संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|प्रबोधसुधाकरः| लिङ्गदेहादिनिरूपणप्रकरणम् प्रबोधसुधाकरः देहनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनोनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनिनिग्रहप्रकरणम् वैराग्यप्रकरणम् आत्मसिद्धिप्रकरणम् मायासिद्धिप्रकरणम् लिङ्गदेहादिनिरूपणप्रकरणम् अद्वैतप्रकरणम् कर्तृत्वभोक्तृत्वप्रकरणम् स्वप्रकाशताप्रकरणम् नादानुसन्धानप्रकरणम् मनोलयप्रकरणम् प्रबोधप्रकरणम् द्विधाभक्तिप्रकरणम् ध्यानविधिप्रकरणम् सगुणनिर्गुणयोरैक्यप्रकरणम् आनुग्रहिकप्रकरणम् प्रबोधसुधाकरः - लिङ्गदेहादिनिरूपणप्रकरणम् श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः Tags : bookपुस्तकप्रबोधसुधाकरःसंस्कृत लिङ्गदेहादिनिरूपणप्रकरणम् Translation - भाषांतर स्थूलशरीरस्यान्तर्लिङ्गशरीरं च तस्यान्तः । कारणमस्याप्यन्तस्ततो महाकारणं तुर्यम् ॥११०॥ स्थूलं निरूपितं प्रागधुना सूक्ष्मादितो ब्रूमः । अङ्गुष्ठमात्रः पुरुषः श्रुतिरिति यत्प्राह तत्सूक्ष्मम् ॥१११॥ सूक्ष्माणि महाभूतान्यसवः पञ्चेन्द्रियाणि पञ्चैव । षोडषमन्तःकरणं तत्संघातो हि लिङ्गतनुः ॥११२॥ तत्कारणं स्मृतं यत्तस्यान्तर्वासनाजालम् । तस्य प्रवृत्तिहेतुर्बुद्ध्याश्रयमत्र तुर्यं स्यात् ॥११३॥ तत्सारभूतबुद्धो यत्प्रतिफलितं तु शुद्धचैतन्यम् । जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि ॥११४॥ चरतरतरङ्गसङ्गात्प्रतिबिम्बं भास्करस्य च चलं स्यात् । अस्ति तथा चञ्चलता चैतन्ये चित्तचाञ्चल्यात् ॥११५॥ नन्वर्कप्रतिबिम्बः सलिलादिषुयः स चावभासयति । किमितरपदार्थनिवहं प्रतिबिम्बोऽप्यात्मनस्तद्वत् ॥११६॥ प्रतिफलितं यत्तेजः सवितुः कांस्यादिपात्रेषु । तदनु प्रविष्टमन्तर्गृहमन्यार्थान्प्रकाशयति ॥११७॥ चित्प्रतिबिम्बस्तद्वद्बुद्धिषु यो जीवतां प्राप्तः । नेत्रादीन्द्रियमार्गैर्बहिरर्थान्सोऽवभासयति ॥११८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP