृत्तिर्मनोवद्वयपदिश्यते ॥ इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यं यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु प्राणोऽपानो व्यान उदान: समान इति ।वृत्तिभेदश्चायं कार्यभेदापेक्ष: । प्राण: प्राग्वृत्तिरुच्छ्वासादिकर्मा । अपानोऽवाग्वृत्तिर्नि: श्वासादिकर्मा ।व्यानस्तयो: सन्धौ वर्तमानो वीर्यवत्कर्महेतु: । उदान ऋर्ध्ववृत्तिरुत्कान्त्यादिहेतु: ।समान: समं सर्वेष्वङ्गेषु योऽन्नरसान्नयतीति ।एवं पञ्चवृत्ति: प्राणो मनोवत् ।यथा मनस: पञ्च वृत्तय एवं प्राणस्यापीत्यर्थ: ।श्रोत्रादि निमित्ता: शब्दादिविषया मनस: पञ्च वृत्तय: प्रसिद्धा: ।न तुकाम: संकल्प इत्याद्या: परिपठिता: परिगृहयेरन् ।पञ्चसंख्यातिरेकात् । नन्वत्रापि श्रोत्रादिनिरपक्षा भूतभविष्यदादिविषयाऽपरा मनसो वृत्तिरस्तीति समान: पञ्चसंख्यातिरेक: ।एवं तर्हि परमतमप्रतिषिद्धमनुमतं भवतीति न्यायादिहापि योगशास्त्रप्रसिद्धा मनस: पञ्च वृत्तय़: परिगृहयन्ते प्रणाणविपर्ययविकल्पनिद्रास्मृतयो नाम ।बहुवृत्तित्वमात्रेण वा मन: प्राणस्य निदर्शनमिति द्रष्टव्यम् ।जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वान्मवोवदिति योजयितव्यम् ॥१२॥ Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP