संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|गृहवास्तुप्रकरणम्| गृहस्य ऊर्ध्वपृष्ठाख्यादारुस्थापनम् गृहवास्तुप्रकरणम् तत्रादौ गृहारंभे शिलान्यासविधिः गृहस्य स्तंभोच्छ्रायः गृहस्य ऊर्ध्वपृष्ठाख्यादारुस्थापनम् गृहप्रवेशनम् वास्तुशांतिप्रयोगः वृषवास्तुस्थापनम् कूपोत्सर्गप्रयोगः उदुंबरादिवृक्षोद्यापनम् गृहवास्तुप्रकरणम् - गृहस्य ऊर्ध्वपृष्ठाख्यादारुस्थापनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत गृहस्य ऊर्ध्वपृष्ठाख्यादारुस्थापनम् Translation - भाषांतर तदत्र तिर्यड्मुखनक्षत्रे ऊर्ध्वमुखनक्षत्रे वा शुभग्रहयुते स्थिरलग्ने कुंभमीनगविधुवर्जिते शुभे दिने कार्यम् । तत्र संकल्पः - आचम्य तिथ्यादि संकीर्त्य मम सकुटुंबस्य सपरिवारस्य द्विपदचतुष्पदसहितस्य सर्वापच्छांतिपूर्वकक्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थं अस्य क्रियमाणगृहस्य सवार्ध्वाच्छादनीभूतदार्वादीनां चिरस्थैर्यादिसिद्ध्यर्थं पृष्ठसंज्ञकतिर्यग्दारुस्थापनं करिष्ये तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणेशपूजनं दारुपूजनं च करिष्ये इति संकल्प्य गणेशं संपूज्य स्थाप्य दारु पूजयेत् । गृहाच्छादनदारुणां त्वं निदानं परं ह्यसि । तस्मात्त्वां स्थापयाम्यस्मत्कल्याणं कुरु सर्वदा ॥ एवं संस्थाप्य दार्वधिष्ठात्र्यै देवतायै नमः ध्यायामि इति संपूज्य पूर्वोक्तमंत्रेण संप्रार्थ्य इष्टदेवतां स्मृत्वा तदेव लग्नमिति तत्प्रतिष्ठाप्य सुप्रतिष्ठितमस्त्विति वदेत् ॥ ॥ इति कृत्यदिवाकरे मध्यमांशौ गृहोर्ध्वपृष्ठाख्यदारुस्थापनविधिः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP