संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|श्लेष अलंकारः| लक्षण २ श्लेष अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ श्लेष अलंकारः - लक्षण २ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण २ Translation - भाषांतर अत्राशी:प्रकरणे तुष्टिजननसमर्थत्वेन लक्ष्मी-भगवन्नाभिकमलयोरु-भयोरपि प्रकृतत्वात्प्रकृतमात्राश्रोतोऽयमेकया श्रुत्या पदद्वयप्रतिभानद्वारा भिन्नधर्मपुरस्कारेणानेकार्थप्रतिपादनात्सभड्र: । विशेष्ययोरश्र्लिष्टत्वेऽप्ययं संभवति । यथात्रैव ‘ पायादाद्यं कमलमथवा योगमायास्वरूपम् ’ इति तुरीयचरणनिर्माणे ।अयमेवाभड्रात्मको यथा-‘ करकलितचक्रघटनो नित्यं पीताम्बरस्तमोऽराति: । निजसेविजाडयनाशनचतुरो हरिरस्तु भूतये भवताम् ॥ ’विशेष्ययोरश्लिष्टत्वे यथा ‘ जाडयहरणो विष्णु: सूर्यश्च व: पातु ’ इति तस्यैव शेषे कृते ।अर्थश्लेषो यथा‘ अर्जुनस्य गुरुर्मायामनुज: पुमान् । गुञ्जापुञ्जधर: पायादपायादिह कोऽपि व: ॥ ’एवमेते त्रयोऽपि प्रकृतविषया एव भेदा: ।‘ हरिकरसड्रादधिकं रमणीयाप्यतुलरागसंवलिता । सुन्दरि तवाननाग्रे कमलाभा विगलितप्रतिभा ॥ ’अयमप्रकृतमात्रविषय: । प्रकृतस्याननस्य श्लेषाविषयत्वात् । कमला-भेति विशेष्यांशे, अधिकमिति विशेषणांशे च सभड्र: , अन्यत्राभड्र: । अप्रकृतयोर्विशेष्ययोरश्लिष्टत्वे यथात्रैव ‘ कमलाया: कमलस्य च शोभ गलिता तवाननस्याग्रे ’ इत्युत्तरार्धनिर्माणे । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP