संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - द्वितीयप्रपाठकः| षष्ठी दशतिः छन्द आर्चिकः - द्वितीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः अष्टमी दशतिः दशमी दशतिः द्वितीयप्रपाठकः - षष्ठी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद षष्ठी दशतिः Translation - भाषांतर अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः ।इन्द्रोरिन्द्रो यवाशिरः ॥१४५॥इमा उ त्वा पुरुवसोऽभि प्र नोनवुर्गिरः ।गावो वत्सं न धेनवः ॥१४६॥अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं ।इत्था चन्द्रमसो गृहे ॥१४७॥यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः ।तत्र पूषाभुवत्सचा ॥१४८॥गौर्धयति मरुतां श्रवस्युर्माता मघोनाम्युक्ता वह्नी रथानां ॥१४९॥उप नो हरिभिः सुतं याहि मदानां पते ।उप नो हरिभिः सुतं ॥१५०॥इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे ।अच्छावभृथमोजसा ॥१५१॥अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।अहं सूर्य इवाजनि ॥१५२॥रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।क्षुमन्तो याभिर्मदेम ॥१५३॥सोमः पूषा च चेततुर्विश्वासां सुक्षितीनां ।देवत्रा रथ्योर्हिता ॥१५४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP