विशेषव्रतपूजाः - बुधाष्टमीव्रताङ्गपूजाविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ अथ बुधाष्टमीव्रताङ्गपूजाविधि: ॥

शुक्लाष्टम्यां बुधवारयुताया बुधाष्टमीव्रतं कार्यम् । चैत्रे मासि आषाढादिचतुर्षुमासेषु च सन्ध्यायां च बुधाष्टमीव्रतं न कार्यम् । अष्टमी च परविद्धा नवमीयुता ग्राह्या । तस्यां प्रात: नद्यादौ स्नात्वा, नित्यकर्म निर्वर्त्य, तज्जलेन नवं घटं पूरयित्वा, गृहमागत्य भूर्मि गोमयेनोपलिप्य, रङ्गवल्लीभिरलङ्कृत्य, पीठं संस्थाप्य, तदुपरि धान्यं निधाय, अष्टदलं विरच्य, तदुपरि आनीतघटं पञ्चरत्नसहितं ब्राह्मणद्वारा महीद्यौरित्यादिना पूर्णपात्रनिधानान्ते पीतवस्त्रोपरि यथाशक्ति सुवर्णनिर्मिताम् अधिदेवतामत्यधिदेवतासहितां बुधप्रतिमां संस्थाप्य पूजामारभेत ॥ अथ पूजाप्रयोग: ॥ आचम्य देशकालौ स्मृत्वा, मम इह जन्मनि जन्मान्तरे च बाल्याद्यारभ्य कर्मणा मनसा वाचा जानताऽजानता वा परस्वाद्यपहृतिदोषपरिहारार्थं पुत्रपौत्रादिसकलमनोरथसिध्यर्थं श्रीवुधप्रीत्यर्थं बुधाष्टमीव्रताङ्गभूतं यथामिलितषोडशोपचारद्रव्यै: पुराणोक्तमन्त्रै: श्रीबुधपूजनं करिष्ये । तदङ्गं गणपतिपूजनं कलशपूजनं घण्टापूजनं च करिष्ये । गणपतिपूजनादिसम्भारप्रोक्षणान्तं कृत्वा, ध्यायेत्-चतुर्बाहुं ग्रहपतिं सुप्रसन्नमुखं बुधम् । ध्यायेऽहं शङ्खचक्रासिपाशहस्तमिलाप्रियम् ॥ श्रीबुधाय नम: बुधंध्यायामि । पीतमाल्याम्बरधर कर्णिकारसमद्युते । गृहाण पूजां भगवन् समागत्य गृहेश्वर ॥ मध्ये, श्रीबुधाय नम: बुधं साङ्गं सपरिवारं सायुधं सशक्तिकं आवाहयामि । तद्दक्षिणे, नारायणाय नम: नारायणं आ० । तदुत्तरत:, विष्णवे नम: विष्णुं आ० ॥ इलापते नमस्तेऽस्तु निशेशप्रियसूनवे । हेमसिंहासनं देव गृहाण प्रीतये मम ॥ आसनं० । शीतलोदकमानीतं सुपुष्पसरिदुद्भवम् । पाद्यं गृहाण देवेश ममाद्यपरितुष्टये ॥ पाद्यं० । तारासुत नमस्तेऽस्तु सततं भगवत्प्रिय । गृहाणार्ध्यां गृहपते नानाफलसमन्वितम् ॥ अर्ध्यं० । सुगन्धद्रव्यसंयुक्तै: शुद्धै: स्वादुसरिज्जलै: । आचम्यतां निशानाथ नन्दनप्रीतये मम ॥ आचमनीयं० । पयोदधिघृतैश्चैव मधुशर्करसंयुतै: । पञ्चामृतैस्तथा देव स्नानं तत्स्वीकुरु प्रभो ॥ पञ्चामृतस्नानं० । वासितं गन्धकर्पूरैर्निर्मितं जलमुत्तमम् । स्नानाय ते मया भक्त्या दीयते व्रतसिद्धये ॥ स्नानं० । श्रीबुधाय नम इति नाममन्त्रेण पञ्चोपचारपूजां कृत्वाऽभिषेक: । पीतवस्त्रद्वयं देवराज वंशकर प्रभो । उर्वशीनाथ जनक गृहाण प्रीतये सदा ॥ पीतवस्त्रद्वयं० । यज्ञोपवीतकं सूत्रं त्रिगुणं त्रिदशप्रिय । मम पाशविनाशार्थं गृहाण प्रीतये बुध ॥ यज्ञोपवीतं० । आचमनीयं० । हरिचन्दनकस्तूरीकर्पूरादिसमन्वितम् । गन्धं भगवते तुभ्यमिलानाथ नमोऽस्तु ते ॥ चन्दनं० । अक्षताश्च० अक्षतान्० । माल्यादीनि० पुष्पाणि० ।

॥ अथाङ्गपूजा ॥

१. बुधाय नम: पादौ पूज० ।
२. सोमपुत्राय० जानुनी पू० ।
३. तारकाय० कटी पू० ।
४. राजपुत्राय० उदरं पू० ।
५. इलाप्रियाय० हृदयं पू० ।
६. कुमाराय० वक्षस्थलं० ।
७. पुरुरवस: पित्रे बाहू पू० ।
८. सोमसुताय० स्कन्धौ पू० ।
९. पीतवर्णाय० मुखं पू० ।
१०. ज्ञानाय० नेत्रे पू० ।
११. बुधाय० मूर्धानं पू० ।
१२. सोमसूनवे० सर्वाङ्गं पू० ।

वनस्पति० धूपमा० । आज्यं च० दीपं द० । नैवेद्यं गृह्यतां० नैवेद्यं० । उत्त०, मुख०, हस्त०, करो० । पूगीफलं मह० ताम्बूलं० । इदं फलं० फलं० । हिरण्यगर्भ० दक्षिणां० । चन्द्रादित्यौ० कर्पूरदीपं० । प्रियङ्गकलिकाश्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ नमस्कारान् ०। यानि कानि० प्रदक्षिणां० । उर्वश्याश्च पतिर्यस्तु य: परूरवस: पिता । ग्रहमध्ये सुरूपो यो बुधो न सम्र्पसीदतु ॥ प्रार्थयामि ॥ अर्ध्यदानविधि: ॥ सौवर्णे राजतताम्रपात्रान्यतमपात्रं गन्धपीताक्षतपुष्पगुडमिश्रितजलपूरितं कृत्वा भूमौ जानुनी निधाय विशेषार्ध्यं दद्यात् । तत्र मन्त्र:-उर्वश्या: श्वशुरो यस्तु य: पुरुरवस: पिता । यो ग्रहाणामधिपतिर्बुधो न: सम्प्रसीदतु ॥ श्रीबुधाय० इदं विशेषार्ध्यं० । यस्य स्मृत्या० । अनेन मया कृतेन पूजनेन श्रीबुध: प्रीयताम्‌ ॥ अथ वायनदानविधि: ॥ पूजासाङ्गतासिध्यर्थं ब्राह्मणपूजनं वायनदानं च करिष्ये । गन्धा: पान्तु० । स्वस्त्यस्तु, दीर्घ० । इलापते नमस्तेऽस्तु शशाङ्कप्रिय नन्दन । वायनस्यास्य दानेन मम सम्पत्प्रदो भव । इदं वायनदानं अमुकशर्मणे ब्राह्मणाय बुधप्रीत्यर्थं तुभ्यमहं सम्प्रददे । प्रति० । दानसां० । अनेन० ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP