मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः|
अथ भैमरथी शान्तिः ।

अथ भैमरथी शान्तिः ।

आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत.


[ सप्ततितमे वर्षे (७०) क्रियमाणा । ]
अथ कर्ता यजमानः जन्मनः सकाशात् सप्ततितमे वर्षे प्राप्ते, जन्मदिने, जन्मनक्षत्रे, चन्द्रानुकूल्ये शुभेऽहनि वा, कृताभ्यंगः, कृतनित्यक्रियः, कृताग्निसिद्धिः, शुभे सवस्त्रपीठासने उपविश्य, यज्ञोपवीती, आचम्य, पवित्रपाणिः प्राणानायम्य, पंचगव्यप्राशनादिना शरीरशुद्धिं विधाय, सुवासिन्या कृतमंगलतिलकः देवतागुर्वादींश्चाभिवाद्य, ब्राह्मणैर्दत्तानुज्ञः स्वासने उपविश्य, पुनः आचम्य, प्राणानायम्य, देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थ अमुकगोत्रः अमुकशर्माऽहं मम जन्मनः सकाशात् सप्ततितमे वर्षे प्राप्ते सूचित - संभाव्यमान - नानाविधरोग - दृष्टिमान्द्य - छायावैकृत्य - भार्यापुत्रादि - वियोग - धनधान्यपशुक्षयादि - अरिष्ट - निरसनार्थ जन्मराशिजन्मलग्नाभ्यां सकाशात् गोचरेण अनिष्टस्थानस्थित - आदित्यादि - नवग्रहाणां उत्पन्नोत्पत्स्यमान - पीडापरिहार - पूर्वकं सर्वसुखावाप्तिधनधान्याद्यभिवृद्धयर्थ समस्तमंगलप्राप्त्यर्थ देशकालाद्यनुसारतः विद्वदुपदिष्टेन विधिना यथासंभृतसंभारैः यथाशक्ति यथाज्ञानतः सग्रहमखां शौनकोक्तां भैमरथीं शान्तिं करिष्ये । तदंगं स्वस्ति - पुण्याहवाचनं, मातृकापूजननांदीश्राद्धं, आचार्यवरणं च करिष्ये । तत्रादौ निर्विघ्नतासिद्धयर्थं महागणपतिपूजनं करिष्ये । इति संकल्प्य, तानि कृत्वा वृताचार्यः स्थंडिलसमीपमुपविश्य, आचम्येत्यादि० श्रीपरमेश्वरप्रीत्यर्थं अमुकगोत्रोत्पन्नेन अमुकशर्मणा यजमानेन संकल्पित - भैमरथी - शान्तिकर्मणि वृतोऽहं यथाज्ञानतः देशकालाद्यनुसारेण एभिर्ब्राह्मणैः सह आचार्यकर्म करिष्ये । तदंगं शरीरशुद्धयर्थं पुरुषसूक्त - जप - पूर्वकम् भू शुद्धयादि करिष्ये, आदौ निर्विघ्नार्थं महागणपति स्मरणं च करिष्ये । इत्यादि गौरसर्षपविकिरणादि प्रादेशान्तं कर्म कृत्वा, स्थण्डिलात् पूर्वभागे वेदीं प्रकल्प्य, ( अत्र केचन - सर्वतोभद्रस्य ( लिंगतो भद्रस्य वा ) सर्वसाधारणत्वात् पीठे सर्वतोभद्रं विरच्य, तत्र ब्रह्मादि - मंडल - देवताः आवाह्य, संपूज्यं, तण्डुलैराच्छाद्य, तदुपरि कलशं संस्थाप्य, वरुणं संपूज्य, कर्णिकायां देवतास्थापनमिच्छन्ति । ) सवस्त्रपीठासने व्रीहिराशिं, तदुपरि तण्डुलराशिं, तदुपरि तिलराशिं च कृत्वा महीद्यौरित्यादिना कलशत्रयं ( एकं वा कलशं ) संस्थाप्य, पूर्णपात्रे अष्टदले र्‍हीं - कारोपरि कर्णिकायां कृताग्न्युत्तारणपूर्विकायां सुवर्णप्रतिमायां स्तुहि श्रुतमिति मंत्रेण भीमरथं मृत्युंजयं प्रतिष्ठाप्य, तद्दक्षिणे अधिदेवतां महावरुणं, उत्तरतः प्रत्यधिदेवतां आशापालांश्च प्रतिष्ठापयेत् । तत्र मंत्रः यथा । स्तुहि श्रुतमित्यस्य शौनको गृत्समदो भीमो मृत्युंजय - रुद्रस्त्रिष्टुप्‍ । भीमरथमृत्युंजयरुद्र - आवाहने विनियोगः ।

ॐ स्तुहि श्रुतं गर्तसदं युवानं
मृगं न भीममुपहत्नुमुग्रम् ।
मृळा जरित्रे रुद्र स्तवानो
ऽन्यं ते अस्मिन्नि वपन्तु सेनाः ॥
( अष्टक - २, अ - ७, वर्ग - १८ )


यजमानः तैत्तिरीयशाखायश्चेत् रुद्रपाठस्थो वा मंत्रो ग्राह्यः ।

( ऋक्‍ शाखोक्तमंत्रः, न तु रुद्रपाठस्थः । )

अस्यां सुवर्णमय्यां मूर्तौ प्रधानदेवतां भीमरथ - मृत्युंजय - रुद्राय नमः । भीमरथमृत्युंजय - रुद्रं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि । ॐ भूः भीमरथमृत्युंजय - रुद्रं आवा० । ॐ भुवः भीमरथ - मृत्युंजय - रुद्रं आवा० । ॐ स्वः भीमरथ - मृत्युंजय - रुद्रं आवा० । ॐ भूर्भुवः स्वः भीमरथ - मृत्युंजय - रुद्रं आवा० । तद्दक्षिणतः ( कलशे ) अव ते हेळ इत्यस्य आजीगर्तिः शुनः शेपो वरुणस्त्रिष्टुप् । वरुणावाहने विनियोगः ।

अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे
हविर्भिः । क्षयन्नस्मभ्यमसुर प्रचेता
राजन्नेनांसि शिश्रथः कृतानि ॥
( अ - १, अ - २, वर्ग - १५ )


अस्यां सुवर्णमय्यां मूर्तौ ( पूगीफले वा ) ॐ भूर्भुवः स्वः वरुणाय नमः, वरुणं आवाहयामि । भूरित्यादि आवाह्य । वामपार्श्वे आशापालानावाह्य । यस्य वाक्यं स ऋषिर्या तेनोच्यते सा देवता, यदक्षरपरिमाणं तच्छंदः आशापालावाहने विनियोगः । ( एकश्रुत्या पाठः । )

ॐ आशानामाशापालेभ्यो वाशानामाशा
पालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।
इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ।    
विश्वा आशामधुना संसृजाम्यनमीवा आप
ओषधयः सन्तु सर्वाः ।
अयं यजमानो मृधे व्यस्यत्व गृभीताः पशवः
सन्तु सर्वे । इति सौत्रमंत्रः ।


अस्यां सुवर्णमय्यां मूर्तौ आशापालेभ्यो नमः । आशापालानावाहवामि । भूः इत्यादि आवाह्य । तदुत्तरतः त्र्यंबकेति मंत्रेण त्र्यंबकं आवाह्य । तदुत्तरतः नक्षत्रदेवता नाममंत्रेणावाह्य, काण्डानुसमयेन पदार्थानुसमयेन वा सर्वान्‍ संपूज्य, प्रधानदेवतासमीपे तन्मंत्रं ( स्तुहि श्रुतं गर्त० ) अष्टोत्तरशतं अष्टाविंशतिवारं वा जप्त्वा, स्थंडिलान्तिकमेत्य, अद्येत्यादि० संकल्पित - भैमरथी - शांतिकर्माणि स्थंडिलादि - सकलं कर्म करिष्ये । वरदनामानमग्निं प्रतिष्ठाप्य, ध्यात्वा, ध्यानान्ते देवतोत्तरवेद्यां आदित्यादिनवग्रहानावाह्य, संपूज्य, देवदानवसंवादे० इति वरुणप्रार्थनान्तं कृत्वा, स्थंडिलसमीपमेत्य समिद्‍द्वयेत्यन्वादध्यात् । चक्षुष्यन्तं उक्त्वा ग्रहानन्वादध्यात् । अत्र प्रधानं देवं भीमरथं मृत्युंजय - रुद्रंस्तुहि श्रुतमिति मंत्रेण अष्टोत्तरसहस्र (१००८) संख्याकाहुतिभिः घृताक्ततिलैः अष्टोत्तरशताहुतिभिर्वा (१०८) अधिदेवताप्रत्यधि - देवते च तैरेव द्रव्यैः अष्टोत्तरशतसंख्याकाभिः, अष्टाविंशतिसंख्याभिर्वा मृत्युंजयं त्र्यंबकं त्र्यंबकेतिमंत्रेण घृताक्ततिलद्रव्येण सहस्रसंख्याकाहुतिभिः, नक्षत्रदेवतां नाममंत्रेण अष्टाविंशति - अष्टसंख्याकाभिर्वाज्यद्रव्येण यक्ष्ये । शेषेण स्विष्टकृतमिति चक्षुष्यन्तं कर्म कृत्वा यजमानेन द्रव्यत्यागे कृते, ग्रहहोमं प्रधानादिहोमं विधाय स्विष्टकृतात् प्राक्‍ विविधसूक्तपाठजपः कार्यः । तानि च सूक्तानि - श्रीसूक्तं, रुद्राध्यायं आयुष्य - मंत्रान्‍ जपेत् । ते च ऋक्‍ - द्वयं एष वां देवा परावतो सप्तदशर्चं, आ नो भद्रा दशर्चं, इति वा इति आयुष्यमिति च सूक्तं पठेत् । ततः वेदपारायणं कार्यं, तदसंभवे पुरुषसूक्तं अग्निमीळे इति नवर्चंसूक्तं च पठेत् । ततः स्विष्टकृतादि प्रायश्चित्तहोमान्ते बलिदानं पूर्णाहुतिं च कृत्वा ततः वेदपारायणं कार्यं, तदसंभवे पुरुषसूक्तं अग्निमीळे इति नवर्चंसूक्तं च पठेत् । ततः स्विष्टकृतादि प्रायश्चित्तहोमान्ते बलिदानं पूर्णाहुतिं च कृत्वा संस्त्रावादिहोमशेषं समाप्य, स्थापितकलशोदकैः सकुटुंबं बंधुवर्गयुतं यजमानं अभिषिंचेत् । तत्र अभिषेकमंत्राः - समुद्रज्येष्ठा० शं न इंद्राग्नी० परं मृत्यो० एष वां देवा ऋग्द्वयं० परावतो सप्तदशर्चं, स्वादिष्टयेति दशर्चं, अक्षिभ्यां षटभिः, यज्जाग्रत इति षण्णाम् । ग्रहमंत्र - मुख्यदेवतामंत्रेत्यादीनां सर्वेषां अभिषेके विनियोगः ।

( अभिषेकमंत्राणां बाहुल्यात् यथावकाशं यथाशक्ति पाठः । )

ततो यजमानः अभिषेकवस्त्रं परित्यज्य, धृतशुक्लांबरः, अभिषेकवस्त्रं आचार्याय दद्यात् । विभूतिं धृत्वा आ नो भद्रा इति महाशांतिजपपूर्वकं देवतोत्तरपूजने कृते, मार्कंडेयादीन्‍ प्रार्थयेत । ततः आयुर्वृद्धयै सतिलगुडसंमिश्रं दुग्धं प्राशयेत् । तत्र मंत्रः ‘ सतिलं गुडसंमिश्रं अंजल्यर्धमितं पयः । मार्केडेयात् वरं लब्ध्वा पिबाम्यायुर्विवृद्धये । इति पिबेत् । ततः कांस्यपात्रे घृतमासिच्य, तत्र ‘ रुपं रुपं ’ इति मंत्रेण आज्यावलोकन कृत्वा तत्पात्रं, सदक्षिणाकं ब्राह्मणाय दत्त्वा गो - भू - तिल - हिरण्यादि - दशदानानि कानिचित् प्रत्यक्षाणि, कानिचित् निष्क्रयद्वारा, सर्वाणि वा निष्क्रयरुपेण ब्राह्मणेभ्यः दत्त्वा, तथा शतगुंजापरिमितं सुवर्णं, तन्निष्कयं वा विभज्य विभज्य ब्राह्मणेभ्यो दत्त्वा, अशक्तौ शतसर्षपतुलितं वा, ततः विसर्जितदेवतापीठदानान्ते तिलदानं च कृत्वा, तत्र मंत्रः ‘ तिलाः कश्यपसंभूतास्तिलाः पापहराः शुभाः ॥ तिलपात्रप्रदानेन अतः शान्तिं प्रयच्छ मे ॥ ’ इति । पुत्रादिकैः पुष्पमालावस्त्रादिना यजमानं ( अहेर ) सत्कृत्य पुरंध्रीभिः ( सुवासिनीभिः ) आचारात् यजमानस्य यावन्ति वयोवर्षाणि तावद्भिर्वा नीराजनैः ( दीपैः ) नीराजयित्वा, ब्राह्मणेभ्यः दक्षिणां दत्त्वा, तेभ्यः आशीर्वचनं गृहीत्वा, ब्राह्मणभोजनसंकल्पं कृत्वा, देवानभिवाद्य, कर्म परमेश्वरार्पणं कुर्यात् । द्विराचम्य, त्रिवारं विष्णुस्मरणं कुर्यात् इति ।
॥ इति प्राचीनग्रंथानुसारं नारायणशास्त्री जोशी - विर चिता    
भैमरथी - शान्तिः समाप्ता ॥
॥ श्रीकृष्णार्पणमस्तु ॥


N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP