संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|नारायणीय| भाग ४ नारायणीय भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ नारायणीय - भाग ४ "नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते. Tags : epicnarayan bhattapoemकाव्यनारायणभट्टनारायणीयमहाकाव्यसंस्कृत भाग ४ Translation - भाषांतर ४-१६-१-१ दशो विरिञ्चतनयोऽथ मनोस्तनूजां४-१६-१-२ लब्ध्वा प्रसूतिमिह षोडश चाप कन्याः ।४-१६-१-३ धर्मे त्रयोदश ददौ पिऋषु स्वधां च४-१६-१-४ स्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥४-१६-२-१ मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तं४-१६-२-२ नारायणं नरसखं महितानुभावं ।४-१६-२-३ यज्जन्मनि प्रमुदिताः कृततुर्यघोषाः४-१६-२-४ पुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ॥४-१६-३-१ दैत्यं सहस्रकवचं कवचैः परीतं४-१६-३-२ साहस्रवत्सरतपस्समराभिलव्यैः ।४-१६-३-३ पर्यायनीर्मिततपस्समरौ भवन्तौ४-१६-३-४ शिष्टैककङ्कटममुं न्यहतां सललिं ॥४-१६-४-१ अन्वाचरन्नुपदिशन्नपि मोक्षधर्मं४-१६-४-२ त्वं भ्रातृमान्बदरिकाश्रममध्यवात्सीः ।४-१६-४-३ शक्रोऽथ ते शमतपोबलनिस्सहात्मा४-१६-४-४ दिव्याङ्गनापरिवृतं प्रजिघाय मारं ॥४-१६-५-१ कामो वसन्तमलयानिलबन्धुशाली४-१६-५-२ कान्ताकटाक्षविशिखैर्विकसद्विलासैः ।४-१६-५-३ विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वां४-१६-५-४ भीतस्त्वायाथ जगदे मृदुहासभाजा ॥४-१६-६-१ भीत्यालमङ्गजवसन्तसुराङ्गना! वो४-१६-६-२ मन्मानसं त्विह जुषुध्वमिति ब्रुवाणः ।४-१६-६-३ त्वं विस्मयेन परितः स्तुवतामथैषां४-१६-६-४ प्रदर्शयः स्वपरिचारककातराक्षीः ॥४-१६-७-१ सम्मोहनाय मिलिता मदनादय्स्ते४-१६-७-२ त्वद्दासिकापरिमलैः किल मोहमापुः ।४-१६-७-३ दत्तां त्वया च जगृहुस्त्रपयैव सर्व-४-१६-७-४ स्वर्वासिगर्वशमनीं पुनरुर्वशीं तां ॥४-१६-८-१ दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रः४-१६-८-२ पर्याकुलोऽजानि भवन्महिमावमर्शात् ।४-१६-८-३ एवं प्रशान्तरमणीयतरोऽवतारस्४-१६-८-४ त्वत्तोऽधिको वरद! कृष्णतनुस्त्वमेव ॥४-१६-९-१ दक्षस्तु धातुरतिलालनया रजोन्धो४-१६-९-२ नात्यादृतस्त्वयि च कष्टमशान्तिरासीत् ।४-१६-९-३ येन व्यन्रुन्ध स भवत्तनुमेव शर्वं४-१६-९-४ यज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥४-१६-१०-१ क्रुद्धेशमर्दितमखः स तु कृत्तशीर्षो४-१६-१०-२ देवप्रसादितहरादथ लब्धजीवः ।४-१६-१०-३ त्वत्पूरितक्रतुवरः पुनराप शान्तिं४-१६-१०-४ स त्वं प्रशान्तिकर! पाहि मरुत्पुरेश्! ॥४-१७-१-१ उत्तानपादनृपतेर्मनुनन्दनस्य४-१७-१-२ जाया बभूव सुरुचिर्नितरामभीष्टा ।४-१७-१-३ अन्या सुनीतिरिति भर्तुनराद्दता सा४-१७-१-४ त्वामेव नित्यमगतिः शरणं गताभूत् ॥४-१७-२-१ अङ्के पितुः सुरुचिपुत्रकमुत्रमं तं४-१७-२-२ दृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् ।४-१७-२-३ आचिक्षिपे किल शिशुः सुतरां सुरुच्या४-१७-२-४ दुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥४-१७-३-१ त्वन्मोहिते पितरि पश्यति दारवश्ये४-१७-३-२ दूरं दुरुक्तिनिहतः स गतो निजाम्बां ।४-१७-३-३ सापि स्वकर्मगतिसन्तरणाय पुंसां४-१७-३-४ त्वत्पादमेव शरणं शिशवे शशंस ॥४-१७-४-१ आकर्ण्य सोऽपि भवदर्चनिश्चितात्मा४-१७-४-२ मानी निरेत्य नगरात्किल पञ्चवर्षः ।४-१७-४-३ सन्दृष्टनारदनिवेदितमन्त्रमार्गस्४-१७-४-४ त्वामारराध तपसा मधुकाननान्ते ॥४-१७-५-१ ताते विषण्णहृदये नगरीं गतेन४-१७-५-२ श्रीनारदेन परिसान्त्वितचित्तवृत्तौ ।४-१७-५-३ बालस्त्वदर्पितमनाः क्रमवर्धितेन४-१७-५-४ निन्ये कठोरतपसा किल पञ्च मासान् ॥४-१७-६-१ तावत्तपोबलनिरुच्छ्वसिते दिगन्ते४-१७-६-२ देवार्थितस्त्वमुदयत्करुणार्द्रचेताः ।४-१७-६-३ त्वद्रूपचिद्रसनिलीनमतेः पुरस्ता-४-१७-६-४ दाविर्बभूविथ विभो! गरुडाधिरूढः ॥४-१७-७-१ त्वद्दर्शनप्रमदभारतरङ्गितं तं४-१७-७-२ दृग्भ्यां निमग्नमिव रूपरसायने ते ।४-१७-७-३ तुष्टूषमाणमवगम्य कपोलदेशे४-१७-७-४ संस्पृष्टवानसि दरेण तथादरेण ॥४-१७-८-१ तावद्विबोधविमलं प्रणुवन्तमेण-४-१७-८-२ माभाषथास्त्वमवगम्य तदीयभावं ।४-१७-८-३ राज्यं चिरं समनुभूय भजस्व भूयः४-१७-८-४ सर्वोत्तरं ध्रुव! पदं विनिवृत्तिहीनं ॥४-१७-९-१ इत्यूचुषि त्वयि गते नृपनन्दनोऽसा-४-१७-९-२ वानन्दिताखिलजनो नगरीमुपेतः ।४-१७-९-३ रेमे चिरं भवदनुग्रहपूर्णकामस्४-१७-९-४ ताते गते च वनमादृतराज्यभारः ॥४-१७-१०-१ यक्षेण देव! निहते पुनरुत्तमेऽस्मिन्४-१७-१०-२ यक्षैः स युद्धनिरतो विरतो मनूक्या ।४-१७-१०-३ शान्त्या प्रसन्नहृदयाद्धनदादुपेतात्४-१७-१०-४ त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥४-१७-११-१ अन्ते भवत्पुरुषनीतविमानयातो४-१७-११-२ मात्रा समं ध्रुवपदे मुदितोऽयमास्ते ।४-१७-११-३ एवं स्वभृत्यजनपालनलोलधीस्त्वं४-१७-११-४ वातालयाधिप! निरुन्धि ममामयौघान् ॥४-१८-१-१ जातस्य ध्रुवकुल एव तुङ्गकीर्ते-४-१८-१-२ रङ्गस्य व्यजनि सुतः स वेननामा ।४-१८-१-३ यद्दोषव्यथितमतिः स राजवर्य-४-१८-१-४ स्त्वत्पादे विहितमना वनं गतोऽभूत् ॥४-१८-२-१ पापोऽपि क्षितितलपालनाय वेनः४-१८-२-२ पौराद्यैरुपनिहितः कठिरवीर्यः ।४-१८-२-३ सर्वेभ्यो निजबलमेव सम्प्रशंसन्४-१८-२-४ भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥४-१८-३-१ सम्प्राप्ते हितकथनाय तापसौधे४-१८-३-२ मत्तोऽन्यो भवनपतिर्न कश्चनेति ।४-१८-३-३ त्वन्निन्दावचनपरो मुनीश्वरैस्तैः४-१८-३-४ शापाग्नौ शलभदशामनायि वेनः ॥४-१८-४-१ तन्नाशात्खलजनभीरुकैर्मुनीन्द्रै-४-१८-४-२ स्तन्मात्रा चिरपरिरक्षिते तदङ्गे ।४-१८-४-३ त्यक्ताघे परिमथितादथोरुदण्डाद्४-१८-४-४ दोर्दण्डे परिमथिते त्वमाविरासीः ॥४-१८-५-१ विख्यातः पृथुरिति तापसोपदिष्टैः४-१८-५-२ सूताद्यैः परिणुतभाविभूरिवीर्यः ।४-१८-५-३ वेनार्त्या कबलितसम्पदं धरित्री-४-१८-५-४ माक्रान्तां निजधनुषा समामकार्षी ॥४-१८-६-१ भूयस्तां निजकुलमुख्यवत्सयुक्तैर्४-१८-६-२ देवाद्यैः समुचितचारुभाजनेसु ।४-१८-६-३ अन्नादीन्यभिलषितानि यानि तानि४-१८-६-४ स्वच्छन्दं सुरभितनूमदूदुहस्त्वं ॥४-१८-७-१ आत्मानं यहति सखैस्त्वयि त्रिधाम-४-१८-७-२ न्नारब्धे शततमवाजिमेधयागे ।४-१८-७-३ स्पर्धालुः शतमख एत्य नीचवेषो४-१८-७-४ हृत्वाश्वं तव तनयात्पराजितोऽभूत् ॥४-१८-८-१ देवेन्द्रं मुहुरिति वाजिनं हरन्तं४-१८-८-२ वह्नौ तं मुनवरमण्डले जुहूषौ ।४-१८-८-३ रुन्धाने कमलभवे क्रतोः समाप्तौ४-१८-८-४ साक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वं ॥४-१८-९-१ तद्दतं वरमुपलभ्य भक्तिमेकां४-१८-९-२ गङ्गान्ते विहितपदः कदापि देव! ।४-१८-९-३ सत्रस्थं मुनिनिवहं हितानि शंस-४-१८-९-४ न्नैक्षिष्ठाः सनकमुखान्मुनीन्पुरस्तात् ॥४-१८-१०-१ विज्ञानं सनकमुखोदितं दधानः४-१८-१०-२ स्वात्मानं स्वयमगमो वनान्तसेवी ।४-१८-१०-३ तत्तादृक्पृथुवपुरीश! सत्वरं मे४-१८-१०-४ रोगौघं प्रशमय वातगेहवासिन्! ॥४-१९-१-१ पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतद्रुतौ ।४-१९-१-२ प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥४-१९-२-१ पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्यानिरता दशापि ते ।४-१९-२-२ पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरं ॥४-१९-३-१ तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः ।४-१९-३-२ प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तव स्तवं ॥४-१९-४-१ स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः ।४-१९-४-२ भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ॥४-१९-५-१ तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः ।४-१९-५-२ पितापि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥४-१९-६-१ कृपाबलेनैव ततः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः ।४-१९-६-२ विराजिचक्रादिवरायुधांशुभिर्भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥४-१९-७-१ प्रचेतसां तावदयाचतामपि त्वमेव कारुण्यभराद्वारानदाः ।४-१९-७-२ भवद्विचिन्तापि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥४-१९-८-१ अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीं ।४-१९-८-२ सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥४-१९-९-१ ततश्च ते भूतलरोधिनस्तरून्क्रूधा दहन्तो द्रुहिणेन वारिताः ।४-१९-९-२ द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥४-१९-१०-१ अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धया धिया ।४-१९-१०-२ अवापुरानन्दपदं तथाविधुस्त्वमीश! वातालयनाथ! पाहि मां ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP