संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| चतुर्थः पाद:| सूत्र १ चतुर्थः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५-१६ सूत्र १७ सूत्र १८-१९ सूत्र २० सूत्र २१-२२ चतुर्थः पाद: - सूत्र १ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १ Translation - भाषांतर तथा प्राणा: ॥१॥वियदादिविषय: श्रुतिविप्रतिषेधस्तृतीयेन पादेन परिहृत: ।चतुर्थेनेदानीं प्राणविषय: परिहिरयते ।तत्र तावत्तत्तेजोऽसृजतेति तस्माद्वा एतस्मादात्मन आकाश: संभूत इति चैवमादिषूत्पत्तिप्रकरणेषु प्राणानामुत्पत्तिर्नान्नायते ।क्वचिच्चानुत्पत्तिरेवैषामान्नायते ।असद्वा इदमग्र आसीत्तदाहु: किंतदसदासीदित्यृषयो वाव तेऽग्रेऽसदासीत् ।तदाहु: के ते ऋषय इति ।प्राणा वाव ऋषय इति ।अत्र प्रागुत्पत्ते: प्राणानां सद्भावश्रवणात् ।अन्यत्र तु प्राणानामप्युत्पत्ति: पठयते ।यथाग्नेर्ज्वलत: क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवैतस्मादात्मन: सर्वे प्राणा इति ।एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि चेति ।सप्तप्राणा: प्रभवन्ति तस्मादिति । स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिराप: पृथिवीन्द्रियं मनोऽन्नमिति चैवमादिप्रदेशेषु ।तत्र तत्र श्रुतिविप्रतिषेषादन्यतरनिर्धारणकारणानिरूपणाच्चाप्रतिपत्ति: प्राप्नोति ।अथवा प्रागुत्पत्ते: सद्भावश्रवणाद्नौणी प्राणानामुत्पत्तिश्रुतिरिति प्राप्नोति ।अत उत्तरमिदं पठति ।तथा प्राणा इति । कथं पुनरत्र तथेत्यक्षरानुलोम्यं प्रकृतोपमानाभावात् ।सर्वगतात्मबहुत्ववादिदूषणमतीतानन्तरपादान्ते प्रकृतं तत्तावन्नोपमानं संभवति सादृश्याभावात् ।सादृश्ये हि सत्युपमानं स्यात् ।यथा सिंहस्तथा बलवर्मेति ।अदृष्टसाम्य प्रतिपादनार्थमिति यद्युच्येत यथाऽदृष्टस्य सर्वात्मसंनिधावुत्पद्यमानस्यानियतत्वमेवं प्राणानामपि सर्वात्मन: प्रत्यनियतत्वमिति । तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् ।न च जीवेन प्राणा उपमीयेरन्सिद्धान्तविरोधात् ।जीवस्य हयनुत्पत्तिराख्याता ।प्राणानां तूत्पत्तिराचिख्यासिता ।तस्मात्तथेत्यसंबद्धमिव प्रतिभाति । न ।उदाहरणोपात्तेनाप्युपमानेन संबन्धोपपत्ते: ।अत्र प्राणोत्पत्तिवादिवाक्यजातमुदाहरणम् - एतस्मादात्मन: सर्वे प्राणा: सर्वे लोका: सर्वे देवा: सर्वाणि भूतानि च व्युच्चरन्त्येवंजातीयकम् ।तत्र यथा लोकादय: परस्मादब्रम्हाण उत्पद्यन्ते तथा प्राणा अपीत्यर्थ: ।तथा एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च ।खं वायुर्जोतिराप: पृथिवी विश्वस्य धारिणीत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरितिद्रष्टव्यम् ।अथवा पानव्यापच्च तद्वदित्येवमादिषु व्यवहितोपमानसंबन्धस्याप्याश्रितत्वात्।यथातीतानन्तरपादाद्युक्ता वियदादय: परस्य ब्रम्हाणो विकारा: समधिगतास्तथा प्राणा अपि परस्य ब्रम्हाणो विकारा इति योजयितव्यम् । क: पुन: प्राणानां विकारत्वे हेतु: ।श्रुतत्व मेव ।ननु केपुचित्प्रदेशेषु न प्राणानामुत्पत्ति: श्रूयत इत्युक्तम् ।तदयुक्तम् ।प्रदेशान्तरेषु श्रवणात् ।न हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते ।तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्ते इति सूक्तम् ॥१॥ N/A References : N/A Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP