प्रबोधसुधाकरः - स्वप्रकाशताप्रकरणम्

श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः

रविचन्द्रवह्निदीपप्रमुखाः स्वपरप्रकाशाः स्युः । यद्यपि तथाप्यमीभिः प्रकाश्यते क्वापि नैवात्मा ॥१३९॥ चक्षुर्द्वारैव स्यात्परात्मना भानमेतेषाम् । यद्वा तेऽपि पदार्था न ज्ञायन्तेऽथ केवलालोकात् ॥१४०॥ तत्राप्यक्षिद्वारा सहायभूतो न चेदात्मा । नो चेत्सत्यालोके पश्यत्यन्धः कथं नार्थान् ॥१४१॥ सत्यात्मन्यपि किं नो ज्ञानं तच्चेन्द्रियान्तरेण स्यात् । अन्धे दृक्प्रतिबन्धे करसंबन्धे पदार्थभानं हि ॥१४२॥ जानाति येन सर्वं केन च तं वा विजानीयात् । इत्युपनिषदामुक्तिर्बध्यत आत्मात्मना तस्मात् ॥१४३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP