संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|श्लेष अलंकारः| लक्षण १ श्लेष अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ श्लेष अलंकारः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर श्रुत्येऐकयानेकार्थप्रतिपादनं श्लेष: ॥तच्च द्वेधा । अनेकधर्मपुरस्कारेणैकधर्मपुरस्कारेण च । आद्यं द्वेधा ।अनेकशब्दप्रतिभानद्वारा एकशब्दप्रतिभानद्वारा चेति त्रिविध: श्लेष: । तत्राद्य: सभड्रो द्वितीयो ह्यभड्र इति वदन्ति । तृतीयस्तु शुद्ध: । एवं त्रिविधोऽप्ययं प्रकृतमात्राप्रकृतमात्रप्रकृताप्रकृतोभयाश्रितत्वेन पुनस्त्रि-विध: । अत्राद्ये भेदे द्वितीये च विशेष्यस्य श्लिष्टतायां कामचार: । तृतीयभेदे तु विशेषणवाचकस्यैव श्लिष्टत्वं न विशेष्यवाचकस्य । तथात्वे तु शब्दशक्तिमूलध्वनेरुच्छेद एव स्यात् । विशेषणमात्रश्लिष्टतायामपि प्रकृता-प्रकृतधर्मिणोरुपादान एव श्लेष: । प्रकृतधर्मिमात्रस्योपादाने तुसमासोक्तेरेव विषय: । तदित्थं प्रकृतमात्रविशेष्यकानेकार्थविशेषणं यत्र स एक: । एवम-प्रकृतेत्यादिर्द्वितीय: । पृथगुपात्तप्रकृताप्रकृतोभयविशेष्यकनानार्थविशेषणं तृतीय: । एतदन्यतमत्वं च लक्षणं पर्यवसितम् । क्तमेणोदाहरणानि-‘ संभूत्यर्थं सकलजगतो विष्णुनाभिप्रपन्नं यन्नालं स त्रिभुवनगुरुर्वेदनाथो विरिञ्चि: ।ध्येयं धन्यालिभिरतितरां स्वप्रकाशस्वरूपं पद्माख्यं तत्किमपि ललितं वस्तु वस्तुष्टयेऽस्तु ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP