मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः| अथ उग्ररथशान्तेर्मूलवचनानि वयोवस्थाभिध शान्तिसमुच्चयः देवता स्तवनम् निवेदनम् च सर्वसामान्य विधी नक्षत्र, नक्षत्रदेवता व त्यांचे नाममंत्र शान्तेः प्रयोगदर्शनम् । अथ वैष्णवी शान्तिः । शान्तेः प्रयोगदर्शनम् । अथ वारुणी शान्तिः । अथ उग्ररथशान्तेर्मूलवचनानि उग्ररथशान्तिकारिकाः । अथ उग्ररथ शान्तेः प्रयोगदर्शनम् । अथ उग्ररथ शान्तिः । अथ मृत्युंजय महारथी शान्तेः प्रयोगदर्शनम् । अथ मृत्युंजय महारथी शान्तिः । अथ भैमरथी शान्ति प्रयोगः । अथ भैमरथी शान्तेः प्रयोगदर्शनम् । अथ भैमरथी शान्तिः । अथ ऐंद्री शान्तेः प्रयोगदर्शनम् । अथ ऐंद्री शान्तिः । सहस्त्रचन्द्रदर्शन शान्तिः । अथ सहरचन्द्र दर्शन शान्तेः प्रयोगदर्शनम् । अथ सहस्रचन्द्र दर्शन शान्तिः । अथ रौद्री शान्तेः प्रयोगदर्शनम् । अथ रौद्री शान्तिः । अथ कालस्वरुप सौरी शान्तेः प्रयोगदर्शनम् । अथ कालस्वरुप सौरी शान्तिः । अथ त्रैयंबक मृत्युंजय शान्तेः प्रयोगदर्शनम् । अथ महामृत्युंजय शान्तेः प्रयोगदर्शनम् । शान्तिः । वयोऽवस्थाभिधा शान्तिः मंगलाय चिरं भवेत् । ब्रह्मादि मंडळ देवता प्रार्थना - श्लोकाः । अथ उग्ररथशान्तेर्मूलवचनानि आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत. Tags : shantividhiविधीशांती अथ उग्ररथशान्तेर्मूलवचनानि Translation - भाषांतर ॥ अथ उग्ररथशान्तेर्मूलवचनानि ॥( षष्टितमेवर्षे (६०) प्राप्ते क्रियमाणा । )अथाह शौनकः - शांतिकमलाकरे" अथातः संप्रवक्ष्यामि शांतिं चोग्ररथस्य तु ।ब्रह्मक्षत्रियवैश्यानां शूद्राणां चैव योषिताम् ॥१॥यदि स्यात्षष्टिवर्षं तु तदा मृत्युर्भवेत् ध्रुवम् ।दुःस्वप्नानि च जायन्ते मातापित्रोर्मृतिस्तथा ॥२॥भार्यापुत्रवियोगश्च रोगव्याधिभयं तथा ।गृहपीडा राजभयं रोगाश्च विविधाश्च ये ॥३॥दन्तरोगा दृष्टिमान्द्यं छायाया विकृतिस्तथा ।नक्षत्राणि न दृश्यन्ते ध्रुवादीन्यस्फुटानि च ॥४॥भूतप्रेतपिशाचाद्या दृश्यन्ते विविधाश्च ये ।एते चान्ये महोत्पाताः जायन्ते षष्टिवत्सरे ॥५॥तद्दोषपरिहारार्थं शान्तिं वक्ष्यामि शौनक ।लोभादनादरो यस्तु शान्तिकर्म न कारयेत् ॥६॥तस्मिन् वर्षे भवेन्मृत्युः सत्यमेव न संशयः ।तस्मिन् वर्षे जन्मदिने जन्मर्क्षं वा यदा भवेत् ॥७॥तस्मिन् दिने तु संप्राप्ते मङ्गलं स्नानमाचरेत् ।दैवज्ञोक्ते शुभे काले चन्द्रताराबलान्विते ॥८॥नित्यकर्माणि निर्वर्त्य ब्राह्मणानभिमन्त्र्य च ।आचार्यं वरयेदादौ वेदवेदाङ्गपारगम् ॥९॥आचारवन्तं धर्मज्ञं शान्तिकर्मणि कोविदम् ।कामक्रोधविहीनञ्च रागद्वेषविवर्जितम् ॥१०॥गणेशं पूजयेदादौ ततः पुण्याहवाचनम् ।मातृकाः पूजयित्वा तु नान्दीश्राद्धमतः परम् ॥११॥आचार्यब्रह्मवरणमन्वाधानमतः परम् ।सर्वौषधीः समानीय पञ्चत्वक् पञ्चपल्लबम् ॥१२॥पञ्चरत्नं पञ्चगव्यं पञ्चामृतमतः परम् ।कलशञ्च समानीय ग्रहातिथ्यपुरस्सरम् ॥१३॥नवग्रहं समाराध्य मार्कण्डेयं प्रधानकम् ।पलेन वा तदर्धेन तदर्धार्धेन वा पुनः ॥१४॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP