संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|प्रबोधसुधाकरः| वैराग्यप्रकरणम् प्रबोधसुधाकरः देहनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनोनिन्दाप्रकरणम् विषयनिन्दाप्रकरणम् मनिनिग्रहप्रकरणम् वैराग्यप्रकरणम् आत्मसिद्धिप्रकरणम् मायासिद्धिप्रकरणम् लिङ्गदेहादिनिरूपणप्रकरणम् अद्वैतप्रकरणम् कर्तृत्वभोक्तृत्वप्रकरणम् स्वप्रकाशताप्रकरणम् नादानुसन्धानप्रकरणम् मनोलयप्रकरणम् प्रबोधप्रकरणम् द्विधाभक्तिप्रकरणम् ध्यानविधिप्रकरणम् सगुणनिर्गुणयोरैक्यप्रकरणम् आनुग्रहिकप्रकरणम् प्रबोधसुधाकरः - वैराग्यप्रकरणम् श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः Tags : bookपुस्तकप्रबोधसुधाकरःसंस्कृत वैराग्यप्रकरणम् Translation - भाषांतर परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा । कथितौ हर्षविषादौ किं वा स्यातां क्षणं स्थातुः ॥७८॥ दैवात्स्थितं गतं वा यं कंचिद्विषयमीड्यमल्पं वा । नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् ॥७९॥ ममताभिमानशून्यो विषयेषु पराङ्मुखः पुरुषः । तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि ॥८०॥ कुत्राप्यरण्यदेशे सुनीलतृणवालिकोपचिते । शीतलतरुतलभूमौ सुखं शयानस्य पुरुषस्य ॥८१॥ तरवः पत्रफलाढ्याः सुगन्धशीतानिलाः परितः । कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः ॥८२॥ वैराग्यभाग्यभाजः प्रसन्नमनसो निराशस्य । अप्रार्थितफलभोक्तुः पुंसो जन्मनि कृतार्थतेह स्यात् ॥८३॥ द्रव्यं पल्लवतश्च्युतं यदि भवेत्क्वापि प्रमादात्तदा शोकायाथ तदर्पितं श्रुतवते तोषाय च श्रेयसे । स्वातन्त्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्चिरं संत्यक्ताः स्वयमेव चेत्सुखमयं निःश्रेयसं तन्वते ॥८४॥ विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिरं पर्यट- न्संतापत्रयदीर्घदावदहनज्वालावलीव्याकुलः । वल्गन्फल्गुषु सुप्रदीप्तनयनश्चेतःकुरङ्गो बला- दाशापाशवशीकृतोऽपि विषयव्याघ्रैर्मृषा हन्यते ॥८५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP