विशेषव्रतपूजाः - प्रदक्षिणानुष्ठानविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ विष्णुप्रतिमादितुलसीवृक्षादिगवादिनाम् अयं सङ्कल्प: ॥

आचम्य देशका० मम इह जन्मनि जन्मान्तरे च अखण्डितसौभाग्यपुत्रपौत्रआयुरोग्यऐश्वर्याद्यभिवृध्यर्थं मनोरथसङ्कल्पपरिपूरणार्थं अमुकदेवता प्रीत्यर्थं लक्षसङ्ख्या सहस्रसङ्ख्यया वा प्रदक्षिणाऽनुष्ठानमहं करिष्ये । तदङ्गनिर्विघ्नतासिध्यर्थं महागणपतिपूजनं तत्साक्षिभूतं ब्राह्मणवर्णनं करिष्ये । गणेशपूजां कृत्वा वक्रतुण्डेति प्रार्थयेत् । अनया पूजया विघ्नहर्ता महागणपति: प्रीयताम् । यजमान: अमुकशर्माहं विप्र: पठेत अमुकप्रवरान्वित अमुकगोत्रोत्पन्नं अमुकशर्माणं ब्राह्मणं अद्यप्रभृति अमुक अनुष्ठानपर्यन्तं प्रतिदिनं सदस्यं त्वां वृणे, वृतोऽस्मि इति विप्र: गन्धा: पातु इत्यादिना ब्राह्मणं सम्पूज्य, गणपतिं विसृज्य यान्तुदे० ॥

प्रतिदिने अयं सङ्गल्प: आचम्य देशक० पूर्वसङ्कल्पितसङ्ख्यापरिपूरणार्थं अद्य अमुक सडख्याप्रद क्षिणाऽनुष्ठानमहं क० । गणपतिस्मरणादिनित्यपूजाविधिं कृत्वा नमस्कुर्यात् । यथावधिसङख्यासङकल्पिततत्तद्देवताविष्णुप्रतिमादितुलसीवृक्षादिगवादीनां च प्रदक्षिणां कृत्वा, तत: देवं पञ्चोपचारै: सम्पूज्य, प्रार्थयेत्-यानि कानि च पापानि जन्मां० । अन्यथा० । मन्त्रहीनं० । आवाहनं न० । अनेन अमुक सङ्ख्याप्रदक्षिणानुष्ठानाख्येन कमेणा श्री अमुक देवता प्रीयताम् । लक्षसङ्ख्याप्रदक्षिणासमाप्तिस्तु महापूजां कृत्वा, अनेन सदस्यसाक्षित्वेने मया कृतेन अमुकदेवता लक्षसङख्याप्रदक्षिणानुष्ठानाख्येन कर्मणा अमुक देवता प्रीयताम् । कृतस्य कर्मण: साङ्गतासिध्यर्थं तत्सम्पूर्णफलप्रार्प्त्थं सदस्याय ब्राह्मणाय दक्षिणाप्रदानं क० । नमोऽस्त्व० । इदं यथाशक्ति सुवर्णनिष्क्रयद्रव्यं सदस्याय ब्राह्मणाय तुभ्यमहं सम्प्रददे । प्रति० । अनेन दक्षिणाप्रदानाख्येन कर्मणा तेन श्री अमुक देवता प्रीयताम् । अन्तरितसङकल्प:-अद्य० अन्तरितसङ्ख्यापरिपूरणार्थं अमुकदेवताप्रीत्यर्थं अद्य अमुक सङ्ख्याप्रदक्षिणां क० । शेषं पूर्ववत् ॥

॥ तुलसीबिल्वदूर्वाअनेकजातीयपुष्यसमर्पने अयं सङकल्प: ॥

आचम्य देशक० मम इ० सकलमनेप्सिकामनासिध्यर्थं श्रीसिद्धिवुद्धिसहितश्रीमहागणपतिप्रीत्यर्थं चातुर्मास्यनिमित्तं लक्षसङ्ख्या दूर्वाङ्कुरार्पणं करिष्ये । द्रव्यान्तरे तु दूर्वास्थाने तत्तदद्रव्योल्लेख: कर्तव्य: । आसनविध्यादिकलशपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, देवं सम्पूज्य, दूर्वाङ्कुरानर्पयेत् सहस्रनाम्नै: नाममन्त्रैर्वा । अर्पणान्ते पञ्चोपचारै: देवं सम्पूज्य, प्रार्थयेत्अन्यथा श० । यस्य स्मृ० । अनेन अमुक सङख्यादूर्वाङ्कुरार्पणाख्येन कर्मणा श्रीमहागणपति: प्रीयताम् । सहस्रनामवाचकाय ब्राह्मणाय दक्षिणात्वेन तुभ्यमहं सम्प्रददे । प्रति०, प्र० । कृतस्य०साङ्गता तु बाह्मण भोजनं कुर्यात् । प्रतिदिने अयं सङकल्प: । पूर्वसकङल्पितसङ्खयापरिपूरणार्थं अद्य अमुक सङ्खयादूर्वाङ्कुरार्पणं करिष्ये । देवं पञ्चोपचारै: पूजां कुर्यात् । आद्यन्त: । शेषं पूर्ववत् ॥

॥ वर्तिकामप्रज्वालनसङ्कल्प: ॥

आचम्य देशकालौ सङ्कीर्त्य, मम इह० च पुत्रपौत्राद्यनवच्छिन्नसन्तत्यभिवृध्यर्थं अमुक देवताप्रीत्यर्थं अमुकसङ्खयाऽमुक वर्तिकाप्रज्वालनं करिष्ये । गणपतिपूजनादिदेवं सम्पूज्य वर्तिका प्रज्वालयेत् । तत्र मन्त्र:-कीटा: पतङ्गा मशकाश्च वृक्षा जले स्थले ये विचरन्ति जीवा: ॥ द्दष्ट्वा प्रदीपं न च जन्मभागिनो भवन्ति नित्यं श्वपचा हि विप्रा: ॥ यस्य स्मृ० । अनेन अमुक वर्त्तिकाप्रज्वालनाख्येन क० अमुक देवता प्रीयताम् । गणपतिं विसृजेत् । समाप्तिस्तु सुवर्णनिर्मितवर्तिकासह रौप्यमयदीपेन ब्राह्मणाय  दद्यात् । साङ्गता तु कृतस्य० यथाशक्ति ब्राह्मणान् दम्पतीन् सुवासिनीश्च भोजयिष्ये । यस्य स्मृ० । अनेन अमुकसङ्ख्याऽमुकवर्त्तिका प्रज्वलनाख्येन कर्मणा अमुकदेवता प्रीयताम् ॥

॥ सोमवतीपूजाविधि: ॥

सोमवती अमावास्या श्राद्धेऽपराह्णव्यापिनी ग्राह्या । पूजायां तु पूर्वाह्णव्यापिन्यपि । अथ पूजाविधि: आचम्य । अश्वत्थमूलमासिञ्चेत्तोयेन बहुना सदा । कुलानामयुतं तेन तारितं स्यान्न संशय: ॥ इति मन्त्रेण अश्वत्थमूलं सिञ्चेत् । सूत्रेण वेष्टयेद्भक्तया गन्धपुष्पाक्षतै: सह । अशेषं हर मे पापं वृक्षराज नमोऽस्तु ते ॥ इति मन्त्रेण त्रिसूत्रेण त्रिवारं संवेष्टयेत् ॥ आचम्य देशकालौ सङ्कीर्त्य, मम इह जन्मान्तरे च सकलपापक्षयार्थं पुत्रपौत्राद्यभिवृद्धिजन्मजन्मनि अवैधव्यसन्ततिचिरजीवितपरमसौभाग्यप्राप्त्यर्थं स्वीकृत्यसोमवत्यमावास्याव्रताङ्गभूतं अश्वत्थमूलं यथामिलितषोडशोपचारद्रव्यै: पुराणोक्तमन्त्रै: श्रीलक्ष्मीनारायणपूजनमहं करिष्ये । तदङ्गगणपतिपूजनं कलशघण्टापूजनं च करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, ध्यायेत्-शान्ताकारं भु० । पीताम्बरधरं देवं शङ्खचक्रगदाधरम् । किरीटिनं चतुर्बाहुं वनमालाविभूषितम् ॥ श्रीलक्ष्मीनारायणाभ्यां नम: लक्ष्मीनारायणौ ध्यायामि ॥ विश्वव्यापक विश्वेश कृपया दीनवत्सल । मयोपपादितां पूजां गृहाणेमां हि माधव ॥ आवाहयामि ॥ सूर्यकोटिप्रभानाथ सर्वव्यापिन् रमापते । आसनं कल्पितं भक्त्या गृहाण पुरुषोत्तम ॥ आसनं० ॥ नारायण जगद्वयापिन् जगदानन्दकारक । विष्णुक्रान्तादिसंयुक्तं गृह्ण पाद्यं मयार्पितम् ॥ पाद्यं० ॥ फलगन्धाक्षतैर्युक्तं पुष्पपूगसमन्वितम् ॥ अर्ध्यं गृहाण भगवन् विष्णो सर्वफलप्रद ॥ अर्ध्यं० ॥ कर्पूरैलालवङ्गादिशीतलं सलिलं प्रभो । रमारमण कृष्ण त्वमाचम्यं प्रतिगृह्यताम् ॥ आचमनीयं० ॥ गङ्गा कृष्णा गौतमी च कावेरी च शतह्नदा । ताभ्य प्रानीतसुखदं स्नानार्थं प्रतिगृह्यताम् ॥ स्नानं० ॥ पयो दधि घृतं चैव शर्करा मधुसंयुतम् । पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रति० ॥ पञ्चामृतस्नानं० । मन्दाकिन्या: समानीतं हेमाम्भोरुहवासितम् । तोयमेतद गन्धयुक्तं स्नानार्थं प्रति० ॥ गन्धोदकस्नानं० ॥ अभ्यङ्गार्थं मयाऽऽनीतं तैलं पुष्पादिवासितम् । प्रयत्नेनार्जितं शुद्धं स्नानार्थं प्र० ॥ अभ्यङ्गस्नानं० उष्णोदकस्नानं० ॥ गन्धादिपञ्चोपचारपूजां कृत्वा अभिषेक: । पीतवासस्त्वयि विभो मया यत्समुदाहृतम् । वासप्रीत्या गृहाणेदं पुरुषोत्तम केशव ॥ वस्त्नं० ॥ उपवीतं सोत्तरीयं मया दत्तं सुशोभनम् । विश्वमूर्त्ते गृहाणेदं नारायण जगत्पते ॥ यज्ञोपवीतं० ॥ केयूरकटकं चैव सर्वाभरणभूषितम् । सर्वालङ्कारसंयुक्तं गृहाण परमेश्वर ॥ अलङ्कारान्० ॥ आभरणं० सौभाग्यद्रव्यं० ॥ मलयाचलसम्भूलं घनसारं मनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रति० ॥ चन्दनं० ॥ अक्षताक्ष्च सु० अक्षतान्‌० । तुलसीजातिकमलमल्लिकाचम्पकानि च । पुष्पाणि हर गोविन्द गृहा० ॥ पुष्पाणि स० ॥

॥ अथाङ्गपूजा ॥

१. अश्वत्थाय० पादौ पूज० ।
२. नारायणाय० गुल्फौ पू० ।
३. विष्णवे नम: जानुनी पू० ।
४. ब्रह्मणे नम: उरू पू० ।
५. महेश्वराय० कटी पू० ।
६. कमलनाभाय० नाभिं पू० ।
७. दामोदराय० उदरं पू० ।
८. वृक्षराजाय० हृदयं पू० ।
९. गोविन्दाय नम: कण्ठं पू० ।
१०. रामाय नम: मुखं पू० ।
११. जगदोद्धाराय० नेत्रे० ।
१२. कल्किने नम: कर्णौ पू० ।
१३. वासुदेवाय न० ललाटंपू० ।
१४. माधवाय नम: शिर; पू० ।
१५. हरये नम: सर्वाङ्गं पू० ।

दशाङ्गो गुग्गुलोदभूत: सुगन्धश्च मनोहर: । शघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृ० ॥ धूपमा० ॥ त्वं ज्योति: सर्वदेवानां तेजसां तेज उत्तमम् । आत्मज्योति: परंधाम दीपोऽयं प्र० ॥ दीपं० ॥ भक्ष्यभोज्यं लेह्यपेयं चोष्यं खाद्यं मयाऽऽहृतम् । प्रियं ते परमेशस्य दत्तं मे स्वीकुरु प्रभो ॥ नैवेद्यं० ॥ मध्येपानीयं० । उत्तरापोशनं० । हस्तप्र० । मुखप्र० । करोद्वर्तनार्थे चं० ॥ कदलीनारिकेलादि भक्त्याऽऽनीतं जगत्प्रभो । नानाफलानि दिव्यानि गृहा० ॥ फलं स० ॥ पूगीफलं म० ताम्बुलंस० । हिरण्यगर्भ० दक्षिणां० । त्वद्भासा भासते लोक: कोटिसूर्यसमप्रभ । नीराजयिष्ये त्वां विष्णो कृपां क्रुरु मयि प्रभो । आर्तिक्यदीपं द० ॥ कर्पूरनिर्मितं देव स्वर्णपात्रे निवेदितम् । नीराजनं मया भक्त्या गृहा० ॥ कर्पूरदीपं० ॥ मया कायेन मनसा वाचा जन्मशतार्जितम् । पापं प्रशमय श्रीश प्रदक्षिणपदे पदे ॥ प्रदक्षिणां० ॥ व्यक्ताव्यक्तस्वरूपाय सृष्टिस्थित्यन्तकारणे । आदिमध्यान्तरहित विष्टरश्रवसे नम: ॥ नमस्कारान् स० ॥ मूलतो ब्रह्मरूपाय मध्यतो विष्णुरुपिणे । अग्रत: शिवरूपाय अश्वत्याय नमो नम: ॥ पुष्पाञ्जलिं स० ॥ नमस्ते देवदेवेश नमस्ते धरणीधर । नमस्ते पद्मनाभाय अश्वत्थाय नमो नम: ॥ अमायै च नमस्तुभ्यं सोमायै च नमो नम: । सौभाग्यं देहिमे नित्यं वृक्षराजाय ते नम: ॥ प्रार्थयामि ॥ गन्धपुष्पाक्षतैर्युक्तं जलं ते दक्षिणान्वितम् । विशेषायर्ध्यं मया दत्तं सङ्कटान्मां निवारय ॥ श्रीलक्ष्मीनारायणाभ्यां नम: इदं विशेषार्ध्यं स० ॥ आवाहनं न० ॥ यस्य स्मृ० ॥ अनेन मया कृतेन पूजनेन श्रीलक्ष्मीनारायणौ प्रीयेताम् । अद्य पू० र्थं अमासोमवतीव्रताङ्गभूतं श्री अश्वत्थनारायणप्रीत्यर्थं अमुक्रद्रव्यसहिता: अष्टोत्तरशतप्रदक्षिणा: करिष्य़े । मूलतो ब्रह्म० इतिमन्त्रेण १०८ प्रदक्षिणा: कुर्यात् । तत: अद्य० प्त्यर्थं पूजासाङ्गतासिध्यर्थं ब्राह्मणाय क० । आसनादिना विप्रं सम्पूज्य । स्वस्त्यस्तु दी० । अमासोमव्रतस्यास्य सम्म्पूर्णफलहेतवे । वायनं द्विजवर्याय सहिरण्यं ददाम्यहम् ॥ इदं सौभाग्यवायनदानं अमुकश० । प्रतिगृ० प्रति० । दानसाङ्गतासिध्यर्थं इमां दक्षि० । अनेन वायनदानाख्येन कर्मणा श्रीलक्ष्मीनारायणौ प्रीयेताम ॥

॥ प्रतिदिनं धर्मार्थउदकदानविधि: ॥

आचम्य देशका०र्थं उदकदानफलप्राप्तिद्वारा श्रीवसन्तमाधवप्रीत्यर्थं प्रतिदिनं मासपर्यन्तं ब्राह्मणगृहे उदकदानं करिष्ये । प्रथमदिने तदङगउदकपूरितघटपूजनं ब्राह्मणपूजनं च करिष्ये । उदकुम्भदेवताभ्यो नम: गन्धादिपूजां कृत्वा, विप्रं सम्पूज्य, वसन्तमाधवस्वरूपिणे  ब्राह्मणाय इदमासनमित्यादिपूजां कृत्वा । स्वस्त्यस्तु, दीर्घ० । प्रत्यहं धर्मघटको वस्त्रं संवेष्टितानन: । ब्राह्मणस्य गृहे देय: शीतामलजल: शुचि: ॥ इदं उदकुम्भदानं अमुकशर्म० ब्राह्मणया तु० । प्रतिगृ० प्रति० । अनेन श्रीवसन्तमाधव: प्रीयताम् । मासपर्यन्तं ब्राह्मणगृहे उदकुम्भा: देया: । समाप्तिस्तु कृतस्य कर्मण: साङ्गतासिध्यर्थं तत्सम्पूर्णफलप्राप्तिद्वारा श्रीवसन्तमाधवप्रीत्यर्थं ब्राह्मणाय सोदकुम्भदानं करिष्ये । पूर्वसङ्कल्पस्थाने अयं सङकल्प: । शेषं पूर्ववत् ॥

॥ प्रपादानसङ्कल्प: ॥

आचम्य देशका० र्थं प्रपादानफलप्राप्तिपितृतृप्तिद्वारा पितृरूपिवसन्तमाधवप्रीत्यर्थं अद्यप्रभृति अमुकमास अथवा अमुकदिन पर्यन्तं यथाशक्तथोपचारेण प्रपादानं करिष्ये । स्थापितउदकुम्भेभ्य: गन्धादिना सम्पूज्य । अथ यथाशक्त्योपचारप्रकार:-प्रपा कार्या च वैशाखे देवे देया गलन्तिका । उपानव्यजनच्छत्रसूक्ष्मवासांसि चन्दनम् ॥१॥
जलपात्राणि देयानि तथा पुष्पगृहाणि च । यानि कानि विचित्राणि दाक्षारम्भाफलान्यपि ॥२॥
ददाति यो हि मेषादौ सक्तूनम्बुघटार्पितान् । पितृनुद्दिश्य विप्राय सर्वपापै: प्रमुच्यते ॥३॥
वैशाखे यो घटं पूर्णं सभोज्यं वै द्विजन्मने । ददाति सुरराजेन्द्र स याति परमां गतिम् ॥४॥
प्रपादाने महत्फलम् ॥

॥ इति प्रातिवर्षिकपूजाकथासङग्रहे द्वितोयो भाग: समाप्त: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP