संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीमद् भागवत पुराण|प्रथमः स्कन्धः| अध्यायः ५ प्रथमः स्कन्धः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ प्रथमः स्कन्धः - अध्यायः ५ भागवत पुराणात पुढे येणार्या कलियुगात काय घडणार आहे, याबद्दलचे सविस्तर वर्णन केले आहे. Tags : bhagavatpuranपुराणभागवतसंस्कृत अध्यायः ५ Translation - भाषांतर सूत उवाचअथ तं सुखमासीन उपासीनं बृहच्छ्रवाःदेवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्निवनारद उवाचपाराशर्य महाभाग भवतः कच्चिदात्मनापरितुष्यति शारीर आत्मा मानस एव वाजिज्ञासितं सुसम्पन्नमपि ते महदद्भुतम्कृतवान्भारतं यस्त्वं सर्वार्थपरिबृंहितम्जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम्तथापि शोचस्यात्मानमकृतार्थ इव प्रभोव्यास उवाचअस्त्येव मे सर्वमिदं त्वयोक्तं तथापि नात्मा परितुष्यते मेतन्मूलमव्यक्तमगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम्स वै भवान्वेद समस्तगुह्यमुपासितो यत्पुरुषः पुराणःपरावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गःत्वं पर्यटन्नर्क इव त्रिलोकीमन्तश्चरो वायुरिवात्मसाक्षीपरावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनमलं विचक्ष्व श्रीनारद उवाचभवतानुदितप्रायं यशो भगवतोऽमलम्येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम्यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताःन तथा वासुदेवस्य महिमा ह्यनुवर्णितःन यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित्तद्वायसं तीर्थमुशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाःतद्वाग्विसर्गो जनताघविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपिनामान्यनन्तस्य यशोऽङ्कितानि यत्शृण्वन्ति गायन्ति गृणन्ति साधवःनैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरञ्जनम्कुतः पुनः शश्वदभद्रमीश्वरे न चार्पितं कर्म यदप्यकारणम्अथो महाभाग भवानमोघदृक्षुचिश्रवाः सत्यरतो धृतव्रतःउरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम्ततोऽन्यथा किञ्चन यद्विवक्षतः पृथग्दृशस्तत्कृतरूपनामभिःन कर्हिचित्क्वापि च दुःस्थिता मतिर्लभेत वाताहतनौरिवास्पदम्जुगुप्सितं धर्मकृतेऽनुशासतः स्वभावरक्तस्य महान्व्यतिक्रमःयद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनःविचक्षणोऽस्यार्हति वेदितुं विभोरनन्तपारस्य निवृत्तितः सुखम्प्रवर्तमानस्य गुणैरनात्मनस्ततो भवान्दर्शय चेष्टितं विभोःत्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्भजन्नपक्वोऽथ पतेत्ततो यदियत्र क्व वाभद्रमभूदमुष्य किं को वार्थ आप्तोऽभजतां स्वधर्मतःतस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमतामुपर्यधःतल्लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसान वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्ग संसृतिम्स्मरन्मुकुन्दाङ्घ्र्युपगूहनं पुनर्विहातुमिच्छेन्न रसग्रहो जनःइदं हि विश्वं भगवानिवेतरो यतो जगत्स्थाननिरोधसम्भवाःतद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम्त्वमात्मनात्मानमवेह्यमोघदृक्परस्य पुंसः परमात्मनः कलाम्अजं प्रजातं जगतः शिवाय तन्महानुभावाभ्युदयोऽधिगण्यताम्इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोःअविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम्अहं पुरातीतभवेऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम्निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम्ते मय्यपेताखिलचापलेऽर्भके दान्तेऽधृतक्रीडनकेऽनुवर्तिनिचक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयोऽल्पभाषिणिउच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषःएवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायतेतत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराःताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिःतस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्ममययाहमेतत्सदसत्स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परेइत्थं शरत्प्रावृषिकावृतू हरेर्विशृण्वतो मेऽनुसवं यशोऽमलम्सङ्कीर्त्यमानं मुनिभिर्महात्मभिर्भक्तिः प्रवृत्तात्मरजस्तमोपहातस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसःश्रद्दधानस्य बालस्य दान्तस्यानुचरस्य चज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम्अन्ववोचन्गमिष्यन्तः कृपया दीनवत्सलाःयेनैवाहं भगवतो वासुदेवस्य वेधसःमायानुभावमविदं येन गच्छन्ति तत्पदम्एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम्यदीश्वरे भगवति कर्म ब्रह्मणि भावितम्आमयो यश्च भूतानां जायते येन सुव्रततदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम्एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवःत एवात्मविनाशाय कल्पन्ते कल्पिताः परेयदत्र क्रियते कर्म भगवत्परितोषणम्ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम्कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत्गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति चओं नमो भगवते तुभ्यं वासुदेवाय धीमहिप्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय चइति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम्यजते यज्ञपुरुषं स सम्यग्दर्शनः पुमान्इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम्अदान्मे ज्ञानमैश्वर्यं स्वस्मिन्भावं च केशवःत्वमप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम्प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणमुशन्ति नान्यथा N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP