संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - द्वितीयप्रपाठकः| प्रथमा दशतिः छन्द आर्चिकः - द्वितीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः अष्टमी दशतिः दशमी दशतिः द्वितीयप्रपाठकः - प्रथमा दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद प्रथमा दशतिः Translation - भाषांतर पुरु त्वा दाशिवां वोचेऽरिरग्ने तव स्विदा ।तोदस्येव शरण आ महस्य ॥९७॥प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् ।विपां ज्योतींषि बिभ्रते न वेधसे ॥९८॥अग्ने वाजस्य गोमत ईशानः सहसो यहो ।अस्मे धेहि जातवेदो महि श्रवः ॥९९॥अग्ने यजिष्ठो अध्वरे देवां देवयते यज ।होता मन्द्रो वि राजस्यति स्रिधः ॥१००॥जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये ।अयं ध्रुवो रयीणां चिकेतदा ॥१०१॥उत स्या नो दिवा मतिरदितिरूत्यागमत् ।सा शन्ताता मयस्करदप स्रिधः ॥१०२॥ईडिष्वा हि प्रतीव्या३ं यजस्व जातवेदसं ।चरिष्णुधूममगृभीतशोचिषं ॥१०३॥न तस्य मायया च न रिपुरीशीत मर्त्यः ।यो अग्नये ददाश हव्यदातये ॥१०४॥अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यं ।दविष्ठमस्य सत्पते कृधी सुगं ॥१०५॥श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते ।नि मायिनस्तपसा रक्षसो दह ॥१०६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP