संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - द्वितीयप्रपाठकः| सप्तमी दशतिः छन्द आर्चिकः - द्वितीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः अष्टमी दशतिः दशमी दशतिः द्वितीयप्रपाठकः - सप्तमी दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद सप्तमी दशतिः Translation - भाषांतर पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनां ॥१५५॥प्र व इन्द्राय मादनं हर्यश्वाय गायत ।सखायः सोमपाव्ने ॥१५६॥वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।कण्वा उक्थेभिर्जरन्ते ॥१५७॥इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।अर्कमर्चन्तु कारवः ॥१५८॥अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।एहीमस्य द्रवा पिब ॥१५९॥सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।जुहूमसि द्यविद्यवि ॥१६०॥अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।तृम्पा व्यश्नुही मदं ॥१६१॥य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।पिबेदस्य त्वमीशिषे ॥१६२॥योगेयोगे तवस्तरं वाजेवाजे हवामहे ।सखाय इन्द्रमूतये ॥१६३॥आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।सखायः स्तोमवाहसः ॥१६४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP