श्लेष अलंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इत्यादिकव्यप्रकाशोक्तौ विविक्तो विषय इति वाच्यम्‍ । रूपकस्यैवात्र स्फुटत्वात्‍ । श्लेषोपस्थापितपातालाद्यर्थस्याभेदारोपमन्तरेण लोकत्रयात्मक-त्वस्य दुरुपपादत्वात्‍ । कथं तर्हि ‘ नदीनां संपदं बिभ्रद्राजायं सागरो यथा ’ इत्यादाबुपमाया: प्रत्यय ? । कथं वा तत्रैव यथाशब्दस्थाने किमुशब्द-दाने उत्प्रेक्षाया: ? । अपर इति कृते च रूपकस्येति चेत्‍ , न । अत्र हि
उपमादीनां प्रतिभानमात्रं न तु वास्तवी स्थिति: । नहि श्वैत्येन शुक्तौ रजतत्वं प्रतायमानमपि वस्तुतोऽस्ति । तस्मादुपमादिप्रतिभोत्पत्तिहेतु: श्लेष एव स्वविषये सर्वत्रालंकार: ” इति ।
एतच्चापरे न क्षमन्ते । तथा हि यत्तावदुच्यते येन नाप्राप्त इत्यादि ,
तत्र प्रागुदाह्लते ‘ पद्माख्यं तक्तिमपि ललितं ’ इत्यस्मत्पद्ये, सर्वदोमाधव: पातु यो गड्रां समदीधरत्‍ ’ इत्यादिपरकीयपद्ये च श्लेषातिरिक्त: कोऽलं-कार: ? । तुल्ययोगिता तु सादृश्यप्रत्ययनियता कथमत्र शक्यते वक्तुम्‍ ? नहि लक्ष्मीकमलयोर्हरिहरयोर्वा प्रकृते सादृश्यं प्रतिपिपादयिषितम्‍ । नापि चात्रैकश्रुत्यार्थद्वयोपादानं विनान्यक्तिंचिच्चमत्कारजनकं येनालंकारान्तर-मभ्युपगच्छेम । एकश्रुत्यार्थद्वयोपादानं तु श्लेष एव । एवं च सावकाश-
त्वाच्ळ्ळेषस्यालंकारान्तरापवादकत्वं न युक्तम्‍ । अत एवोपमादीनां प्रति-
भानमात्रमिति यदुक्तं तदपि न संगतम्‍ । गुणक्तियादेरिव शब्दमात्रस्यापि समानधर्मत्वेनोपमायां तावद्वाधकाभावात्‍ । एवमेवालंकारान्तरस्यापि श्लेषविषये पारमार्थिक्येव सत्ता न प्रातिभासिकी । प्रत्युत श्लेषस्यैव प्रतिभान-मात्रमिति वक्तुं युक्तम्‍ । पूर्णोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाक्रान्त-
त्वान्निरवकाशतयास्य सावकाशस्य स्वविषये बाधौचित्यात्‍ । तथा ‘ समरा-र्चितोऽप्यमरार्चित: ’ इत्यादौ श्लेषस्य तैमिरिकचन्द्रद्वयवत्प्रतिभानमात्रमेव, न त्वलंकारत्वम्‍ । तज्जीवातोर्द्वितीयार्थस्याप्रतिष्ठानात्‍ । विरोधस्य
त्वाभास-रूपस्याप्यलंकारत्वम्‍ , न तु विरोधप्रतिभयोत्पाद्य: श्लेष: । किं च प्रत्येकं तत्तद्रूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति श्लेषविषये नाप्राप्त-
त्वम्‍, अलंकारान्तरत्वपुरस्कारेणेति चेत्‍, एवं तर्हि बाध्यसामान्य-चिन्तया स्वविषये प्राप्तस्य सर्वस्यापि बाधापत्तौ श्लिष्टपरम्परितरूपकस्य श्लिष्टसमासोक्तेश्चोच्छेद एव स्यात्‍ । तस्माच्छ्‍लेषस्य नापवादकत्वम्‍, संकीर्णत्वं तु स्यात्‍ इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP