संस्कृत सूची|पूजा विधीः|प्रातिवर्षिकपूजाकथासङ्ग्रह:|विशेषव्रतपूजादानादिविधि:| अधिमासनिमित्तदानविधि: विशेषव्रतपूजादानादिविधि: सुवर्णादिदानविधि: कुम्भदानविधि: अधिमासनिमित्तदानविधि: षोडशफलदानविधि: ग्रहणे शुभाशुभफलविचार: श्रीसत्यनारायणपूजाविधि: सत्यनारायणव्रतकथाः बुधाष्टमीव्रताङ्गपूजाविधि: बुधाष्टमीव्रतकथाः हस्तगौरीव्रताङ्गपूजाविधि: प्रदक्षिणानुष्ठानविधि: विशेषव्रतपूजाः - अधिमासनिमित्तदानविधि: सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची. Tags : poojavratपूजाव्रतसंस्कृत अधिमासनिमित्तदानविधि: Translation - भाषांतर ॥ अधिमासनिमित्तदानविधि: ॥आचम्य देशकालौ स्मृत्वा, मम अष्टवस्वेकादशरुद्रद्वादशादित्यप्रजापतिवषट्कारात्मकश्रीपरमेश्वरप्रीतिद्वारा सकलमलविशुद्धिसर्वपापक्षयपूर्वकलक्ष्मीसम्पत्तिपुत्रपौत्राद्यभिवृद्धिपृथ्वीदानफलसमफलस्वर्गलोकनिवासप्राप्त्यर्थं मलमासविहितापूपान्नदानं करिष्ये । तदङ्गत्वेन ब्राह्मणपूजनं च करिष्ये । पुरुषोत्तमस्वरूपिणे ब्राह्मणाय इदमासनमित्यादिपूजां कृत्वा, तदग्रे यथाशक्ति सोपस्करापूपान्नं निधाय । स्वस्त्यस्तु, दीर्घ० । दानमन्त्रा:- चन्द्रांशुनिर्मलापूपा: शालितण्डुलनिर्मिता: । आहार: सर्वदेवानां ते मे कुर्वन्तु मङ्गलम् ॥१॥विष्णुरूपी सहस्रांशु: सर्वपापप्रणाशन: । अपूपान्नप्रदानेन मम पापं व्यपोहतु ॥२॥यस्य हस्ते गदाचक्रं गरुडो यस्य वाहनम् । शङ्ख: करतंले यस्य स मे विष्णु: प्रसीदतु ॥३॥कलाकाष्ठादिरूपेणं निमेषधटिकादिना । यो वञ्चयति भूतानि तस्मै कालात्मने नम: ॥४॥कुरुक्षेत्रमयं देश: काल: पर्वद्विजो हरि: । पृथ्वीसममिदं दानं गृहाण पुरुषोत्तम ॥५॥मलानां च विशुध्यर्थं पापप्रशमनाय च । पुत्रपौत्राभिवृध्यर्थं तव दास्यामि भास्कर ॥६॥इमान् त्रयस्त्रिंशत्सङ्ख्याकान् घृतपात्रादिसहितान कांस्यपात्रनिहितान् अपूपान् अमुकश० पुरुषोत्तमस्वरूपिणे ब्राह्मणाय तुभ्यमहं सम्पददे । प्रति० । दानसाङ्ग० । प्रतिग्रहीता कामस्तुतिं पठेत्-कइदंक० । कर्तानारायण जगद्वीज भास्करप्रतिरूपक । दानेनानेन पुत्रांश्च सम्पदं चापि वर्धंय ॥ इति सम्प्रार्थ्य । यस्य स्मृ० । अनेन मलमासविहितअपूपान्नदानाख्येन कर्मणा तेन श्रीपुरुषोत्तमदेवता प्रीयताम् ॥ एवं मासपर्यन्तं प्रतिदिनं कुर्यात् । अशक्तौ तु एकस्मिन्नेव दिने कुर्यात् । अधिमासे पौर्णमास्यां द्वादश्यां वापि शक्तित: । व्यतीपातदिने वापि दद्यादन्नं हि भक्तित: ॥ इति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP