अथर्ववेदः - काण्डं १५

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


१५,१।१अ - व्रात्य आसीद् ईयमान एव स प्रजापतिं सम् अइरयत् ॥१॥

१५,१।२अ - स प्रजापतिः सुवर्णम् आत्मन्न् अपश्यत् तत् प्राजनयत् ॥२॥

१५,१।३अ - तद् एकम् अभवत् तल् ललामम् अभवत् तन् महद् अभवत् तज् ज्येष्ठम् अभवत् तद् ब्रह्माभवत् तत् तपो 'भवत् तत् सत्यम् अभवत् तेन प्राजायत ॥३॥

१५,१।४अ - सो 'वर्धत स महान् अभवत् स महादेवो 'भवत् ॥४॥

१५,१।५अ - स देवानाम् ईशां पर्य् अइत् स ईशानो 'भवत् ॥५॥

१५,१।६अ - स एकव्रात्यो 'भवत् स धनुर् आदत्त तद् एवेन्द्रधनुः ॥६॥

१५,१।७अ - नीलम् अस्योदरं लोहितं पृष्ठम् ॥७॥

१५,१।८अ - नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥८॥


१५,२।१[२।१]अ - स उद् अतिष्ठत् स प्राचीं दिशम् अनु व्य् अचलत् । [१]
१५,२।१[२।२]ब् - तं बृहच् च रथन्तरं चादित्याश् च विश्वे च देवा अनुव्यचलन् । [२]
१५,२।१[२।३]च् - बृहते च वै स रथन्तराय चादित्येभ्यश् च विश्वेभ्यश् च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति । [३]
१५,२।१[२।४]द् - बृहतश् च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [४]
१५,२।१[२।५]ए - तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासो 'हर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । [५]
१५,२।१[२।६-७]f - भूतं च भविष्यच् च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ । [६-७]
१५,२।१[२।८]ग् - अइनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ॥१॥ [८]

१५,२।२[२।९]अ - स उद् अतिष्ठत् स दक्षिणां दिशम् अनु व्य् अचलत् । [९]
१५,२।२[२।१०]ब् - तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश् च यजमानश् च पशवश् चानुव्यचलन् । [१०]
१५,२।२[२।११]च् - यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश् चा वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति । [११]
१५,२।२[२।१२]द् - यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१२]
१५,२।२[२।१३]ए - तस्य दक्षिणायां दिश्य् उषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासो 'हर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । [१३]
१५,२।२[२।१४]f - अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ ।
१५,२।२[२।१४]ग् - अइनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ॥२॥ [१४]

१५,२।३[२।१५]अ - स उद् अतिष्ठत् स प्रतीचीं दिशम् अनु व्य् अचलत् । [१५]
१५,२।३[२।१६]ब् - तं वैरूपं च वैराजं चापश् च वरुणश् च राजानुव्यचलन् । [१६]
१५,२।३[२।१७]च् - वैरूपाय च वै स वैराजाय चाद्भ्यश् च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति । [१७]
१५,२।३[२।१८]द् - वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१८]
१५,२।३[२।१९]ए - तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासो 'हर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । [१९]
१५,२।३[२।२०]f - अहश् च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ ।
१५,२।३[२।२०]ग् - अइनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ॥३॥ [२०]

१५,२।४[२।२१]अ - स उद् अतिष्ठत् स उदीचीं दिशम् अनु व्य् अचलत् । [२१]
१५,२।४[२।२२]ब् - तं श्यैतं च नौधसं च सप्तर्षयश् च सोमश् च राजानुव्यचलन् । [२२]
१५,२।४[२।२३]च् - श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश् च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यम् उपवदति । [२३]
१५,२।४[२।२४]द् - श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [२४]
१५,२।४[२।२५]ए - तस्योदीच्यां दिशि विद्युत् पुंश्चली स्तनयित्नुर् मागधो विज्ञानं वासो 'हर् उष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर् मणिः । [२५]
१५,२।४[२।२६-२७]f - श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश् च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश् च यशश् च पुरःसरौ । [२६-२७]
१५,२।४[२।२८]ग् - अइनं कीर्तिर् गछत्य् आ यशो गछति य एवं वेद ॥४॥ [२८]


१५,३।१अ - स संवत्सरम् ऊर्ध्वो 'तिष्ठत् तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥

१५,३।२अ - सो 'ब्रवीद् आसन्दीं मे सं भरन्त्व् इति ॥२॥

१५,३।३अ - तस्मै व्रात्यायासन्दीं सम् अभरन् ॥३॥

१५,३।४अ - तस्या ग्रीष्मश् च वसन्तश् च द्वौ पादाव् आस्तां शरच् च वर्षाश् च द्वौ ॥४॥

१५,३।५अ - बृहच् च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥

१५,३।६अ - ऋचः प्राञ्चस् तन्तवो यजूंषि तिर्यञ्चः ॥६॥

१५,३।७अ - वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥

१५,३।८अ - सामासाद उद्गीथो 'पश्रयः ॥८॥

१५,३।९अ - ताम् आसन्दीं व्रात्य आरोहत् ॥९॥

१५,३।१०अ - तस्य देवजनाः परिष्कन्दा आसन्त् संकल्पाः प्रहाय्या विश्वानि भूतान्य् उपसदः ॥१०॥

१५,३।११अ - विश्वान्य् एवास्य भूतान्य् उपसदो भवन्ति य एवं वेद ॥११॥


१५,४।१[४।१]अ - तस्मै प्राच्या दिशः । [१]
१५,४।१[४।२]ब् - वासन्तौ मासौ गोप्ताराव् अकुर्वन् बृहच् च रथन्तरं चानुष्ठातारौ । [२]
१५,४।१[४।३]च् - वासन्ताव् एनं मासौ प्राच्या दिशो गोपायतो बृहच् च रथन्तरं चानु तिष्ठतो य एवं वेद ॥१॥ [३]

१५,४।२[४।४]अ - तस्मै दक्षिणाया दिशः । [४]
१५,४।२[४।५]ब् - ग्रैष्मौ मासौ गोप्ताराव् अकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ । [५]
१५,४।२[४।६]च् - ग्रैष्माव् एनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥२॥ [६]

१५,४।३[४।७]अ - तस्मै प्रतीच्या दिशः । [७]
१५,४।३[४।८]ब् - वार्षिकौ मासौ गोप्ताराव् अकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । [८]
१५,४।३[४।९]च् - वार्षिकाव् एनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥३॥ [९]

१५,४।४[४।१०]अ - तस्मा उदीच्या दिशः । [१०]
१५,४।४[४।११]ब् - शारदौ मासौ गोप्ताराव् अकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ । [११]
१५,४।४[४।१२]च् - शारदाव् एनं मासाव् उदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥४॥ [१२]

१५,४।५[४।१३]अ - तस्मै ध्रुवाया दिशः । [१३]
१५,४।५[४।१४]ब् - हैमनौ मासौ गोप्ताराव् अकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । [१४]
१५,४।५[४।१५]च् - हैमनाव् एनं मासौ ध्रुवाया दिशो गोपायतो भूमिश् चाग्निश् चानु तिष्ठतो य एवं वेद ॥५॥ [१५]

१५,४।६[४।१६]अ - तस्मा ऊर्ध्वाया दिशः । [१६]
१५,४।६[४।१७]ब् - शैशिरौ मासौ गोप्ताराव् अकुर्वन् दिवं चादित्यं चानुष्ठातारौ । [१७]
१५,४।६[४।१८]च् - शैशिराव् एनं मासाव् ऊर्ध्वाया दिशो गोपायतो द्यौश् चादित्यश् चानु तिष्ठतो य एवं वेद ॥६॥ [१८]


१५,५।१[५।१]अ - तस्मै प्राच्या दिशो अन्तर्देशाद् भवम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [१]
१५,५।१[५।२-३]ब् - भव एनम् इष्वासः प्राच्या दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१॥ [२-३]

१५,५।२[५।४]अ - तस्मै दक्षिणाया दिशो अन्तर्देशाच् छर्वम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [४]
१५,५।२[५।५]ब् - शर्व एनम् इश्वासो दक्षिणाया दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥२॥ [५]

१५,५।३[५।६]अ - तस्मै प्रतीच्या दिशो अन्तर्देशात् पशुपतिम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [६]
१५,५।३[५।७]ब् - पशुपतिर् एनम् इष्वासः प्रतीच्या दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥३॥ [७]

१५,५।४[५।८]अ - तस्मा उदीच्या दिशो अन्तर्देशाद् उग्रं देवम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [८]
१५,५।४[५।९]ब् - उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥४॥ [९]

१५,५।५[५।१०]अ - तस्मै ध्रुवाया दिशो अन्तर्देशाद् रुद्रम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [१०]
१५,५।५[५।११]ब् - रुद्र एनम् इष्वासो ध्रुवाया दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥ [११]

१५,५।६[५।१२]अ - तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [१२]
१५,५।६[५।१३]ब् - महादेव एनम् इष्वास ऊर्ध्वाया दिशो अन्तर्देशाद् अनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥६॥ [१३]

१५,५।७[५।१४]अ - तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानम् इष्वासम् अनुष्ठातारम् अकुर्वन् । [१४]
१५,५।७[५।१५-१६]ब् - ईशान एनम् इष्वासः सर्वेभ्यो अन्तर्देशेभ्यो 'नुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥ [१५-१६]


१५,६।१[६।१]अ - स ध्रुवां दिशम् अनु व्य् अचलत् । [१]
१५,६।१[६।२]ब् - तं भूमिश् चाग्निश् चौषधयश् च वनस्पतयश् च वानस्पत्याश् च वीरुधश् चानुव्यचलन् । [२]
१५,६।१[६।३]च् - भूमेश् च वै सो 'ग्नेश् चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ॥१॥ [३]

१५,६।२[६।४]अ - स ऊर्ध्वां दिशम् अनु व्य् अचलत् । [४]
१५,६।२[६।५]ब् - तम् ऋतं च सत्यं च सूर्यश् च चन्द्रश् च नक्षत्राणि चानुव्यचलन् । [५]
१५,६।२[६।६]च् - ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥२॥ [६]

१५,६।३[६।७]अ - स उत्तमां दिशम् अनु व्य् अचलत् । [७]
१५,६।३[६।८]ब् - तम् ऋचश् च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [८]
१५,६।३[६।९]च् - ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश् च प्रियं धाम भवति य एवं वेद ॥३॥ [९]

१५,६।४[६।१०]अ - स बृहतीं दिशम् अनु व्य् अचलत् । [१०]
१५,६।४[६।११]ब् - तम् इतिहासश् च पुराणं च गाथाश् च नाराशंसीश् चानुव्यचलन् । [११]
१५,६।४[६।१२]च् - इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥४॥ [१२]

१५,६।५[६।१३]अ - स परमां दिशम् अनु व्य् अचलत् । [१३]
१५,६।५[६।१४]ब् - तम् आहवनीयश् च गार्हपत्यश् च दक्षिणाग्निश् च यज्ञश् च यजमानश् च पशवश् चानुव्यचलन् । [१४]
१५,६।५[६।१५]च् - आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश् च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥५॥ [१५]

१५,६।६[६।१६]अ - सो 'नादिष्टां दिशम् अनु व्य् अचलत् । [१६]
१५,६।६[६।१७]ब् - तम् ऋतवश् चार्तवाश् च लोकाश् च लौक्याश् च मासाश् चार्धमासाश् चाहोरात्रे चानुव्यचलन् । [१७]
१५,६।६[६।१८]च् - ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश् च प्रियं धाम भवति य एवं वेद ॥६॥ [१८]

१५,६।७[६।१९]अ - सो 'नावृत्तां दिशम् अनु व्य् अचलत् ततो नावर्त्स्यन्न् अमन्यत । [१९]
१५,६।७[६।२०]ब् - तं दितिश् चादितिश् चेढा चेन्द्राणी चानुव्यचलन् । [२०]
१५,६।७[६।२१]च् - दितेश् च वै सो 'दितेश् चेढायाश् चेन्द्राण्याश् च प्रियं धाम भवति य एवं वेद ॥७॥ [२१]

१५,६।८[६।२२]अ - स दिशो 'नु व्य् अचलत् तं विराढ् अनु व्य् अचलत् सर्वे च देवाः सर्वाश् च देवताः । [२२]
१५,६।८[६।२३]ब् - विराजश् च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥८॥ [२३]

१५,६।९[६।२४]अ - स सर्वान् अन्तर्देशान् अनु व्य् अचलत् । [२४]
१५,६।९[६।२५]ब् - तं प्रजापतिश् च परमेष्ठी च पिता च पितामहश् चानुव्यचलन् । [२५]
१५,६।९[६।२६]च् - प्रजापतेश् च वै स परमेष्ठिनश् च पितुश् च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥९॥ [२६]


१५,७।१अ - स महिमा सद्रुर् भूत्वान्तं पृथिव्या अगछत् समुद्रो 'भवत् ॥१॥

१५,७।२अ - तं प्रजापतिश् च परमेष्ठी च पिता च पितामहश् चापश् च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥२॥

१५,७।३अ - अइनम् आपो गछन्त्य् अइनं श्रद्धा गछत्य् अइनं वर्षं गछति य एवं वेद ॥३॥

१५,७।४अ - तं श्रद्धा च यज्ञश् च लोकश् चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥४॥

१५,७।५अ - अइनं श्रद्धा गछत्य् अइनं यज्ञो गछत्य् अइनं लोको गछत्य् अइनम् अन्नं गछत्य् अइनम् अन्नाद्यं गछति य एवं वेद ॥५॥


१५,८।१अ - सो 'रज्यत ततो राजन्यो 'जायत ॥१॥

१५,८।२अ - स विशः सबन्धून् अन्नम् अन्नाद्यम् अभ्युदतिष्ठत् ॥२॥

१५,८।३अ - विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥३॥


१५,९।१अ - स विशो 'नु व्य् अचलत् ॥१॥

१५,९।२अ - तं सभा च समितिश् च सेना च सुरा चानुव्यचलन् ॥२॥

१५,९।३अ - सभायाश् च वै स समितेश् च सेनायाश् च सुरायाश् च प्रियं धाम भवति य एवं वेद ॥३॥


१५,१०।१अ - तद् यस्यैवं विद्वान् व्रात्यो राज्ञो 'तिथिर् गृहान् आगछेत् ॥१॥

१५,१०।२अ - श्रेयांसम् एनम् आत्मनो मानयेत् तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥२॥

१५,१०।३अ - अतो वै ब्रह्म च क्षत्रं चोद् अतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥३॥

१५,१०।४अ - बृहस्पतिम् एव ब्रह्म प्रविशत्व् इन्द्रं क्षत्रं तथा वा इति ॥४॥

१५,१०।५अ - अतो वै बृहस्पतिम् एव ब्रह्म प्राविशद् इन्द्रं क्षत्रम् ॥५॥

१५,१०।६अ - इयं वा उ पृथिवी बृहस्पतिर् द्यौर् एवेन्द्रः ॥६॥

१५,१०।७अ - अयं वा उ अग्निर् ब्रह्मासाव् आदित्यः क्षत्रम् ॥७॥

१५,१०।८अ - अइनं ब्रह्म गछति ब्रह्मवर्चसी भवति ॥८॥

१५,१०।९अ - यः पृथिवीं बृहस्पतिम् अग्निं ब्रह्म वेद ॥९॥

१५,१०।१०अ - अइनम् इन्द्रियं गछतीन्द्रियवान् भवति ॥१०॥

१५,१०।११अ - य आदित्यं क्षत्रं दिवम् इन्द्रं वेद ॥११॥


१५,११।१अ - तद् यस्यैवं विद्वान् व्रात्यो 'तिथिर् गृहान् आगछेत् ॥१॥

१५,११।२अ - स्वयम् एनम् अभ्युदेत्य ब्रूयाद् व्रात्य क्वावात्सीर् व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस् तथास्तु व्रात्य यथा ते निकामस् तथास्त्व् इति ॥२॥

१५,११।३अ - यद् एनम् आह व्रात्य क्वावात्सीर् इति पथ एव तेन देवयानान् अव रुन्धे ॥३॥

१५,११।४अ - यद् एनम् आह व्रात्योदकम् इत्य् अप एव तेनाव रुन्धे ॥४॥

१५,११।५अ - यद् एनम् आह व्रात्य तर्पयन्त्व् इति प्राणम् एव तेन वर्षीयांसं कुरुते ॥५॥

१५,११।६अ - यद् एनम् आह व्रात्य यथा ते प्रियं तथास्त्व् इति प्रियम् एव तेनाव रुन्धे ॥६॥

१५,११।७अ - अइनं प्रियं गछति प्रियः प्रियस्य भवति य एवं वेद ॥७॥

१५,११।८अ - यद् एनम् आह व्रात्य यथा ते वशस् तथास्त्व् इति वशम् एव तेनाव रुन्धे ॥८॥

१५,११।९अ - अइनं वशो गछति वशी वशिनां भवति य एवं वेद ॥९॥

१५,११।१०अ - यद् एनम् आह व्रात्य यथा ते निकामस् तथास्त्व् इति निकामम् एव तेनाव रुन्धे ॥१०॥

१५,११।११अ - अइनं निकामो गछति निकामे निकामस्य भवति य एवं वेद ॥११॥


१५,१२।१अ - तद् यस्यैवं विद्वान् व्रात्य उद्धृतेष्व् अग्निष्व् अधिश्रिते 'ग्निहोत्रे 'तिथिर् गृहान् आगछेत् ॥१॥

१५,१२।२अ - स्वयम् एनम् अभ्युदेत्य ब्रूयाद् व्रात्याति सृज होष्यामीति ॥२॥

१५,१२।३अ - स चातिसृजेज् जुहुयान् न चातिसृजेन् न जुहुयात् ॥३॥

१५,१२।४अ - स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥

१५,१२।५अ - प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥

१५,१२।६अ - न देवेष्व् आ वृश्चते हुतम् अस्य भवति ॥६॥

१५,१२।७अ - पर्य् अस्यास्मिंल् लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥

१५,१२।८अ - अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥

१५,१२।९अ - न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥

१५,१२।१०अ - आ देवेषु वृश्चते अहुतम् अस्य भवति ॥१०॥

१५,१२।११अ - नास्यास्मिंल् लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥


१५,१३।१[१३।१]अ - तद् यस्यैवं विद्वान् व्रात्य एकां रात्रिम् अतिथिर् गृहे वसति । [१]
१५,१३।१[१३।२]ब् - ये पृथिव्यां पुण्या लोकास् तान् एव तेनाव रुन्धे ॥१॥ [२]

१५,१३।२[१३।३]अ - तद् यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिम् अतिथिर् गृहे वसति । [३]
१५,१३।२[१३।४]ब् - ये 'न्तरिक्षे पुण्या लोकास् तान् एव तेनाव रुन्धे ॥२॥ [४]
१५,१३।३[१३।५]अ - तद् यस्यैवं विद्वान् व्रात्यस् तृतीयां रात्रिम् अतिथिर् गृहे वसति । [५]
१५,१३।३[१३।६]ब् - ये दिवि पुण्या लोकास् तान् एव तेनाव रुन्धे ॥३॥ [६]

१५,१३।४[१३।७]अ - तद् यस्यैवं विद्वान् व्रात्यश् चतुर्थीं रात्रिम् अतिथिर् गृहे वसति । [७]
१५,१३।४[१३।८]ब् - ये पुण्यानां पुण्या लोकास् तान् एव तेनाव रुन्धे ॥४॥ [८]

१५,१३।५[१३।९]अ - तद् यस्यैवं विद्वान् व्रात्यो 'परिमिता रात्रीर् अतिथिर् गृहे वसति । [९]
१५,१३।५[१३।१०]ब् - य एवापरिमिताः पुण्या लोकास् तान् एव तेनाव रुन्धे ॥५॥ [१०]

१५,१३।६[१३।११]अ - अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्य् अतिथिर् गृहान् आगछेत् ॥६॥ [११]

१५,१३।७[१३।१२]अ - कर्षेद् एनं न चैनं कर्षेत् ॥७॥ [१२]

१५,१३।८[१३।१३]अ - अस्यै देवताया उदकं याचामीमां देवतां वासय इमाम् इमां देवतां परि वेवेष्मीत्य् एनं परि वेविष्यात् ॥८॥ [१३]

१५,१३।९[१३।१४]अ - तस्याम् एवास्य तद् देवतायां हुतं भवति य एवं वेद ॥९॥ [१४]


१५,१४।१[१४।१]अ - स यत् प्राचीं दिशम् अनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनो 'न्नादं कृत्वा । [१]
१५,१४।१[१४।२]ब् - मनसान्नादेनान्नम् अत्ति य एवं वेद ॥१॥ [२]

१५,१४।२[१४।३]अ - स यद् दक्षिणां दिशम् अनु व्यचलद् इन्द्रो भूत्वानुव्यचलद् बलम् अन्नादं कृत्वा । [३]
१५,१४।२[१४।४]ब् - बलेनान्नादेनान्नम् अत्ति य एवं वेद ॥२॥ [४]

१५,१४।३[१४।५]अ - स यत् प्रतीचीं दिशम् अनु व्यचलद् वरुणो राजा भूत्वानुव्यचलद् अपो 'न्नादीः कृत्वा । [५]
१५,१४।३[१४।६]ब् - अद्भिर् अन्नादीभिर् अन्नम् अत्ति य एवं वेद ॥३॥ [६]

१५,१४।४[१४।७]अ - स यद् उदीचीं दिशम् अनु व्यचलत् सोमो राजा भूत्वानुव्यचलत् सप्तर्षिभिर् हुत आहुतिम् अन्नादीं कृत्वा । [७]
१५,१४।४[१४।८]ब् - आहुत्यान्नाद्यान्नम् अत्ति य एवं वेद ॥४॥ [८]

१५,१४।५[१४।९]अ - स यद् ध्रुवां दिशम् अनु व्यचलद् विष्णुर् भूत्वानुव्यचलद् विराजम् अन्नादीं कृत्वा । [९]
१५,१४।५[१४।१०]ब् - विराजान्नाद्यान्नम् अत्ति य एवं वेद ॥५॥ [१०]

१५,१४।६[१४।११]अ - स यत् पशून् अनु व्यचलद् रुद्रो भूत्वानुव्यचलद् ओषधीर् अन्नादीः कृत्वा । [११]
१५,१४।६[१४।१२]ब् - ओषधीभिर् अन्नादीभिर् अन्नम् अत्ति य एवं वेद ॥६॥ [१२]

१५,१४।७[१४।१३]अ - स यत् पितॄन् अनु व्यचलद् यमो राजा भूत्वानुव्यचलत् स्वधाकारम् अन्नादं कृत्वा । [१३]
१५,१४।७[१४।१४]ब् - स्वधाकारेणान्नादेनान्नम् अत्ति य एवं वेद ॥७॥ [१४]

१५,१४।८[१४।१५]अ - स यन् मनुष्यान् अनु व्यचलद् अग्निर् भूत्वानुव्यचलत् स्वाहाकारम् अन्नादं कृत्वा । [१५]
१५,१४।८[१४।१६]ब् - स्वाहाकारेणान्नादेनान्नम् अत्ति य एवं वेद ॥८॥ [१६]

१५,१४।९[१४।१७]अ - स यद् ऊर्ध्वां दिशम् अनु व्यचलद् बृहस्पतिर् भूत्वानुव्यचलद् वषट्कारम् अन्नादं कृत्वा । [१७]
१५,१४।९[१४।१८]ब् - वषट्कारेणान्नादेनान्नम् अत्ति य एवं वेद ॥९॥ [१८]

१५,१४।१०[१४।१९]अ - स यद् देवान् अनु व्यचलद् ईशानो भूत्वानुव्यचलन् मन्युम् अन्नादं कृत्वा । [१९]
१५,१४।१०[१४।२०]ब् - मन्युनान्नादेनान्नम् अत्ति य एवं वेद ॥१०॥ [२०]

१५,१४।११[१४।२१]अ - स यत् प्रजा अनु व्यचलत् प्रजापतिर् भूत्वानुव्यचलत् प्राणम् अन्नादं कृत्वा । [२१]
१५,१४।११[१४।२२]ब् - प्राणेनान्नादेनान्नम् अत्ति य एवं वेद ॥११॥ [२२]

१५,१४।१२[१४।२३]अ - स यत् सर्वान् अन्तर्देशान् अनु व्यचलत् परमेष्ठी भूत्वानुव्यचलद् ब्रह्मान्नादं कृत्वा । [२३]
१५,१४।१२[१४।२४]ब् - ब्रह्मणान्नादेनान्नम् अत्ति य एवं वेद ॥१२॥ [२४]


१५,१५।१अ - तस्य व्रात्यस्य ॥१॥

१५,१५।२अ - सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥२॥

१५,१५।३अ - यो 'स्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥३॥

१५,१५।४अ - यो 'स्य द्वितीयः प्राणः प्रौडो नामासौ स आदित्यः ॥४॥

१५,१५।५अ - यो 'स्य तृतीयः प्राणो 'भ्यूडो नामासौ स चन्द्रमाः ॥५॥

१५,१५।६अ - यो 'स्य चतुर्थः प्राणो विभूर् नामायं स पवमानः ॥६॥

१५,१५।७अ - यो 'स्य पञ्चमः प्राणो योनिर् नाम ता इमा आपः ॥७॥

१५,१५।८अ - यो 'स्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥८॥

१५,१५।९अ - यो 'स्य सप्तमः प्राणो 'परिमितो नाम ता इमाः प्रजाः ॥९॥


१५,१६।१अ - यो 'स्य प्रथमो 'पानः सा पौर्णमासी ॥१॥

१५,१६।२अ - यो 'स्य द्वितीयो 'पानः साष्टका ॥२॥

१५,१६।३अ - यो 'स्य तृतीयो 'पानः सामावास्या ॥३॥

१५,१६।४अ - यो 'स्य चतुर्थो 'पानः सा श्रद्धा ॥४॥

१५,१६।५अ - यो 'स्य पञ्चमो 'पानः सा दीक्षा ॥५॥

१५,१६।६अ - यो 'स्य षष्ठो 'पानः स यज्ञः ॥६॥

१५,१६।७अ - यो 'स्य सप्तमो 'पानस् ता इमा दक्षिणाः ॥७॥


१५,१७।१अ - यो 'स्य प्रथमो व्यानः सेयं भूमिः ॥१॥

१५,१७।२अ - यो 'स्य द्वितीयो व्यानस् तद् अन्तरिक्षम् ॥२॥

१५,१७।३अ - यो 'स्य तृतीयो व्यानः सा द्यौः ॥३॥

१५,१७।४अ - यो 'स्य चतुर्थो व्यानस् तानि नक्षत्राणि ॥४॥

१५,१७।५अ - यो 'स्य पञ्चमो व्यानस् त ऋतवः ॥५॥

१५,१७।६अ - यो 'स्य षष्ठो व्यानस् त आर्तवाः ॥६॥

१५,१७।७अ - यो 'स्य सप्तमो व्यानः स संवत्सरः ॥७॥

१५,१७।८अ - समानम् अर्थं परि यन्ति देवाः संवत्सरं वा एतद् ऋतवो 'नुपरियन्ति व्रात्यं च ॥८॥

१५,१७।९अ - यद् आदित्यम् अभिसंविशन्त्य् अमावास्यां चैव तत् पौर्णमासीं च ॥९॥

१५,१७।१०अ - एकं तद् एषाम् अमृतत्वम् इत्य् आहुतिर् एव ॥१०॥


१५,१८।१अ - तस्य व्रात्यस्य ॥१॥

१५,१८।२अ - यद् अस्य दक्षिणम् अक्ष्य् असौ स आदित्यो यद् अस्य सव्यम् अक्ष्य् असौ स चन्द्रमाः ॥२॥

१५,१८।३अ - यो 'स्य दक्षिणः कर्णो 'यं सो अग्निर् यो 'स्य सव्यः कर्णो 'यं स पवमानः ॥३॥

१५,१८।४अ - अहोरात्रे नासिके दितिश् चादितिश् च शीर्षकपाले संवत्सरः शिरः ॥४॥

१५,१८।५अ - अह्ना प्रत्यङ् व्रात्यो रात्र्या प्राङ् नमो व्रात्याय ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP