श्लेष अलंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


मम्मटभट्टैश्व-
‘ भद्रात्मनो दुरधिरोहतनोर्विशाल-वंशोन्नते: कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगते: परवारणस्य दानाम्बुसेकसुभग: सततं करो‌‍ऽभूत्‍ ॥ ’
कुवलयानन्दकारस्तु --“ यदत्र प्रकृताप्रकृतश्लेषोदाहरणे शब्दशक्ति-मूलध्वनिमिच्छन्ति प्राञ्चस्तत्तु प्रकृताप्रकृताभिधानमूलस्योपमादेरलंकारस्य व्यड्रयत्वाभिप्रायं न त्वप्रकृतार्थस्यैव व्यड्रयत्वाभिप्रायम्‍ । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वेन व्यक्त्यनपेक्षत्वात्‍ । यद्यपि प्रकृतार्थे प्रक-रणवशाज्झटिति बुद्धिस्थिते सत्येव पश्चान्नृपतितद्‍ग्राह्यधनादिवाचिनां राज-करादिपदानामन्योन्यसंनिधानबलात्तद्विषयशक्यन्तरोन्मेषपूर्वकम-
प्रकृतार्थ: स्फुरेत्‍, नैतावता तस्य व्यड्रयत्वम्‍ । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात्‍ । पर्यवसिते प्रकृतार्थामिधाने स्फुरति चेक्तामं गूढश्लेषोऽस्तु । अस्ति चान्यत्रापि गूढ: श्लेष: । यथा-
‘ अयमतिजरठा: प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धा: । सततमसुमतामगम्यरूपा: परिणतदिक्करिकास्तटीर्बिभर्ति ॥ ’
अत्र हि समासोक्त्युदाहरणे वृद्धवेश्यावृत्तान्त: प्रतीयते । तत्राभड्र-श्लेष इति सर्वेषामभिमतम्‍ । एवं चाप्रकृतार्थो न व्यड्रय: । ” इत्याह ।
तत्र विचारयाम: - यत्तावदुच्यते उपमादेरलंकारस्यैव व्यड्रयत्वं प्राचीनानामभिप्रेतं न त्वप्रकृतार्थस्येति । एवं सति
‘ अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृव्द्यापृतिरञ्जनम्‍ ॥ ’
इत्यादिस्तेषां ग्रन्थ: कथमायुष्मता समर्थित: ? । उपमादेर्व्यड्रयत्वस्य वाचकतानियन्त्रणाऽनपेक्षत्वात्‍ । नह्यनेकार्थस्यापि शब्दस्योपमादिवाचकत्वं प्रसक्तं येन तन्नियन्त्रणाय संयोगाद्यनुसरणमर्थवत्स्यात्‍, द्वितीयार्थवाचक-
तायामनियन्त्रितायामप्युपमादेर्व्यड्रयत्वम्य निष्प्रत्यूहत्वात्‍ । तस्मात्तद्‍ग्र-न्थानाकलननिबन्धनं तदभिप्रायवर्णनमिति स्फुटमेव ।
यदप्युच्यते अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्येत्यादि । तर कथमप्र-कृतार्थस्य शक्त्या प्रतिपादनम्‍  ? । तद्विषये शक्तेर्नियन्त्रणस्य तैरेवोक्तत्वात्‍ । अथ नियन्त्रणं नाम प्रथमं बोधजननमात्रं न तु चरममपि । एवं च प्रकृत-शक्त्या प्रकृतार्थबोधे जाते सत्यकृतार्थया द्वितीयशक्त्या प्रकृतेतरार्थबोधे न किंचिद्वाधकमिति चेत्‍ । न । प्रथमं ह्यप्रकृतार्थबोधस्याजननमेव कस्य हेतो ? । प्रकरणादिज्ञानेन प्रतिबन्धादिति चेत्‍, प्रकृतार्थबोधोत्तरं सा प्रतिबन्धकता केनापह्लता प्रकणादिज्ञानस्य ? । न च ज्ञानस्याशुविना-
शित्वात्तदानीं प्रकरणज्ञानमेव नष्टमिति वाच्यम्‍ । ज्ञानान्तरस्योत्पत्तौ बाधकाभावात्‍ । सैव ज्ञानव्यक्ति: प्रतिबन्धिकेति तु तत्तव्द्यक्तिसहस्रगतप्र-तिबन्धकत्वसहस्रकल्पनागौरवग्रस्तमेव । तदपेक्षयान्यत्र क्लृप्तव्यञ्जनाख्य-व्यापारस्यैव कल्पयितुं युक्तत्वात्‍ । ‘ जैमिनीयमलं धत्ते रसनायां महामति: ’ इत्यादौ बाधितार्थबोधस्य शक्त्या दुरुपपादत्वाच्च । यदि तु यथाकथंचिदुप-पत्ति: स्यादेवमपि तस्य देवदत्तादौ तत्पुत्रवाक्यादप्रादुर्भावस्तच्छयालका-द्युपहासवाक्यात्प्रादुर्भावश्च न स्यात्‍ । वक्तृबोद्धव्यादिवैशिष्टयस्य व्यड्रयप्र-
तिभामात्रहेतत्वादिति प्राचामाशय: । तत्र किमुच्यते अप्रकृतार्थस्य शक्त्या प्रतिपादनमिति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP