संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|गृहवास्तुप्रकरणम्| गृहप्रवेशनम् गृहवास्तुप्रकरणम् तत्रादौ गृहारंभे शिलान्यासविधिः गृहस्य स्तंभोच्छ्रायः गृहस्य ऊर्ध्वपृष्ठाख्यादारुस्थापनम् गृहप्रवेशनम् वास्तुशांतिप्रयोगः वृषवास्तुस्थापनम् कूपोत्सर्गप्रयोगः उदुंबरादिवृक्षोद्यापनम् गृहवास्तुप्रकरणम् - गृहप्रवेशनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत गृहप्रवेशनम् Translation - भाषांतर वास्तुशांतेः प्राक्पश्चाद्वा ज्योतिर्विदुक्ते शुभे मुहूर्ते गृहप्रवेशं कुर्यात् । स चेत्थं नवजलपूर्णं शुभपल्लवोपेतं दूर्वायुतं गंधादिलिप्तं वस्त्रवेष्टितं सफलं कलशं अंजलिना गृहीत्वा यजमानः सपत्नीको ब्राह्मणान्वितः सपुत्रः सामात्यस्तूर्यमंगलवाद्यघोषेण तदेव लग्नमिति पठन् गृहं प्रविश्य गृहमध्ये धान्योपरि तं कलशं स्थापयेत् । ततो गृहस्थैर्यार्थं पुण्याहं वाचयेत् । तत्र ‘ मह्यं सकुटुंबिने ’ इत्यादि वाक्यांते ‘ ममास्य कृतनवगृहप्रवेशाख्यस्य कर्मणः पुण्याहं भवंतो ब्रुवंतु ’ इत्यादि सर्ववाक्योहः कार्यः ततो ब्राह्मणान्संपूज्य दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा ‘ शिवोवास्तुः शिवो वास्तुः शिवो वास्तुरिति भवंतो ब्रुवंतु ’ इति विप्रान् वाचयित्वा सुह्रद्भिः सह भुंजीत ॥ ॥ इति गृहप्रवेशप्रयोगः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP