गृहवास्तुप्रकरणम् - गृहस्य स्तंभोच्छ्रायः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


स ऊर्ध्वमुखे गृहारंभनक्षत्रे शुभग्रहान्विते स्थिरलग्ने शुभाहे कुर्यादिति तज्ज्ञा ज्योतिर्विदाः । तत्र विधिः - यजमानः आचम्य देशकालतिथ्यादि संकीर्त्य मम सकुटुंबस्य सपरिवारस्य द्विपदचतुष्पदसहितस्य सर्वापच्छांतिपूर्वकक्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थं अस्य क्रियमाणस्य गृहस्य तिर्यगूर्ध्वादिदार्वादीनां चिरस्थैर्यादिसिद्ध्यर्थं तदाधारभूतं स्तंभोच्छ्रायं ( तत्स्थापनं वा ) करिष्ये तदादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं च करिष्ये इति संकल्प्य - गृहोर्ध्वतिर्यग्दारुणां त्वं पराऽऽधारदा ह्यसि । चिरस्थैर्यैश्वर्यदात्री तस्मात्त्वां स्थापयाम्यहम् ॥ या गृहस्याधारभूता तदधिष्ठानदेवता । सकुटुंबस्य मम साऽऽयुःप्रदा सुखदा भव ॥ ‘ तदेव लग्नं ’ इत्युच्छ्रायस्तंभं संस्थाप्य देशकुलाचारमनुसृत्य तदुपरि सच्छत्रं यथोद्गतं नारिकेलफलद्वयमखंडितं निबध्य ‘ दार्वधिष्ठात्र्यै देवतायै नमः ’ इति नाममंत्रेण संपूज्य संप्रार्थ्य ‘ सुप्रतिष्ठितमस्तु ’ इति वदेत् । ततो ब्राह्मणादीन् दक्षिणागुडशर्कराप्रदानेन संतर्पयेत् ॥ ॥ इति गृहोच्छ्रायस्तंभस्थापनम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP