श्लेष अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


प्रकृताप्रकृतोभयविषयो यथा-
‘ अलं हिमानीपरिदीर्णगात्र: समापित: फाल्गुनसंगमेन । अत्यन्तमाकाड्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्य: ॥ ’
अत्र प्रकृताप्रकृतयोर्भीष्ममाघयोरश्लिष्टत्वाद्विशेषणानां च श्लिष्टत्वाद्‍-भवति तृतीयो भेद: । परं तूपमया संकीर्ण: । यदि च ‘ माघो महात्माजनि
हन्त भीष्म: ’ इत्यप्रकृतांशमपि श्लेषग्रस्तं कृत्वा रूपकं क्तियते, तथापि प्रकृत-विशेष्यस्य माघस्याश्लिष्टत्वादखण्डित एव श्लेष: । न चात्र समासोक्तिरिति भ्रीमतव्यम्‍ , अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात्‍ । यत्र त्वप्रकृतव्यव-हार एव शब्दशक्तिं सहेतापि, न त्वप्रकृतधर्मी, तत्र समासोक्तेरिष्टे: ।
अत्र विचार्यते-अयं चालंकार: प्रायेणालंकारान्तरस्य विषयमभि-निविशते, तत्र किमस्य बाधकत्वं स्यादाहोस्वित्संकीर्णत्वमुताहो बाध्यत्व-मिति । अत्राहुरुद्भटाचार्या:-“-‘ येन नाप्राप्ते य आरभ्यते तस्य स
बाधक: ’ इति न्यायेनालंकारान्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं बाधते । न चास्य विविक्त: कश्चिदस्ति विषयो यत्र सावकाशो नान्यं बाधेत । तथाहि अप्रकृतमात्रयो: प्रकृतमात्रयोर्वा तावत्तुल्ययोगितैव जागर्ति । प्रकृताप्रकृतयोस्तु दीपकम्‍ । तदनुमोदिता उपमादयश्च । न च
‘ देव त्वमेव पातालमाशानां त्वं निबन्धनम्‍ । त्वं चामरमरुद्‍भूमिरेको लोकत्रयात्मक: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP