संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|प्रथमः स्कन्धः| अध्यायः १६ प्रथमः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ प्रथमः स्कन्धः - अध्यायः १६ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः १६ Translation - भाषांतर सूत उवाचततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास हयथा हिसूत्यामभिजातकोविदाः समादिशन्विप्र महद्गुणस्तथास उत्तरस्य तनयामुपयेम इरावतीम्जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान्आजहाराश्वमेधांस्त्रीन्गङ्गायां भूरिदक्षिणान्शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराःनिजग्राहौजसा वीरः कलिं दिग्विजये क्वचित्नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा शौनक उवाचकस्य हेतोर्निजग्राह कलिं दिग्विजये नृपःनृदेवचिह्नधृक्षूद्र कोऽसौ गां यः पदाहनत्तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम्अथवास्य पदाम्भोज मकरन्दलिहां सताम्किमन्यैरसदालापैरायुषो यदसद्व्ययःक्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम्इहोपहूतो भगवान्मृत्युः शामित्रकर्मणिन कश्चिन्म्रियते तावद्यावदास्त इहान्तकःएतदर्थं हि भगवानाहूतः परमर्षिभिःअहो नृलोके पीयेत हरिलीलामृतं वचःमन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वैनिद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिःसूत उवाचयदा परीक्षित्कुरुजाङ्गलेऽवसत्कलिं प्रविष्टं निजचक्रवर्तितेनिशम्य वार्तामनतिप्रियां ततः शरासनं संयुगशौण्डिराददेस्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात्वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतःभद्राश्वं केतुमालं च भारतं चोत्तरान्कुरून्किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम्नगरांश्च वनांश्चैव नदीश्च विमलोदकाःपुरुषान्देवकल्पांश्च नारीश्च प्रियदर्शनाःअदृष्टपूर्वान्सुभगान्स ददर्श धनञ्जयःसदनानि च शुभ्राणि नारीश्चाप्सरसां निभाःतत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम्प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम्आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसःस्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवेतेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनःमहाधनानि वासांसि ददौ हारान्महामनाःसारथ्यपारषदसेवनसख्यदौत्यवीरासनानुगमनस्तवनप्रणामान्स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर्भक्तिं करोति नृपतिश्चरणारविन्देतस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम्नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मेधर्मः पदैकेन चरन्विच्छायामुपलभ्य गाम्पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् धर्म उवाचकच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायासि म्लायतेषन्मुखेनआलक्षये भवतीमन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्बपादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम्आहो सुरादीन्हृतयज्ञभागान्प्रजा उत स्विन्मघवत्यवर्षतिअरक्ष्यमाणाः स्त्रिय उर्वि बालान्शोचस्यथो पुरुषादैरिवार्तान्वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान्किं क्षत्रबन्धून्कलिनोपसृष्टान्राष्ट्राणि वा तैरवरोपितानिइतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम्यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रिअन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानिइदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासिकालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम् धरण्युवाचभवान्हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसिचतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैःसत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम्शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम्ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिःस्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव चप्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगःगाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिःएते चान्ये च भगवन्नित्या यत्र महागुणाःप्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित्तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम्शोचामि रहितं लोकं पाप्मना कलिनेक्षितम्आत्मानं चानुशोचामि भवन्तं चामरोत्तमम्देवान्पितॄनृषीन्साधून्सर्वान्वर्णांस्तथाश्रमान्ब्रह्मादयो बहुतिथं यदपाङ्गमोक्षकामास्तपः समचरन्भगवत्प्रपन्नाःसा श्रीः स्ववासमरविन्दवनं विहाययत्पादसौभगमलं भजतेऽनुरक्तातस्याहमब्जकुलिशाङ्कुशकेतुकेतैःश्रीमत्पदैर्भगवतः समलङ्कृताङ्गीत्रीनत्यरोच उपलभ्य ततो विभूतिंलोकान्स मां व्यसृजदुत्स्मयतीं तदन्तेयो वै ममातिभरमासुरवंशराज्ञाम्अक्षौहिणीशतमपानुददात्मतन्त्रःत्वां दुःस्थमूनपदमात्मनि पौरुषेणसम्पादयन्यदुषु रम्यमबिभ्रदङ्गम्का वा सहेत विरहं पुरुषोत्तमस्यप्रेमावलोकरुचिरस्मितवल्गुजल्पैःस्थैर्यं समानमहरन्मधुमानिनीनांरोमोत्सवो मम यदङ्घ्रिविटङ्कितायाःतयोरेवं कथयतोः पृथिवीधर्मयोस्तदापरीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP