संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|श्लेष अलंकारः| लक्षण ५ श्लेष अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ श्लेष अलंकारः - लक्षण ५ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ५ Translation - भाषांतर अन्ये तु-“ अलंकारा हि प्राधान्येन चमत्काराधायका: स्वां स्वामाख्यां लभन्ते । त एव परोपकारकतया वर्तमानास्तां त्यजन्ति । यथा-‘ रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाड्कबिम्बम् ’ इत्यत्र प्रकृताऽप्रकृता-त्मनामेकधर्मसंबन्धो दीपकाख्यां भजते, त्यजति च ‘ राजते वदनं तन्व्या नभसीव निशाकर: ’ इत्यत्र । अत्र एवोच्यते- ‘ प्राधान्येन व्यप-देशा भवन्ति ’ इति । एवं चालंकारान्तरोपस्कारकतया स्थित: श्लेष:कथंकारं स्वगृहस्थ इव श्लेषालंकारव्यपदेशं वोढुमीष्टामिति बाध्यप्राय एव ” इत्यप्याहु: ।तदित्थं संक्षेपेण श्लेषस्य दिक्प्रदर्शिता । यत्र तु प्रकृताप्रकृतोभयबि-शेष्ययोरपि श्लिष्टपदोपात्तत्वं स तु ध्वनेर्विषय इत्युक्तम् । स च यथा-‘ अविरलविगलद्दानोदकधारासारसिक्तधरणितल: । धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम् ॥ ’अत्र राजनि प्रस्तुते उदग्दिग्गजोऽप्रस्तुतोऽपि व्यञ्जनमर्यादयाप्रतीयते । तत्राप्रस्तुताभिधानं मा प्रसाड्क्षिदिति प्रस्तुताप्रस्तुतयोरुपमानोप-मेयभावे तात्पर्यं कल्प्यते । इमं च शदशबक्तिमूलानुरणनरूपं ध्वनिमाहु: । उदाह्लतश्व ध्वनिकारै:-‘ उन्नत: प्रोल्लसद्धार: कालागुरुमलीमस: । पयोधरभरस्तस्या: कं न चक्तेऽभिलषिणम् ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP