संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|प्रबोधसुधाकरः| ध्यानविधिप्रकरणम् प्रबोधसुधाकरः देहनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनोनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनिनिग्रहप्रकरणम् वैराग्यप्रकरणम् आत्मसिद्धिप्रकरणम् मायासिद्धिप्रकरणम् लिङ्गदेहादिनिरूपणप्रकरणम् अद्वैतप्रकरणम् कर्तृत्वभोक्तृत्वप्रकरणम् स्वप्रकाशताप्रकरणम् नादानुसन्धानप्रकरणम् मनोलयप्रकरणम् प्रबोधप्रकरणम् द्विधाभक्तिप्रकरणम् ध्यानविधिप्रकरणम् सगुणनिर्गुणयोरैक्यप्रकरणम् आनुग्रहिकप्रकरणम् प्रबोधसुधाकरः - ध्यानविधिप्रकरणम् श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः Tags : bookपुस्तकप्रबोधसुधाकरःसंस्कृत ध्यानविधिप्रकरणम् Translation - भाषांतर यमुनातटनिकटस्थितवृन्दावनकानने महारम्ये । कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य ॥१८४॥ तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्वम् । पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङ्गम् ॥१८५॥ आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् । मन्दस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ॥१८५॥ वलयाङ्गुलीयकाद्यानुज्ज्वलयन्तं स्वलङ्कारान् । गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥१८७॥ गुञ्जारवालिकलितं गुञ्जापुञ्जान्विते शिरसि । भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत ॥१८८॥ मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् । मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् ॥१८९॥ सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः । सुरभीतिक्षपणमहासुरभीमं यादवं नमत ॥१९०॥ कंदर्पकोटिसुभगं वाञ्छितफलदं दयार्णवं कृष्णम् । त्यक्त्वा कमन्यविषयं नेत्रयुगं द्रष्टुमुत्सहते ॥१९१॥ पुण्यतमामतिसुरसां मनोऽभिरामां हरेः कथां त्यक्त्वा । श्रोतुं श्रवणद्वन्द्वं ग्राम्यं कथमादरं भवति ॥१९२॥ दौर्भाग्यमिन्द्रियाणां कृष्णे विषये हि शाश्वतिके । क्षणिकेषु पापकरणेष्वपि सज्जन्ते यदन्यविषयेषु ॥१९३॥ Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP