TransLiteral Foundation

अथर्ववेदः - काण्डं १

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  

काण्डं १
१,१।१अ - ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।
१,१।१च् - वाचस् पतिर् बला तेषां तन्वो अद्य दधातु मे ॥१॥

१,१।२अ - पुनर् एहि वचस् पते देवेन मनसा सह ।
१,१।२च् - वसोष् पते नि रमय मय्य् एवास्तु मयि श्रुतम् ॥२॥

१,१।३अ - इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।
१,१।३च् - वाचस् पतिर् नि यछतु मय्य् एवास्तु मयि श्रुतम् ॥३॥

१,१।४अ - उपहूतो वाचस् पतिर् उपास्मान् वाचस्पतिर् ह्वयताम् ।
१,१।४च् - सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥

१,२।१अ - विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।
१,२।१च् - विद्मो ष्व् अस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥

१,२।२अ - ज्याके परि णो नमाश्मानं तन्वं कृधि ।
१,२।२च् - वीढुर् वरीयो 'रातीर् अप द्वेषांस्य् आ कृधि ॥२॥

१,२।३अ - वृक्षं यद् गावः परिषस्वजाना अनुस्फुरं शरं अर्चन्त्य् ऋभुम् ।
१,२।३च् - शरुम् अस्मद् यावय दिद्युम् इन्द्र ॥३॥

१,२।४अ - यथा द्यां च पृथिवीं चान्तस् तिष्ठति तेजनम् ।
१,२।४च् - एवा रोगं चास्रावं चान्तस् तिष्ठतु मुञ्ज इत् ॥४॥

१,३।१अ - विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यं ।
१,३।१च् - तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥१॥

१,३।२अ - विद्मा शरस्य पितरं मित्रं शतवृष्ण्यं ।
१,३।२च् - तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥२॥

१,३।३अ - विद्मा शरस्य पितरं वरुणं शतवृष्ण्यं ।
१,३।३च् - तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥३॥

१,३।४अ - विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यं ।
१,३।४च् - तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥४॥

१,३।५अ - विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यं ।
१,३।५च् - तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष् टे अस्तु बाल् इति ॥५॥

१,३।६अ - यद् आन्त्रेषु गवीन्योर् यद् वस्ताव् अधि संश्रितम् ।
१,३।६च् - एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ॥६॥

१,३।७अ - प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव ।
१,३।७च् - एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ॥७॥

१,३।८अ - विषितं ते वस्तिबिलं समुद्रस्योदधेर् इव ।
१,३।८च् - एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ॥८॥

१,३।९अ - यथेषुका परापतद् अवसृष्टाधि धन्वनः ।
१,३।९च् - एवा ते मूत्रं मुच्यतां बहिर् बाल् इति सर्वकम् ॥९॥

१,४।१अ - अम्बयो यन्त्य् अध्वभिर् जामयो अध्वरीयताम् ।
१,४।१च् - पृञ्चतीर् मधुना पयः ॥१॥

१,४।२अ - अमूर् या उप सूर्ये याभिर् वा सूर्यः सह ।
१,४।२च् - ता नो हिन्वन्त्व् अध्वरम् ॥२॥

१,४।३अ - अपो देवीर् उप ह्वये यत्र गावः पिबन्ति नः ।
१,४।३च् - सिन्धुभ्यः कर्त्वं हविः ॥३॥

१,४।४अ - अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् ।
१,४।४च् - अपाम् उत प्रशस्तिभिर् अश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥

१,५।१अ - आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन ।
१,५।१च् - महे रणाय चक्षसे ॥१॥

१,५।२अ - यो वः शिवतमो रसस् तस्य भाजयतेह नः ।
१,५।२च् - उशतीर् इव मातरः ॥२॥

१,५।३अ - तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
१,५।३च् - आपो जनयथा च नः ॥३॥

१,५।४अ - ईशाना वार्याणां क्षयन्तीश् चर्षणीनाम् ।
१,५।४च् - अपो याचामि भेषजम् ॥४॥

१,६।१अ - शं नो देवीर् अभिष्टय आपो भवन्तु पीतये ।
१,६।१च् - शं योर् अभि स्रवन्तु नः ॥१॥

१,६।२अ - अप्सु मे सोमो अब्रवीद् अन्तर् विश्वानि भेषजा ।
१,६।२च् - अग्निं च विश्वशंभुवम् ॥२॥

१,६।३अ - आपः पृणीत भेषजं वरूथं तन्वे मम ।
१,६।३च् - ज्योक् च सूर्यं दृशे ॥३॥

१,६।४अ - शं न आपो धन्वन्याः शम् उ सन्त्व् अनूप्याः ।
१,६।४च् - शं नः खनित्रिमा आपः शम् उ याः कुम्भ आभृताः ।
१,६।४ए - शिवा नः सन्तु वार्षिकीः ॥४॥

१,७।१अ - स्तुवानम् अग्न आ वह यातुधानं किमीदिनम् ।
१,७।१च् - त्वं हि देव वन्दितो हन्ता दस्योर् बभूविथ ॥१॥

१,७।२अ - आज्यस्य परमेष्ठिन् जातवेदस् तनूवशिन् ।
१,७।२च् - अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥

१,७।३अ - वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।
१,७।३च् - अथेदम् अग्ने नो हविर् इन्द्रश् च प्रति हर्यतम् ॥३॥

१,७।४अ - अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।
१,७।४च् - ब्रवीतु सर्वो यातुमान् अयम् अस्मीत्य् एत्य ॥४॥

१,७।५अ - पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।
१,७।५च् - त्वया सर्वे परितप्ताः पुरस्तात् त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥

१,७।६अ - आ रभस्व जातवेदो 'स्माकार्थाय जज्ञिषे ।
१,७।६च् - दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥

१,७।७अ - त्वम् अग्ने यातुधानान् उपबद्धां इहा वह ।
१,७।७च् - अथैषाम् इन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥

१,८।१अ - इदं हविर् यातुधानान् नादी फेनम् इवा वहत् ।
१,८।१च् - य इदं स्त्री पुमान् अकर् इह स स्तुवतां जनः ॥१॥

१,८।२अ - अयं स्तुवान आगमद् इमं स्म प्रति हर्यत ।
१,८।२च् - बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥

१,८।३अ - यातुधानस्य सोमप जहि प्रजां नयस्व च ।
१,८।३च् - नि स्तुवानस्य पातय परम् अक्ष्य् उतावरम् ॥३॥

१,८।४अ - यत्रैषाम् अग्ने जनिमानि वेत्थ गुहा सताम् अत्त्रिणां जातवेदः ।
१,८।४च् - तांस् त्वं ब्रह्मणा वावृधानो जह्य् एषां शततर्हम् अग्ने ॥४॥

१,९।१अ - अस्मिन् वसु वसवो धारयन्त्व् इन्द्रः पूषा वरुणो मित्रो अग्निः ।
१,९।१च् - इमम् आदित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥

१,९।२अ - अस्य देवाः प्रदिशि ज्योतिर् अस्तु सूर्यो अग्निर् उत वा हिरण्यम् ।
१,९।२च् - सपत्ना अस्मद् अधरे भवन्तूत्तमं नाकम् अधि रोहयेमम् ॥२॥

१,९।३अ - येनेन्द्राय समभरः पयांस्य् उत्तमेन ब्रह्मणा जातवेदः ।
१,९।३च् - तेन त्वम् अग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्य् एनम् ॥३॥

१,९।४अ - अइषां यज्ञम् उत वर्चो ददे 'हं रायस् पोषम् उत चित्तान्य् अग्ने ।
१,९।४च् - सपत्ना अस्मद् अधरे भवन्तूत्तमं नाकम् अधि रोहयेमम् ॥४॥

१,१०।१अ - अयं देवानाम् असुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।
१,१०।१च् - ततस् परि ब्रह्मणा शाशदान उग्रस्य मन्योर् उद् इमं नयामि ॥१॥

१,१०।२अ - नमस् ते रजन् वरुणास्तु मन्यवे विश्वं ह्य् उग्र निचिकेषि द्रुग्धम् ।
१,१०।२च् - सहस्रम् अन्यान् प्र सुवामि साकं शतं जीवाति शरदस् तवायम् ॥२॥

१,१०।३अ - यद् उवक्थानृतम् जिह्वया वृजिनं बहु ।
१,१०।३च् - राज्ञस् त्वा सत्यधर्मणो मुञ्चामि वरुणाद् अहम् ॥३॥

१,१०।४अ - मुञ्चामि त्वा वैश्वानराद् अर्णवान् महतस् परि ।
१,१०।४च् - सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥

१,११।१अ - वषट् ते पूषन्न् अस्मिन्त् सूताव् अर्यमा होता कृणोतु वेधाः ।
१,११।१च् - सिस्रतां नार्य् ऋतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१॥

१,११।२अ - चतस्रो दिवः प्रदिशश् चतस्रो भूम्या उत ।
१,११।२च् - देवा गर्भं सम् अइरयन् तं व्य् ऊर्णुवन्तु सूतवे ॥२॥

१,११।३अ - सूषा व्य् ऊर्णोतु वि योनिं हापयामसि ।
१,११।३च् - श्रथया सूषणे त्वम् अव त्वं बिष्कले सृज ॥३॥

१,११।४अ - नेव मांसे न पीवसि नेव मज्जस्व् आहतम् ।
१,११।४च् - अवैतु पृश्नि शेवलं शुने जराय्व् अत्तवे 'व जरायु पद्यताम् ॥४॥

१,११।५अ - वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके ।
१,११।५च् - वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥

१,११।६अ - यथा वातो यथा मनो यथा पतन्ति पक्षिणः ।
१,११।६च् - एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६॥

१,१२।१अ - जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या ।
१,१२।१च् - स नो मृढाति तन्व ऋजुगो रुजन् य एकम् ओजस् त्रेधा विचक्रमे ॥१॥

१,१२।२अ - अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस् त्वा हविषा विधेम ।
१,१२।२च् - अङ्कान्त् समङ्कान् हविषा विधेम यो अग्रभीत् पर्वास्या ग्रभीता ॥२॥

१,१२।३अ - मुञ्च शीर्षक्त्या उत कास एनं परुष्परुर् आविवेशा यो अस्य ।
१,१२।३च् - यो अभ्रजा वातजा यश् च शुष्मो वनस्पतीन्त् सचतां पर्वतांश् च ॥३॥

१,१२।४अ - शं मे परस्मै गात्राय शम् अस्त्व् अवराय मे ।
१,१२।४च् - शं मे चतुर्भ्यो अङ्गेभ्यः शम् अस्तु तन्वे मम ॥४॥

१,१३।१अ - नमस् ते अस्तु विद्युते नमस् ते स्तनयित्नवे ।
१,१३।१च् - नमस् ते अस्त्व् अश्मने येना दूढाशे अस्यसि ॥१॥

१,१३।२अ - नमस् ते प्रवतो नपाद् यतस् तपः समूहसि ।
१,१३।२च् - मृढया नस् तनूभ्यो मयस् तोकेभ्यस् कृधि ॥२॥

१,१३।३अ - प्रवतो नपान् नम एवास्तु तुभ्यं नमस् ते हेतये तपुषे च कृण्मः ।
१,१३।३च् - विद्म ते धाम परमं गुहा यत् समुद्रे अन्तर् निहितासि नाभिः ॥३॥

१,१३।४अ - यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।
१,१३।४च् - सा नो मृढ विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥

१,१४।१अ - भगम् अस्या वर्च आदिष्य् अधि वृक्षाद् इव स्रजम् ।
१,१४।१च् - महाबुध्न इव पर्वतो ज्योक् पितृष्व् आस्ताम् ॥१॥

१,१४।२अ - एषा ते राजन् कन्या वधूर् नि धूयताम् यम ।
१,१४।२च् - सा मातुर् बध्यतां गृहे 'थो भ्रातुर् अथो पितुः ॥२॥

१,१४।३अ - एषा ते कुलपा राजन् ताम् उ ते परि दद्मसि ।
१,१४।३च् - ज्योक् पितृष्व् आसाता आ शीर्ष्णः शमोप्यात् ॥३॥

१,१४।४अ - असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च ।
१,१४।४च् - अन्तःकोशम् इव जामयो 'पि नह्यामि ते भगम् ॥४ ॥

१,१५।१अ - सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः ।
१,१५।१च् - इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥

१,१५।२अ - इहैव हवम् आ यात म इह संस्रावणा उतेमं वर्धयता गिरः ।
१,१५।२च् - इहैतु सर्वो यः पशुर् अस्मिन् तिष्ठतु या रयिः ॥२॥

१,१५।३अ - ये नदीनां संस्रवन्त्य् उत्सासः सदम् अक्षिताः ।
१,१५।३च् - तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि ॥३॥

१,१५।४अ - ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च
१,१५।४ब् - तेभिर् मे सर्वैः संस्रावैर् धनं सं स्रावयामसि ॥४॥
१,१६।१अ - ये 'मावास्यां रात्रिम् उदस्थुर् व्राजम् अत्त्रिणः ।
१,१६।१च् - अग्निस् तुरीयो यातुहा सो अस्मभ्यम् अधि ब्रवत् ॥१॥

१,१६।२अ - सीसायाध्य् आह वरुणः सीसायाग्निर् उपावति ।
१,१६।२च् - सीसं म इन्द्रः प्रायछत् तद् अङ्ग यातुचातनम् ॥२॥

१,१६।३अ - इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः ।
१,१६।३च् - अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥

१,१६।४अ - यदि नो गां हंसि यद्य् अश्वं यदि पूरुषम् ।
१,१६।४च् - तं त्वा सीसेन विध्यामो यथा नो 'सो अवीरहा ॥४॥

१,१७।१अ - अमूर् या यन्ति योषितो हिरा लोहितवाससः ।
१,१७।१च् - अभ्रातर इव जामयस् तिष्ठन्तु हतवर्चसः ॥१॥

१,१७।२अ - तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।
१,१७।२च् - कनिष्ठिका च तिष्ठति तिष्ठाद् इद् धमनिर् मही ॥२॥

१,१७।३अ - शतस्य धमनीनां सहस्रस्य हिराणाम् ।
१,१७।३च् - अस्थुर् इन् मध्यमा इमाः साकम् अन्ता अरंसत ॥३॥

१,१७।४अ - परि वः सिकतावती धनूर् बृहत्य् अक्रमीत् ।
१,१७।४च् - तिष्ठतेलयता सु कम् ॥४॥

१,१८।१अ - निर् लक्ष्म्यं ललाम्यं निर् अरातिं सुवामसि ।
१,१८।१च् - अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ॥१॥

१,१८।२अ - निर् अरणिं सविता साविषक् पदोर् निर् हस्तयोर् वरुणो मित्रो अर्यमा ।
१,१८।२च् - निर् अस्मभ्यम् अनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥२॥

१,१८।३अ - यत् त आत्मनि तन्वां घोरम् अस्ति यद् वा केशेषु प्रतिचक्षणे वा ।
१,१८।३च् - सर्वं तद् वाचाप हन्मो वयं देवस् त्वा सविता सूदयतु ॥३॥

१,१८।४अ - रिश्यपदीं वृषदतीं गोषेधां विधमाम् उत ।
१,१८।४च् - विलीढ्ह्यं ललाम्यं ता अस्मन् नाशयामसि ॥४॥

१,१९।१अ - मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् ।
१,१९।१च् - आराच् छरव्या अस्मद् विषूचीर् इन्द्र पातय ॥१॥

१,१९।२अ - विष्वञ्चो अस्मच् छरवः पतन्तु ये अस्ता ये चास्याः ।
१,१९।२च् - दैवीर् मनुष्येसवो ममामित्रान् वि विध्यत ॥२॥

१,१९।३अ - यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मां अभिदासति ।
१,१९।३च् - रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥

१,१९।४अ - यः सपत्नो यो 'सपत्नो यश् च द्विषन् छपाति नः ।
१,१९।४च् - देवास् तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥

१,२०।१अ - अदारसृद् भवतु देव सोमास्मिन् यज्ञे मरुतो मृढता नः ।
१,२०।१च् - मा नो विदद् अभिभा मो अशस्तिर् मा नो विदद् वृजिना द्वेष्या या ॥१॥

१,२०।२अ - यो अद्य सेन्यो वधो 'घायूनाम् उदीरते ।
१,२०।२च् - युवं तं मित्रावरुणाव् अस्मद् यावयतं परि ॥२॥

१,२०।३अ - इतश् च यद् अमुतश् च यद् वधं वरुण यावय ।
१,२०।३च् - वि महच् छर्म यछ वरीयो यावया वधम् ॥३॥

१,२०।४अ - शास इत्था महां अस्य् अमित्रसाहो अस्तृतः ।
१,२०।४च् - न यस्य हन्यते सखा न जीयते कदा चन ॥४॥

१,२१।१अ - स्वस्तिदा विशां पतिर् वृत्रहा विमृधो वशी ।
१,२१।१च् - वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥

१,२१।२अ - वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः ।
१,२१।२च् - अधमं गमया तमो यो अस्मां अभिदासति ॥२॥

१,२१।३अ - वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
१,२१।३च् - वि मन्युम् इन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥

१,२१।४अ - अपेन्द्र द्विषतो मनो 'प जिज्यासतो वधम् ।
१,२१।४च् - वि महच् छर्म यछ वरीयो यावया वधम् ॥४॥

१,२२।१अ - अनु सूर्यम् उद् अयतां हृद्द्योतो हरिमा च ते ।
१,२२।१च् - गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥१॥

१,२२।२अ - परि त्वा रोहितैर् वर्णैर् दीर्घायुत्वाय दध्मसि ।
१,२२।२च् - यथायम् अरपा असद् अथो अहरितो भुवत् ॥२॥

१,२२।३अ - या रोहिणीर् देवत्या गावो या उत रोहिणीः ।
१,२२।३च् - रूपंरूपं वयोवयस् ताभिष् ट्वा परि दध्मसि ॥३॥

१,२२।४अ - शुकेषु ते हरिमाणं रोपणाकासु दध्मसि ।
१,२२।४च् - अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥४॥

१,२३।१अ - नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च ।
१,२३।१च् - इदं रजनि रजय किलासं पलितं च यत् ॥१॥

१,२३।२अ - किलासं च पलितं च निर् इतो नाशया पृषत् ।
१,२३।२च् - आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥

१,२३।३अ - असितं ते प्रलयनम् आस्थानम् असितं तव ।
१,२३।३च् - असिक्नी अस्य् ओषधे निर् इतो नाशया पृषत् ॥३॥

१,२३।४अ - अस्थिजस्य किलासस्य तनूजस्य च यत् त्वचि ।
१,२३।४च् - दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतम् अनीनशम् ॥४॥

१,२४।१अ - सुपर्णो जातः प्रथमस् तस्य त्वं पित्तम् आसिथ ।
१,२४।१च् - तद् आसुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥१॥
१,२४।२अ - आसुरी चक्रे प्रथमेदं किलासभेषजम् इदं किलासनाशनम् ।
१,२४।२च् - अनीनशत् किलासं सरूपाम् अकरत् त्वचम् ॥२॥

१,२४।३अ - सरूपा नाम ते माता सरूपो नाम ते पिता ।
१,२४।३च् - सरूपकृत् त्वम् ओषधे सा सरूपम् इदं कृधि ॥३॥

१,२४।४अ - श्यामा सरूपंकरणी पृथिव्या अध्य् उद्भृता ।
१,२४।४च् - इदम् ऊ षु प्र साधय पुना रूपाणि कल्पय ॥४॥

१,२५।१अ - यद् अग्निर् आपो अदहत् प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।
१,२५।१च् - तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥

१,२५।२अ - यद्य् अर्चिर् यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् ।
१,२५।२च् - ह्रूढुर् नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥

१,२५।३अ - यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः ।
१,२५।३च् - ह्रूढुर् नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥

१,२५।४अ - नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि ।
१,२५।४च् - यो अन्येद्युर् उभयद्युर् अभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥

१,२६।१अ - आरे 'साव् अस्मद् अस्तु हेतिर् देवासो असत् ।
१,२६।१च् - आरे अश्मा यम् अस्यथ ॥१॥

१,२६।२अ - सखासाव् अस्मभ्यम् अस्तु रातिः सखेन्द्रो भगः ।
१,२६।२च् - सविता चित्रराधाः ॥२॥

१,२६।३अ - यूयम् नः प्रवतो नपान् मरुतः सूर्यत्वचसः ।
१,२६।३च् - शर्म यछथ सप्रथाः ॥३॥

१,२६।४अ - सुषूदत मृढत मृढया नस् तनूभ्यो ।
१,२६।४च् - मयस् तोकेभ्यस् कृधि ॥४॥

१,२७।१अ - अमूः पारे पृदाक्वस् त्रिषप्ता निर्जरायवः ।
१,२७।१च् - तासाम् जरायुभिर् वयम् अक्ष्याव् अपि व्ययामस्य् अघायोः परिपन्थिनः ॥१॥

१,२७।२अ - विषूच्य् एतु कृन्तती पिनाकम् इव बिभ्रती ।
१,२७।२च् - विष्वक् पुनर्भुवा मनो 'समृद्धा अघायवः ॥२॥

१,२७।३अ - न बहवः सम् अशकन् नार्भका अभि दाधृषुः ।
१,२७।३च् - वेणोर् अद्गा इवाभितो 'समृद्धा अघायवः ॥३॥

१,२७।४अ - प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् ।
१,२७।४च् - इन्द्रान्य् एतु प्रथमाजीतामुषिता पुरः ॥४॥

१,२८।१अ - उप प्रागाद् देवो अग्नी रक्षोहामीवचातनः ।
१,२८।१च् - दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥

१,२८।२अ - प्रति दह यातुधानान् प्रति देव किमीदिनः ।
१,२८।२च् - प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥

१,२८।३अ - या शशाप शपनेन याघं मूरम् आदधे ।
१,२८।३च् - या रसस्य हरणाय जातम् आरेभे तोकम् अत्तु सा ॥३॥

१,२८।४अ - पुत्रम् अत्तु यातुधानीः स्वसारम् उत नप्त्यम् ।
१,२८।४च् - अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्ताम् अराय्यः ॥४॥

१,२९।१अ - अभीवर्तेन मणिना येनेन्द्रो अभिववृधे ।
१,२९।१च् - तेनास्मान् ब्रह्मणस् पते 'भि राष्ट्राय वर्धय ॥१॥

१,२९।२अ - अभिवृत्य सपत्नान् अभि या नो अरातयः ।
१,२९।२च् - अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥

१,२९।३अ - अभि त्वा देवः सविताभि षोमो अवीवृधत् ।
१,२९।३च् - अभि त्वा विश्वा भूतान्य् अभीवर्तो यथाससि ॥३॥

१,२९।४अ - अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।
१,२९।४च् - राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥

१,२९।५अ - उद् असौ सूर्यो अगाद् उद् इदं मामकं वचः ।
१,२९।५च् - यथाहं शत्रुहो 'सान्य् असपत्नः सपत्नहा ॥५॥

१,२९।६अ - सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।
१,२९।६च् - यथाहम् एषां वीराणां विराजानि जनस्य च ॥६॥

१,३०।१अ - विश्वे देवा वसवो रक्षतेमम् उतादित्या जागृत यूयम् अस्मिन् ।
१,३०।१च् - मेमं सनाभिर् उत वान्यनाभिर् मेमं प्रापत् पौरुषेयो वधो यः ॥१॥

१,३०।२अ - ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदम् उक्तम् ।
१,३०।२च् - सर्वेभ्यो वः परि ददाम्य् एतं स्वस्त्य् एनं जरसे वहाथ ॥२॥

१,३०।३अ - ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्व् अप्स्व् अन्तः ।
१,३०।३च् - ते कृणुत जरसम् आयुर् अस्मै शतम् अन्यान् परि वृणक्तु मृत्यून् ॥३॥

१,३०।४अ - येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश् च देवाः ।
१,३०।४च् - येषां वः पञ्च प्रदिशो विभक्तास् तान् वो अस्मै सत्रसदः कृणोमि ॥४॥

१,३१।१अ - आशानाम् आशापालेभ्यश् चतुर्भ्यो अमृतेभ्यः ।
१,३१।१च् - इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥

१,३१।२अ - य आशानाम् आशापालाश् चत्वार स्थन देवाः ।
१,३१।२च् - ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥

१,३१।३अ - अस्रामस् त्वा हविषा यजाम्य् अश्लोणस् त्वा घृतेन जुहोमि ।
१,३१।३च् - य आशानाम् आशापालस् तुरीयो देवः स नः सुभूतम् एह वक्षत् ॥३॥

१,३१।४अ - स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः ।
१,३१।४च् - विश्वम् सुभूतम् सुविदत्रं नो अस्तु ज्योग् एव दृशेम सूर्यम् ॥४॥

१,३२।१अ - इदं जनासो विदथ महद् ब्रह्म वदिष्यति ।
१,३२।१च् - न तत् पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥

१,३२।२अ - अन्तरिक्ष आसां स्थाम श्रान्तसदाम् इव ।
१,३२।२च् - आस्थानम् अस्य भूतस्य विदुष् टद् वेधसो न वा ॥२॥

१,३२।३अ - यद् रोदसी रेजमाने भूमिश् च निरतक्षतम् ।
१,३२।३च् - आर्द्रं तद् अद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥

१,३२।४अ - विश्वम् अन्याम् अभीवार तद् अन्यस्याम् अधि श्रितम् ।
१,३२।४च् - दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥

१,३३।१अ - हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्व् अग्निः ।
१,३३।१च् - या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ॥१॥

१,३३।२अ - यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।
१,३३।२च् - या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ॥२॥

१,३३।३अ - यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
१,३३।३च् - या अग्निं गर्भं दधिरे सुवर्णास् ता न आपः शं स्योना भवन्तु ॥३॥

१,३३।४अ - शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।
१,३३।४च् - घृतश्चुतः शुचयो याः पावकास् ता न आपः शं स्योना भवन्तु ॥४॥

१,३४।१अ - इयं वीरुन् मधुजाता मधुना त्वा खनामसि ।
१,३४।१च् - मधोर् अधि प्रजातासि सा नो मधुमतस् कृधि ॥१॥

१,३४।२अ - जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ।
१,३४।२च् - ममेद् अह क्रताव् असो मम चित्तम् उपायसि ॥२॥

१,३४।३अ - मधुमन् मे निक्रमणं मधुमन् मे परायणम् ।
१,३४।३च् - वाचा वदामि मधुमद् भूयासं मधुसंदृशः ॥३॥
१,३४।४अ - मधोर् अस्मि मधुतरो मदुघान् मधुमत्तरः ।
१,३४।४च् - माम् इत् किल त्वं वनाः शाखां मधुमतीम् इव ॥४॥

१,३४।५अ - परि त्वा परितत्नुनेक्षुणागाम् अविद्विषे ।
१,३४।५च् - यथा मां कमिन्य् असो यथा मन् नापगा असः ॥५॥

१,३५।१अ - यद् आबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः ।
१,३५।१च् - तत् ते बद्नाम्य् आयुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥

१,३५।२अ - नैनं रक्षांसि न पिशाचाः सहन्ते देवानाम् ओजः प्रथमजम् ह्य् एतत् ।
१,३५।२च् - यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घम् आयुः ॥२॥

१,३५।३अ - अपां तेजो ज्योतिर् ओजो बलं च वनस्पतीनाम् उत वीर्याणि ।
१,३५।३च् - इन्द्र इवेन्द्रियाण्य् अधि धारयामो अस्मिन् तद् दक्षमाणो बिभरद् धिरण्यम् ॥३॥

१,३५।४अ - समानां मासाम् ऋतुभिष् ट्वा वयं संवत्सरस्य पयसा पिपर्मि ।
१,३५।४च् - इन्द्राग्नी विश्वे देवास् ते 'नु मन्यन्ताम् अहृणीयमानाः ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:08.7500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नकीत

  • न. ( कु . ) खाद्यपानरहित उपोषण . [ नक्त अप . ] 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.