चतुर्थः पाद: - सूत्र ४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तत्पूर्वकत्वाद्वाच: ॥४॥

तत्पूर्वकत्वाद्वाच: ॥ यद्यपि तत्तेजो‍ऽसृजतेत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठयते तेजोऽबन्नानामेव त्रयाणां भूतानामुत्पत्तिश्रवणात्तथापि ब्रम्हाप्रकृतिकतेजोबन्नपूर्वकत्वाभिधानाद्वाक्प्राणमनसां तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रम्हाप्रभवत्वं सिद्धं भवति ।
तथ हयस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामान्नायतेअन्नमयं हि सोम्य मन आपोमय: प्राणस्तेजोमयी वागिति ।
तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वं ततो वर्तत एव ब्रम्हाभवत्वम् ।
अथ भाक्तं तथापि ब्रम्हाकर्तृकायां नामरूपव्याक्रियायां श्रवणाद्येनाश्रुतं श्रुतं भवतीति चोपक्रमादैतदात्म्यमिदं सर्वमिति चोपसंहाराच्छ्रुत्यन्तरप्रसिद्धेश्च ब्रम्हाकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यते ।
तस्मादपि प्राणानां ब्रम्हाविकारत्वसिद्धि: ॥४॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP