मराठी मुख्य सूची|विधी|शांती विधी|वयोवस्थाभिध शान्तिसमुच्चयः| अथ भैमरथी शान्ति प्रयोगः । वयोवस्थाभिध शान्तिसमुच्चयः देवता स्तवनम् निवेदनम् च सर्वसामान्य विधी नक्षत्र, नक्षत्रदेवता व त्यांचे नाममंत्र शान्तेः प्रयोगदर्शनम् । अथ वैष्णवी शान्तिः । शान्तेः प्रयोगदर्शनम् । अथ वारुणी शान्तिः । अथ उग्ररथशान्तेर्मूलवचनानि उग्ररथशान्तिकारिकाः । अथ उग्ररथ शान्तेः प्रयोगदर्शनम् । अथ उग्ररथ शान्तिः । अथ मृत्युंजय महारथी शान्तेः प्रयोगदर्शनम् । अथ मृत्युंजय महारथी शान्तिः । अथ भैमरथी शान्ति प्रयोगः । अथ भैमरथी शान्तेः प्रयोगदर्शनम् । अथ भैमरथी शान्तिः । अथ ऐंद्री शान्तेः प्रयोगदर्शनम् । अथ ऐंद्री शान्तिः । सहस्त्रचन्द्रदर्शन शान्तिः । अथ सहरचन्द्र दर्शन शान्तेः प्रयोगदर्शनम् । अथ सहस्रचन्द्र दर्शन शान्तिः । अथ रौद्री शान्तेः प्रयोगदर्शनम् । अथ रौद्री शान्तिः । अथ कालस्वरुप सौरी शान्तेः प्रयोगदर्शनम् । अथ कालस्वरुप सौरी शान्तिः । अथ त्रैयंबक मृत्युंजय शान्तेः प्रयोगदर्शनम् । अथ महामृत्युंजय शान्तेः प्रयोगदर्शनम् । शान्तिः । वयोऽवस्थाभिधा शान्तिः मंगलाय चिरं भवेत् । ब्रह्मादि मंडळ देवता प्रार्थना - श्लोकाः । अथ भैमरथी शान्ति प्रयोगः । आयुष्याच्या तृतीयावस्थेत शरीराच्या ठिकाणी अनेक आघात - आजार, इंद्रिय - वैफल्य होण्याचा संभव असतो तो टाळला जावा आणि उर्वरित आयुष्य सुखाने जावे म्हणून वय पन्नासपासून दर पाच वर्षांनी ऋषिमुनींनी शांती सांगितल्या आहेत. Tags : shantividhiविधीशांती अथ भैमरथी - शान्ति - प्रयोगः । Translation - भाषांतर तत्रादौ मूलवचनानि । तदुक्तं बृहच्छौनकीये ॥अथ भैमरथीं शान्तिं भगवान् शौनकोऽब्रवीत्जननात्सप्ततौ वर्षे मृत्युर्भीमरथो भवेत् ॥१॥षष्मासान्मृत्युमाप्नोति धनहानिं तथैव च पुत्रदारादिनाशश्च द्रव्यधान्यपशुक्षयः ॥२॥तद्दोषशमनार्थाय भगवान् शौनकोऽब्रवीत्जन्मर्क्षे वानुकूलर्क्षे शान्तिं कुर्याद्विचक्षणः ॥३॥देवालये नदीतीरे स्वगृहे वा शुभे स्थलेगृहस्यैशानदिग्भागे मण्डपं कारयेदथ ॥४॥व्रीहिभारं तु निक्षिप्य तण्डुलांस्तु तदर्धकम्तदर्धं तिलभारः स्यात् पद्ममष्टदलं स्मृतम् ॥५॥तस्योपरि न्यसेत्कुंभान् तंतुवस्त्रादिवेष्टितान्र्हींकारोपरि विन्यस्य भीमं मृत्युंजयं यजेत् ॥६॥पलमात्रं सुवर्णेन तदर्धार्धेन वा पुनः महावरुणमभ्यर्च्य लोकपालादिकानथ ॥७॥अधि - प्रत्यधि - देवौ च तदर्धेन प्रकल्पयेत्आचार्य वरयित्वा तु ऋत्विजो वरयेदथ ॥८॥उपचारैः षोडशभिः प्रधानं देवमर्चयेत्यथोक्तपूजां कृत्वा तु तत्तन्मंत्रान् जपेदथ ॥९॥स्तुहि श्रुतेति मंत्रेण प्रधानं जपमाचरेत्वेदपारायणजपं ततो द्वारजपं तथा ॥१०॥नमकं चमकं चैव श्रीसूक्तं भीमसूक्तकम्मण्डपात्पश्चिमे भागे कुण्डं स्याच्चतुरस्रकम् ॥११॥स्वसूत्रोक्तेन मार्गेण आज्यभागान्तमाचरेत्प्रधानमंत्रकैः कुर्यात् समिच्चर्वाज्यकैः क्रमात् ॥१२॥नवग्रहाणां मंत्रेण तिलद्रव्येण कारयेत्अष्टोत्तरं सहस्रं वा अष्टोत्तरशतं तथा ॥१३॥प्रधानहोमः कर्तव्यः तिलैर्होमस्तथैव च वरुणं लोकपालांश्च ह्यधिप्रत्यधिदेवते ॥१४॥ततः स्विष्टकृतं हुत्वा ग्रहयज्ञं समापयेत्यजमानाभिषेकं च आचार्यः कारयेदथ ॥१५॥कुंभदानं ततः कुर्यात् दश दानानि कारयेत्दीनांधकदरिद्रेभ्यः भूरिदानं समाचरेत् ॥१६॥ब्राह्मणान् भोजयेत् पश्चादाशिषो वाचयेदथसर्वदुःखनिवृत्तिः स्यांत् सर्वदा सुखमेधते ॥१७॥शत्रवोऽपि वशं यान्ति पुत्रपौत्रप्रवर्धनम्हरिमेव स्मरेन्नित्यं कर्म पूर्वापरेऽपि च ॥१८॥इति बृहच्छौनकीये सप्तत्यब्दिका भैमरथी शान्तिः ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP