संस्कृत सूची|संस्कृत साहित्य|वेदः|सामवेदः|पूर्वार्चिकः|छन्द आर्चिकः - द्वितीयप्रपाठकः| द्वितीया दशतिः छन्द आर्चिकः - द्वितीयप्रपाठकः प्रथमा दशतिः द्वितीया दशतिः तृतीया दशतिः चतुर्थी दशतिः पञ्चमी दशतिः षष्ठी दशतिः सप्तमी दशतिः अष्टमी दशतिः अष्टमी दशतिः दशमी दशतिः द्वितीयप्रपाठकः - द्वितीया दशतिः यज्ञ, अनुष्ठान आणि हवन संबंधीचे मन्त्र सामवेदात सांगितले आहेत. सर्व वेदांमध्ये हा सर्वात छोटा वेद आहे. Tags : dharmasamavedvedधर्मवेदसंस्कृतसामवेद द्वितीया दशतिः Translation - भाषांतर प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।उपस्तुतासो अग्नये ॥१०७॥प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः ।यस्य त्वं सख्यमाविथ ॥१०८॥तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।देवत्रा हव्यमूहिषे ॥१०९॥मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः ।यः सुहोता स्वध्वरः ॥११०॥भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।भद्रा उत प्रशस्तयः ॥१११॥यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यं ।अस्य यज्ञस्य सुक्रतुं ॥११२॥तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणं ।मन्युं जनस्य दूढ्यं ॥११३॥यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे ।विश्वेदग्निः प्रति रक्षांसि सेधति ॥११४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP