मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः| उग्ररथशान्तिकारिकाः । वयोवस्थाभिध शान्तिसमुच्चयः देवता स्तवनम् निवेदनम् च सर्वसामान्य विधी नक्षत्र, नक्षत्रदेवता व त्यांचे नाममंत्र शान्तेः प्रयोगदर्शनम् । अथ वैष्णवी शान्तिः । शान्तेः प्रयोगदर्शनम् । अथ वारुणी शान्तिः । अथ उग्ररथशान्तेर्मूलवचनानि उग्ररथशान्तिकारिकाः । अथ उग्ररथ शान्तेः प्रयोगदर्शनम् । अथ उग्ररथ शान्तिः । अथ मृत्युंजय महारथी शान्तेः प्रयोगदर्शनम् । अथ मृत्युंजय महारथी शान्तिः । अथ भैमरथी शान्ति प्रयोगः । अथ भैमरथी शान्तेः प्रयोगदर्शनम् । अथ भैमरथी शान्तिः । अथ ऐंद्री शान्तेः प्रयोगदर्शनम् । अथ ऐंद्री शान्तिः । सहस्त्रचन्द्रदर्शन शान्तिः । अथ सहरचन्द्र दर्शन शान्तेः प्रयोगदर्शनम् । अथ सहस्रचन्द्र दर्शन शान्तिः । अथ रौद्री शान्तेः प्रयोगदर्शनम् । अथ रौद्री शान्तिः । अथ कालस्वरुप सौरी शान्तेः प्रयोगदर्शनम् । अथ कालस्वरुप सौरी शान्तिः । अथ त्रैयंबक मृत्युंजय शान्तेः प्रयोगदर्शनम् । अथ महामृत्युंजय शान्तेः प्रयोगदर्शनम् । शान्तिः । वयोऽवस्थाभिधा शान्तिः मंगलाय चिरं भवेत् । ब्रह्मादि मंडळ देवता प्रार्थना - श्लोकाः । उग्ररथशान्तिकारिकाः । आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत. Tags : shantividhiविधीशांती उग्ररथशान्तिकारिकाः । Translation - भाषांतर मार्कण्डेयस्य प्रतिमां कारयेच्च प्रयत्नतः ॥प्रतिमां स्थापयेत् कुंभे वस्त्रयुग्मेन वेष्टयेत् ॥१५॥उपचारैः षोडशभिः संपूज्य च विधानतः ।समिदाज्य - चरु - द्रव्यैर्दूर्वाभिः परमान्नकैः ॥१६॥अष्टोत्तरसहस्त्रं वा शतमष्टोत्तरं तु वा ।प्रत्येकं जुहुयादेतं मार्कण्डेयेति मन्त्रतः ॥१७॥हवनार्थं अयं मंत्रः । -मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।आयुरारोग्यमैश्वर्यं देहि मे मुनिपुङ्गव ॥१८॥मृत्युञ्जयं समुद्दिश्य दूर्वाभिश्च तिलैः सह ।अयुतं वा तदर्धार्धं त्रिसहस्रं वा सहस्रकम् ॥१९॥होमं कृत्वा विधानेन उपदेवान् यजेत्पृथक् ।अश्वत्थामा बलिर्व्यासो हनुमांश्च बिभीषणः ॥२०॥कृपः परशुरामश्च एतांश्चैव पृथक् पृथक् ।लाजाहोमं प्रकुर्वीत यथाविभवविस्तरम् ॥२१॥श्रीसूक्तं रुद्रजाप्यं च आयुष्यं पुरुषसूक्तकम् ।वेदपारायणं चैव कर्तव्यं तु प्रयत्नतः ॥२२॥होमशेषं समाप्याथ पूर्णाहुतिमतः परम् ।कलशोदकमादाय अभिषेकं तु कारयेत ॥२३॥यजमानं सपत्नीकं बन्धुवर्गसमन्वितम् ।शान्तिसूक्तं पुरुषसूक्तं परं मृत्योस्तथैव च ॥२४॥आयुष्यं पावमानं च शिवसङ्कल्पषडऋचम् ।महाशान्तिं प्रजप्याथ कलशं च प्रदापयेत् ॥२५॥अभिषेकाप्लुतं वस्त्रमाचार्याय निवेदयेत् ।सालङ्कारां सवस्त्राङ्गां आचार्याय निवेदयेत् ॥२६॥दशदानानि विप्रेभ्यः सुवर्णं शतमानकम् ।आज्यस्यावेक्षणं कुर्यात् तिलदानं तथैव च ॥२७॥ब्राह्मणादाशिषो ग्राह्या नववस्त्रं तु धारयेत् ।नीराजनं प्रकुर्वीत देवानामभिवादनम् ॥२८॥ब्राह्मणान् भोजयेत् पश्चात्सहस्रं वा शतं तु वा ।बन्धुभिः सह भुञ्जीत दीर्घमायुश्च विन्दति ॥२९॥सर्वारिष्टविनाशश्च सर्वसंपद्भविष्यति ॥ इति ॥॥ इति उग्ररथशान्तिकारिकाः शान्तिकमलाकरे ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP