संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|ऐश्वर्य कादम्बिनी| चतुर्थी वृष्टिः ऐश्वर्य कादम्बिनी प्रथमा वृष्टिः द्वितीया वृष्टिः तृतीया वृष्टिः चतुर्थी वृष्टिः पञ्चमी वृष्टिः षष्ठी वृष्टिः सप्तमी वृष्टिः ऐश्वर्य कादम्बिनी - चतुर्थी वृष्टिः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. ऐश्वर्य कादम्बिनी काव्याचे कवी आहेत,श्रीबलदेवविद्याभूषण. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत चतुर्थी वृष्टिः Translation - भाषांतर बृहद्वने यस्य बृहत्कपाटंपुरं बृहत्सौधवरं बभासे ।अजन्मनो जन्म हरस्य यस्मिन्बभूव जन्म प्रगुणस्य विष्णोः ॥१॥भानुभूपभवनं यदन्तिके कान्तिकन्दलसुपुष्कलं बभौ ।प्रेयसी व्रजविधोर्महेश्वरीसम्बभूव किल यत्र राधिका ॥२॥नन्दीश्वराद्रेर्मणिचित्रसानोरूपेत्यकायां बहुनिर्झरस्य ।पुष्पैः फलैश्चातिमनोहरस्यपुरं व्रजेशस्य महत्तदासीत॥३॥यस्मिन्विचित्रैर्मणिभिः प्रणीताभान्ति स्म हर्म्याट्टकनिष्कुटादयः ।समानसूत्रैर्विहिता विपण्यः कूपाः सरस्यश्च तथाविधास्ताः ॥४॥यदहरन्मनोरत्नगोपुरैर्उरुभिरष्टभिश्चारुगोपुरैः ।रुरुचिरे भृशं येषु रक्षिणःकनकभूषणा भूपपक्षिणः ॥५॥यन्मध्यमं व्रजपतेः किल सप्तभूमंसौधराजविमलं विलसत्पताकम् ।वैदूर्यविद्रुममसारमणिप्रणीतस्तम्भालिजालवलभीकुलसत्वलीकम् ॥६॥निरस्तमायापि विचित्रमायावासो रमाया निखिलार्चितस्य ।सभाः सभानन्दनृपस्य यस्मिन्समाजिता शिल्पिवरैरदीपि ॥७॥इन्द्रगर्वहरपर्वभूषितैर्यस्य राजपुरुषैरधिष्ठिताः ।तोरणाश्च कनकादिनिर्मिताःप्रोज्जिहानमणितोरणावभूः ॥८॥नलिकावलिवर्त्मभिर्जलौघैःकटकस्थात्सरसः समुत्पतद्भिः ।सदनेषु सनिष्कुटेषु यस्मिन्जलयन्त्राण्युदगुर्विचित्रभानि ॥९॥वैदूर्यवज्रादिविनिर्मितानिस्फुरत्पताकान्यनिशोत्सवानि ।सद्मानि पद्ममहिलस्य विष्णोर्बभुः प्रभूतद्युतिमन्तिर्यस्मिन॥१०॥स्थिरचयो बृहद्वलयोच्छ्रितः कपिशिरश्चयै रतिमञ्जुअलः ।गिरिसराम्बुभृत्परिखाञ्चितोयदमितोऽलसद्वरणो वरः ॥११॥बन्धनक्रशिमकर्दमशब्दाःकेशमध्यमृगनाभिषु यस्मिन।चामरादिषु च दण्डनिनादः सोर्मितारतसरितसरित्सरसीषु ॥१२॥तीक्ष्णताकठिनते युवतीनांवर्णितकिलकटाक्षकुचेषु ।छिद्रिताकुटिलते क्रमतस्तेमौक्तिकेषु च कचेषु यत्र ॥१३॥पुरं बृहत्सानुगिरेरुपान्तेहरेः प्रियं तादृशमुद्बभासे ।सरस्वतीजुष्ठमधि प्रवीरंयदध्यतिष्ठद्वृषभानुभूपः ॥१४॥इत्यैश्वर्यकादम्बिन्यां श्रीनन्दनृपराजधानीवर्णनं नामचतुर्थी वृष्टिः॥४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP