संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|प्रबोधसुधाकरः| विषयनिन्दाप्रकरणम् प्रबोधसुधाकरः देहनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनोनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनिनिग्रहप्रकरणम् वैराग्यप्रकरणम् आत्मसिद्धिप्रकरणम् मायासिद्धिप्रकरणम् लिङ्गदेहादिनिरूपणप्रकरणम् अद्वैतप्रकरणम् कर्तृत्वभोक्तृत्वप्रकरणम् स्वप्रकाशताप्रकरणम् नादानुसन्धानप्रकरणम् मनोलयप्रकरणम् प्रबोधप्रकरणम् द्विधाभक्तिप्रकरणम् ध्यानविधिप्रकरणम् सगुणनिर्गुणयोरैक्यप्रकरणम् आनुग्रहिकप्रकरणम् प्रबोधसुधाकरः - विषयनिन्दाप्रकरणम् श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः Tags : bookपुस्तकप्रबोधसुधाकरःसंस्कृत विषयनिग्रहप्रकरणम् Translation - भाषांतर संसृतिपारावारे ह्यगाधविषयोदकेन संपूर्णे । नृशरीरमम्बुतरणं कर्मसमीरैरतस्ततश्चलति ॥५५॥ छिद्रैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः । छिद्राणामनिरोधाज्जलपरिपूर्ण पतत्यधः सततम् ॥५६॥ छिद्राणां तु निरोधात्सुखेन पारं परं याति । तस्मादिन्द्रियनिग्रहमृते न कश्चित्तरत्यनृतम् ॥५७॥ पश्यति परस्य युवति सकाममपि तन्मनोरथं कुरुते । ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति ॥५८॥ पिशुनैः प्रकाममुदितां परस्य निन्दां श्रुणोति कर्णाभ्याम् । तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥५९॥ अनृतं परापवादं रसना वदति प्रतिक्षणं तेन । परहानिर्लब्धिः का व्यर्थं मनुजोऽतिपापभाग्भवति ॥६०॥ विषयेन्द्रिययोर्योगे निमेपसमयेन यत्सुखं भवति । विषये नष्टे दुःखं यावज्जिवं च तत्तयोर्मध्ये ॥६१॥ हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात् । अल्पसुखस्य त्यागादनल्पदुःखं जहाति सुधीः ॥६२॥ धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते । तद्वद्विषयान्भुञ्जन्कलाकृष्टो नरः पतति ॥६३॥ उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः । एवं गतायुरपि सन्विषयान्समुपार्यत्यन्धः ॥६४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP