पाद १ - खण्ड ६६

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २४ - जसः इति किमर्थम् ।

२ - २४ - तिसृका ।

३ - २४ - तिसृभ्यः जस्ग्रहणानर्थक्यम् अन्यत्र अभावात् ।

४ - २४ - तिसृभ्यः जस्ग्रहणम् अनर्थकम् ।

५ - २४ - किम् कारणम् ।

६ - २४ - अन्यत्र अभावात् ।

७ - २४ - न हि अन्यत् तिसृशब्दात् अन्तोदात्तत्वम् प्रयोजयति अन्यत् अतः जसः ।

८ - २४ - किम् कारणम् ।

९ - २४ - बहुवचनविषयः एव तिसृशब्दः ।

१० - २४ - तेन एकवचनद्विवचने न स्तः ।

११ - २४ - शसि भवितव्यम् उदात्तयणः हल्पूर्वात् इति ।

१२ - २४ - अन्याः सर्वाः हलादयः विभक्तयः ।

१३ - २४ - तत्र षट्त्रिचतुर्भ्यः हलादिः झलि उपोत्तमम् इति अनेन स्वरेण भवितव्यम् ।

१४ - २४ - तत्र अन्तरेण जसः ग्रहणम् जसः एव भविष्यति ।

१५ - २४ - ननु च इदानीम् एव उदाहृतम् तिसृका इति ।

१६ - २४ - नित्स्वरः अत्र बाधकः भविष्यति ।

१७ - २४ - न अप्राप्ते अन्यस्वरे तिसृस्वरः आरभ्यते ।

१८ - २४ - सः यथा एव अनुदात्तौ सुप्पितौ इति एतम् स्वरम् बाधते एवम् नित्स्वरम् अपि बाधेत ।

१९ - २४ - न एषः दोषः ।

२० - २४ - येन न अप्राप्ते तस्य बाधनम् भवति ।

२१ - २४ - न च अप्राप्ते अनुदात्तौ सुप्पितौ इति एतस्मिन् तिसृस्वरः आरभ्यते ।

२२ - २४ - नित्स्वरः पुनः प्राप्ते च अप्राप्ते च ।

२३ - २४ - अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् तिसृस्वरः अनुदात्तौ सुप्पितौ इति स्वरम् बाधिष्यते नित्स्वरम् न बाधिष्यते ।

२४ - २४ - उपसमस्तार्थम् एके जसः ग्रहणम् इच्छन्ति अतितिस्रौ , अतितिस्रः ।

१ - ५९ - शसि स्त्रियाम् प्रतिषेधः वक्तव्यः ।

२ - ५९ - चतस्रः पश्य ।

३ - ५९ - चतुरः शसि स्त्रियाम् अप्रतिषेधः आद्युदात्तनिपातनात् ।

४ - ५९ - चतुरः शसि स्त्रियाम् अप्रतिषेधः ।

५ - ५९ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

६ - ५९ - शसि स्वरः कस्मात् न भवति ।

७ - ५९ - आद्युदात्तनिपातनात् ।

८ - ५९ - आद्युदात्तनिपातनम् करिष्यते ।

९ - ५९ - सः निपातनस्वरः शसि स्वरस्य बाधकः भविष्यति ।

१० - ५९ - एवम् अपि उपदेशिवद्भावः वक्तव्यः ।

११ - ५९ - यथा एव निपातनस्वरः शसि स्वरम् बाधते एवम् विभक्तिस्वरम् अपि बाधेत चतसृणम् इति ।

१२ - ५९ - विभक्तिस्वरभावः च हलादिग्रहणात् ।

१३ - ५९ - विभक्तिस्वरभावः च सिद्धः ।

१४ - ५९ - कुतः ।

१५ - ५९ - हलादिग्रहणात् ।

१६ - ५९ - यत् अयम् षट्त्रिचतुर्भ्यः हलादिः इति हलादिग्रहणम् करोति तत् ज्ञापयति आचार्यः न निपातनस्वरः विभक्तिस्वरम् बाधते इति ।

१७ - ५९ - कथम् कृत्वा ज्ञापकम् ।

१८ - ५९ - आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् ।

१९ - ५९ - आद्युदात्तनिपातने हि सति हलादिग्रहणम् अनर्थकम् स्यात् ।

२० - ५९ - न हि अन्यत् हलादिग्रहणम् प्रयोजयति अन्यत् अतः चतसृशब्दात् ।

२१ - ५९ - षट्सञ्ज्ञाः तावत् न प्रयोजयन्ति ।

२२ - ५९ - किम् कारणम् ।

२३ - ५९ - बहुवचनविषयत्वात् ।

२४ - ५९ - तेन द्विवचनैकवचने न स्तः ।

२५ - ५९ - जश्शसी च अत्र लुप्येते ।

२६ - ५९ - अन्याः सर्वाः हलादयः विभक्तयः ।

२७ - ५९ - त्रिशब्दः च अपि न प्रयोजयति ।

२८ - ५९ - किम् कारणम् ।

२९ - ५९ - बहुवचनविषयत्वात् ।

३० - ५९ - तेन द्विवचनैकवचने न स्तः ।

३१ - ५९ - असर्वनामस्थानम् इति वचनात् जसि न भविष्यति ।

३२ - ५९ - शसि भवितव्यम् एकादेशे उदात्तेन उदात्तः इति ।

३३ - ५९ - अन्याः सर्वाः हलादयः विभक्तयः ।

३४ - ५९ - तिसृशब्दः च अपि न प्रयोजयति ।

३५ - ५९ - किम् कारणम् ।

३६ - ५९ - बहुवचनविषयत्वात् ।

३७ - ५९ - तेन द्विवचनैकवचने न स्तः ।

३८ - ५९ - असर्वनामस्थानम् इति वचनात् जसि न भवितव्यम् ।

३९ - ५९ - शसि भवितव्यम् उदात्तयणः हल्पूर्वात् इति ।

४० - ५९ - अन्याः सर्वाः हलादयः विभक्तयः ।

४१ - ५९ - चतुःशब्दः तिसृशब्दः च अपि न प्रयोजयति ।

४२ - ५९ - किम् कारणम् ।

४३ - ५९ - बहुवचनविषयत्वात् ।

४४ - ५९ - तेन द्विवचनैकवचने न स्तः ।

४५ - ५९ - असर्वनामस्थानम् इति वचनात् जसि न भवितव्यम् ।

४६ - ५९ - शसि भवितव्यम् चतुरः शसि इति ।

४७ - ५९ - अन्याः सर्वाः हलादयः विभक्तयः ।

४८ - ५९ - तत्र चतसृशब्दात् एकस्मात् शस् असर्वनामस्थानम् अजादिः विभक्तिः अस्ति ।

४९ - ५९ - यदि च अत्र निपातनस्वरः स्यात् हलादिग्रहणम् अनर्थकम् स्यात् ।

५० - ५९ - न एव वा पुनः अत्र शसिस्वरः प्राप्नोति ।

५१ - ५९ - किम् कारणम् ।

५२ - ५९ - यणादेशे कृते शसः पूर्वः उदात्तभावी न अस्ति इति कृत्वा ।

५३ - ५९ - अवशिष्टस्य तर्हि प्राप्नोति ।

५४ - ५९ - ऋकारेण व्यवहितत्वात् न भविष्यति ।

५५ - ५९ - यणादेशे कृते न अस्ति व्यवधानम् ।

५६ - ५९ - स्थानिवद्भावात् व्यवधानम् एव ।

५७ - ५९ - प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरविधिम् प्रति न स्थानिवत् भवति इति ।

५८ - ५९ - न एषः अस्ति प्रतिषेधः ।

५९ - ५९ - उक्तम् एतत् प्रतिषेधे स्वरदीर्घयलोपेषु लोपादादेशः न स्थानिवत् इति ।

१ - १९ - सौ इति किम् इदम् प्रथमैकवचनस्य ग्रहणम् आहोस्वित् सप्तमीबहुवचनस्य ।

२ - १९ - कुतः सन्देहः ।

३ - १९ - समानः निर्देशः ।

४ - १९ - सप्तमीबहुवचनस्य ग्रहणम् ।

५ - १९ - कथम् ज्ञायते ।

६ - १९ - यत् अयम् न गोश्वन्साववर्ण इति गोशुनोः प्रतिषेधम् शास्ति ।

७ - १९ - कथम् कृत्वा ज्ञापकम् ।

८ - १९ - यदि प्रथमैकवचनस्य ग्रहणम् स्यात् गोशुनोः प्रतिषेधवचनम् अनर्थकम् स्यात् ।

९ - १९ - ननु च अर्थसिद्धिः एव एषा ।

१० - १९ - अनुगृहीताः स्मः यैः अस्माभिः प्रथमैकवचनम् आस्थाय गोशुनोः प्रतिषेधः न वक्तव्यः भवति ।

११ - १९ - भवेत् प्रतिषेधः न वक्तव्यः दोषाः तु भवन्ति ।

१२ - १९ - तत्र कः दोषः ।

१३ - १९ - स्विना खिना ।

१४ - १९ - अन्तोदात्तत्वम् न प्राप्नोति ।

१५ - १९ - स्विन्खिनौ न स्तः ।

१६ - १९ - उक्तम् एतत् एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ ।

१७ - १९ - स्ववान् , खवान् इति एव भवितव्यम् ।

१८ - १९ - इह तर्हि याद्भ्याम् , याभिः इति न सिध्यति ।

१९ - १९ - तस्मात् सप्तमीबहुवचनस्य ग्रहणम् ।

१ - १० - सौ एकाचः उदात्तत्वे त्वन्मदोः प्रतिषेधः ।

२ - १० - सौ एकाचः उदात्तत्वे त्वन्मदोः प्रतिषेधः वक्तव्यः ।

३ - १० - त्वया मया ।

४ - १० - सिद्धम् तु यस्मात् तृतीयादिः तस्य अभावात् सौ ।

५ - १० - सिद्धम् एतत् ।

६ - १० - कथम् ।

७ - १० - यस्मात् अत्र तृतीयादिः विभक्तिः न तत् सौ अस्ति ।

८ - १० - यदि अपि एतत् सौ न अस्ति प्रकृतिः तु अस्य सौ अस्ति ।

९ - १० - प्रकृतेः च अनेकाच्त्वात् ।

१० - १० - यदि अपि तस्य प्रकृतिः अस्ति सौ अनेकाच् तु सा भवति ।

१ - ७ - उत्तरपदग्रहणम् किमर्थम् ।

२ - ७ - यथा एकाज्ग्रहणम् उत्तरपदविशेषणम् विज्ञायेत ।

३ - ७ - एकाचः उत्तरपदात् इति ।

४ - ७ - अथ अक्रियमाणे उत्तरपदग्रहणे कस्य एकाज्ग्रहणम् विशेषणम् स्यात् ।

५ - ७ - समासविशेषणम् ।

६ - ७ - अस्ति च इदानीम् कः चित् एकाच् समासः यदर्थः विधिः स्यात् ।

७ - ७ - अस्ति इति आह शुनः ऊर्क् श्वोर्क् , श्वोर्जा , श्वोर्जे इति ।

१ - ७ - पदादिषु निचन्तानि प्रयोजयन्ति ।

२ - ७ - अन्यानि पदादीनि उदात्तनिवृत्तिस्वरेण सिद्धानि ।

३ - ७ - ऊठि उपधाग्रहणम् अन्त्यप्रतिषेधार्थम् । ऊठि उपधाग्रहणम् कर्तव्यम् ।

४ - ७ - किम् प्रयोजनम् ।

५ - ७ - अन्त्यप्रतिषेधार्थम् ।

६ - ७ - अन्त्यस्य मा भूत् ।

७ - ७ - अक्षद्युवा , अक्षद्युवे ।

१ - २१ - दीर्घग्रहणम् किमर्थम् ।

२ - २१ - अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत ।

३ - २१ - दीर्घात् इति शक्यम् अकर्तुम् ।

४ - २१ - कस्मात् न भवति अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत इति ।

५ - २१ - षट्स्वरः बाधकः भविष्यति ।

६ - २१ - न अप्राप्ते षट्स्वरे अष्टनः स्वरः आरभ्यते ।

७ - २१ - सः यथा एव दीर्घात् बाधते एवम् ह्रस्वात् अपि बाधेत ।

८ - २१ - न दीर्घात् षट्स्वरः प्राप्नोति ।

९ - २१ - किम् कारणम् ।

१० - २१ - आते कृते षट्सञ्ज्ञाभावात् ।

११ - २१ - अतः उत्तरम् पठति अष्टनः दीर्घग्रहणम् षट्सञ्ज्ञाज्ञापकम् आकारान्तस्य नुडर्थम् ।

१२ - २१ - अष्टनः दीर्घग्रहणम् क्रियते ज्ञापकार्थम् ।

१३ - २१ - किम् ज्ञाप्यम् ।

१४ - २१ - एतत् ज्ञापयति आचार्यः भवति आत्वे कृते षट्सञ्ज्ञा इति ।

१५ - २१ - किम् एतस्य ज्ञपने प्रयोजनम् ।

१६ - २१ - आकारान्तस्य नुडर्थम् ।

१७ - २१ - आकारान्तस्य नुड् सिद्धः भवति ।

१८ - २१ - अष्टानाम् इति ।

१९ - २१ - ननु च नित्यम् आत्वम् ।

२० - २१ - एतत् एव ज्ञापयति विभाषा आत्वम् इति यत् अयम् दीर्घग्रहणम् करोति ।

२१ - २१ - इतरथा हि अष्टनः इति एव ब्रूयात् ।

१ - ३ - नद्यजाद्युदात्तत्वे बृहन्महतोः उपसङ्ख्यानम् ।

२ - ३ - नद्यजाद्युदात्तत्वे बृहन्महतोः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३ - बृहती महती बृहता महता ।

१ - २१ - हल्पूर्वात् इति किमर्थम् ।

२ - २१ - अग्नये वायवे ।

३ - २१ - उदात्तयणि हल्ग्रहणम् नकारान्तार्थम् ।

४ - २१ - उदात्तयणि हल्ग्रहणम् कर्तव्यम् ।

५ - २१ - किम् प्रयोजनम् ।

६ - २१ - नकारान्तार्थम् ।

७ - २१ - नकारान्तात् अपि यथा स्यात् ।

८ - २१ - वाक्पत्नी चित्पत्नी ।

९ - २१ - हल्पूर्वग्रहणानर्थक्यम् च समुदायादेशत्वात् ।

१० - २१ - हल्पूर्वग्रहणम् च अनर्थकम् ।

११ - २१ - किम् काऋअणम् ।

१२ - २१ - समुदायादेशत्वात् ।

१३ - २१ - समुदायः अत्र आदेशः ।

१४ - २१ - स्वरितत्वे च अवचनात् ।

१५ - २१ - स्वरितत्वे च हल्पूर्वग्रहणस्य अवचनात् मन्यामहे हल्पूर्वग्रहणम् अनर्थकम् इति ।

१६ - २१ - यत् तावत् उच्यते उदात्तयणि हल्ग्रहणम् नकारान्तार्थम् इति क्रियते न्यासे एव ।

१७ - २१ - द्विनकारकः निर्देशः ।

१८ - २१ - उदात्तयणः हल्पूर्वात् न ऊङ्धात्वोः इति ।

१९ - २१ - यत् अपि उच्यते हल्पूर्वग्रहणानर्थक्यम् च समुदायादेशत्वात् इति ।

२० - २१ - अयम् अस्ति केवलः आदेशः ।

२१ - २१ - बहुतितवा ।

१ - ६ - मतुबुदात्तत्वे रेग्रहणम् ।

२ - ६ - मतुबुदात्तत्वे रेग्रहणम् कर्तव्यम् ।

३ - ६ - आ रेवान् एतु नः विशः ।

४ - ६ - त्रिप्रतिषेधः च ।

५ - ६ - त्रेः च प्रतिषेधः वक्तव्यः ।

६ - ६ - त्रिवतीः याज्यानुवाक्याः भवन्ति ।

१ - ४४ - इह कस्मात् न भवति ।

२ - ४४ - किशोरीणाम् , कुमारीणाम् ।

३ - ४४ - ह्रस्वात् इति वर्तते ।

४ - ४४ - इह अपि तर्हि न प्राप्नोति ।

५ - ४४ - अग्नीनाम् , वायूनाम् ।

६ - ४४ - किम् कारणम् ।

७ - ४४ - दीर्घत्वे कृते ह्रस्वाभावात् ।

८ - ४४ - इदम् इह सम्प्रधार्यम् ।

९ - ४४ - दीर्घत्वम् क्रियताम् स्वरः इति किम् अत्र कर्तव्यम् ।

१० - ४४ - परत्वात् दीर्घत्वम् ।

११ - ४४ - एवम् तर्हि नाम्स्वरे मतौ ह्रस्वग्रहणम् ।

१२ - ४४ - नाम्स्वरे मतौ ह्रस्वग्रहणम् कर्तव्यम् ।

१३ - ४४ - मतौ ह्रस्वान्तात् इति ।

१४ - ४४ - तत् तर्हि वक्तव्यम् ।

१५ - ४४ - न वक्तव्यम् ।

१६ - ४४ - आह अयम् ह्रस्वान्तात् न च नामि ह्रस्वान्तः अस्ति ।

१७ - ४४ - तत्र भूतपूर्वगतिः विज्ञास्यते ह्रस्वान्तम् यत् भूतपूर्वम् इति ।

१८ - ४४ - साम्प्रतिकाभावे भूतपूर्वगतिः विज्ञायते अयम् च अस्ति साम्प्रतिकः तिसृणाम् , चतसृणाम् इति ।

१९ - ४४ - न एतत् अस्ति ।

२० - ४४ - षट्त्रिचतुर्भ्यः हलादिः इति अनेन स्वरेण भवितव्यम् ।

२१ - ४४ - तस्मिन् नित्ये प्राप्ते इयम् विभाषा आरभ्यते ।

२२ - ४४ - एवम् तर्हि योगविभागः करिष्यते ।

२३ - ४४ - षट्त्रिचतुर्भ्यः नाम् उदात्तः भवति ।

२४ - ४४ - ततः हलादिः ।

२५ - ४४ - हलादिः च विभक्तिः उदात्ता भवति षट्त्रिचतुर्भ्यः इति ।

२६ - ४४ - इदम् तर्हि त्वम् नृणम् नृपते जायसे शुचिः ।

२७ - ४४ - ननु च अत्र अपि नृ च अन्यतरस्याम् इति एषः स्वरः बाधकः भविष्यति ।

२८ - ४४ - न सिध्यति ।

२९ - ४४ - न सिध्यति ।

३० - ४४ - किम् कारणम् ।

३१ - ४४ - झल्ग्रहणम् तत्र अनुवर्तते ।

३२ - ४४ - किम् पुनः कारणम् झल्ग्रहणम् तत्र अनुवर्तते ।

३३ - ४४ - इह मा भूत् ।

३४ - ४४ - न्रा न्रे ।

३५ - ४४ - उदात्तयणः हल्पूर्वात् इति एषः स्वरः अत्र स्वरः बाधकः भविष्यति ।

३६ - ४४ - इदम् तर्हि नरि ।

३७ - ४४ - न एकम् उदाहरम् ह्रस्वग्रहणम् प्रयोजयति ।

३८ - ४४ - यदि एतावत् प्रयोजनम् स्यात् नाम् इति एव ब्रूयात् ।

३९ - ४४ - तत्र वचनात् भूतपूर्वगतिः विज्ञास्यते ।

४० - ४४ - ह्रस्वान्तम् यत् भूतपूर्वम् इति ।

४१ - ४४ - अथ वा न एवम् विज्ञायते ।

४२ - ४४ - नाम् स्वरौ मतौ ह्रस्वग्रहणम् कर्तव्यम् इति ।

४३ - ४४ - कथम् तर्हि ।

४४ - ४४ - नाम्स्वरे मतौ ह्रस्वात् इति वर्तते इति ।

१ - २१ - सौ इति किम् प्रथमैकवचनस्य ग्रहणम् आहोस्वित् सप्तमीबहुवचनस्य ।

२ - २१ - कुतः सन्देहः ।

३ - २१ - समानः निर्देशः ।

४ - २१ - पुरस्तात् एषः निर्णयः सप्तमीबहुवचनस्य ग्रहणम् इति ।

५ - २१ - इह अपि तत् एव भवितुम् अर्हति ।

६ - २१ - यदि सप्तमीबहुवचनस्य ग्रहणम् ताभ्याम् ब्राह्मणाभ्याम् , याभ्याम् ब्राह्मणाभ्याम् अत्र न प्राप्नोति ।

७ - २१ - विधिः अपि अत्र न सिध्यति ।

८ - २१ - किम् कारणम् ।

९ - २१ - न हि एतत् भवति यत् सौ रूपम् ।

१० - २१ - इदम् तर्हि तेभ्यः ब्राह्मणेभ्यः , येभ्यः ब्राह्मणेभ्यः ।

११ - २१ - विधिः च सिद्द्धः भवति प्रतिषेधः तु न प्राप्नोति ।

१२ - २१ - अस्ति पुनः किम् चित् सति इष्टम् सङ्गृहीतम् भवति आहोस्वित् दोषान्तम् एव ।

१३ - २१ - अस्ति इति आह ।

१४ - २१ - इह याभ्यः ब्राह्मणीभ्यः , ताभ्यः ब्राह्मणीभ्यः इति विधिः च सिद्द्धः भवति प्रतिषेधः च ।

१५ - २१ - अस्ति तर्हि प्रथमैकवचनस्य ग्रहणम् ।

१६ - २१ - यदि प्रथमैकवचनस्य ग्रहणम् तेन इति स्वरः पुंसि न सिध्यति ।

१७ - २१ - न च अवश्यम् पुंसि एव स्त्रियाम् पुंसि नपुंसके च ।

१८ - २१ - तेन ब्राह्मणेन तया ब्राह्मण्या तेन कुण्डेन इति ।

१९ - २१ - सप्तमीबहुवचनस्य ग्रहणे अपि एषः दोषः ।

२० - २१ - तस्मात् उभाभ्याम् एव प्रतिषेधे यत्ततदोः च ग्रहणम् कर्तव्यम् ।

२१ - २१ - न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः यत्तदोः च इति ।

१ - २४ - तिति प्रत्ययग्रहणम् ।

२ - २४ - तिति प्रत्ययग्रहणम् कर्तव्यम् ।

३ - २४ - इह मा भूत् ।

४ - २४ - ऋ̄तः इत् धातोः ।

५ - २४ - किरति , गिरति ।

६ - २४ - तत् तर्हि वक्तव्यम् ।

७ - २४ - न वक्तव्यम् ।

८ - २४ - न एषः तकारः ।

९ - २४ - कः तर्हि ।

१० - २४ - दकारः ।

११ - २४ - यदि दकारः आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति ।

१२ - २४ - भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति ।

१३ - २४ - यदि भाव्यमानेन सवर्णानाम् ग्रहणम् न इति उच्यते अदसः असेः दात् उ दः मः , अमूभ्याम् इति अत्र न प्राप्नोति ।

१४ - २४ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति उकारेण भाव्यमानेन सवर्णानाम् ग्रहणम् इति यत् अयम् दिवः उत् इति उकारम् तपरम् करोति ।

१५ - २४ - एवमर्थम् एव तर्हि प्रत्ययग्रहणम् कर्तव्यम् अत्र मा भूत् इति ।

१६ - २४ - न एषः तकाहरः ।

१७ - २४ - कः तर्हि ।

१८ - २४ - दकारः ।

१९ - २४ - यदि दकारः न ज्ञापकम् भवति ।

२० - २४ - एवम् तर्हि तपरः तत्कालस्य इति दकारः अपि चर्त्वभूतः निर्दिश्यते ।

२१ - २४ - यदि एवम् चर्त्वस्य असिद्धत्वात् हशि च इति उत्त्वम् प्राप्नोति ।

२२ - २४ - सौत्रः निर्देशः ।

२३ - २४ - अथ वा असंहितया निर्देशः करिष्यते ।

२४ - २४ - अणुदित् सवर्णस्य च अप्रत्ययः , त्तपरः तत्कालस्य इति ।

१ - २४ - अदुपदेशात् इति किम् इदम् विज्ञायते ।

२ - २४ - अकारः यः उपदेशः इति आहोस्वित् अकारान्तम् यत् उपदेशः इति ।

३ - २४ - किम् च अतः ।

४ - २४ - यदि विज्ञायते अकारः यः उपदेशः इति हतः , हथः इति अत्र अपि प्राप्नोति ।

५ - २४ - अथ विज्ञायते अकारान्तम् यत् उपदेशः इति न दोषः भवति ।

६ - २४ - ननु च अकारान्तम् यत् उपदेशः इति विज्ञायमाने अपि अत्र अपि प्राप्नोति ।

७ - २४ - एतत् अपि हि व्यपदेशिवद्भावेन अकारान्तम् भवति उपदेशे ।

८ - २४ - अर्थवता व्यपदेशिवद्भावः ।

९ - २४ - यदि तर्हि अकारान्तम् यत् उपदेशः इति विज्ञायते मा हि धुक्षाताम् , मा हि धुषाथाम् अत्र अपि प्राप्नोति ।

१० - २४ - अस्तु ।

११ - २४ - अनुदात्तत्वे कृते लोपे उदात्तनिवृत्तिस्वरेण सिद्धम् ।

१२ - २४ - न सिध्यति ।

१३ - २४ - इदम् इह सम्प्रधार्यम् ।

१४ - २४ - अद्नुदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

१५ - २४ - परत्वात् लोपः ।

१६ - २४ - एवम् तर्हि इदम् अद्य लसार्वधादुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः ।

१७ - २४ - न च अपवादविषये उत्सर्गः अभिनिविशते ।

१८ - २४ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

१९ - २४ - प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः अभिनिविशते ।

२० - २४ - तत् न तावत् अत्र कदा चित् प्रत्ययस्वरः भवति ।

२१ - २४ - अपवादविषयम् लसार्वधातुकानुदात्तत्वम् प्रतीक्षते ।

२२ - २४ - तत्र आनुदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

२३ - २४ - परत्वात् लोपः ।

२४ - २४ - यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्ते अनुदात्ते उदात्तः लुप्यते ।

१ - ११ - तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः अभ्यस्तसिजर्थः ।

२ - ११ - तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः कर्तव्यः ।

३ - ११ - लसार्वधातुके इति वक्तव्यम् ।

४ - ११ - किम् प्रयोजनम् ।

५ - ११ - अभ्यस्तसिजर्थः ।

६ - ११ - अभ्यस्तानाम् आदिः उदात्तः भवति लसार्वधातुके ।

७ - ११ - सिजन्तस्य आदिः उदात्तः भवति लसार्वधातुके ।

८ - ११ - लसार्वधातुकम् इति उच्यमाने तस्य एव आद्युदात्तत्वम् स्यात् ।

९ - ११ - यदि सप्तमीनिर्देशः क्रियते तास्यादीनाम् एव अनुदात्तत्वम् प्राप्नोति ।

१० - ११ - न एषः दोषः ।

११ - ११ - तासियादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१ - ६५ - चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् विप्रतिषेधेन ।

२ - ६५ - चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् भवति विप्रतिषेधेन ।

३ - ६५ - चित्स्वरस्य अवकाशः चलनः , चोपनः ।

४ - ६५ - तास्यादिभ्यः अनुदात्तत्वस्य अवकाशः ।

५ - ६५ - आस्ते शेते ।

६ - ६५ - इह उभयम् प्राप्नोति ।

७ - ६५ - आसीनः , शयानः ।

८ - ६५ - तास्यादिभ्यः अनुदात्तत्वम् भवति विप्रतिषेधेन ।

९ - ६५ - न एषः युक्तः विप्रतिषेधः ।

१० - ६५ - किम् कारणम् ।

११ - ६५ - द्विकार्ययोगः हि विप्रतिषेधः ।

१२ - ६५ - न च अत्र एकः द्विकार्ययुक्तः ।

१३ - ६५ - आदेः अनुदात्तत्वम् अन्तस्य उदात्तत्वम् ।

१४ - ६५ - न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः ।

१५ - ६५ - किम् तर्हि. असम्भवः अपि ।

१६ - ६५ - ननु च अत्र अपि अस्ति सम्भवः ।

१७ - ६५ - आदेः अनुदात्तत्वम् अन्तस्य उदात्तत्वम् इति ।

१८ - ६५ - अस्ति च सम्भवः यत् उभयम् स्यात् ।

१९ - ६५ - न एषः अस्ति सम्भवः ।

२० - ६५ - वक्ष्यति एतत् स्वरविधौ सङ्घातः कार्यी भवति इति ।

२१ - ६५ - मुकः च उपसङ्ख्यानम् ।

२२ - ६५ - मुकः च उपसङ्ख्यानम् कर्तव्यम् ।

२३ - ६५ - पचमानः , यजमानः ।

२४ - ६५ - मुका व्यवहितत्वात् अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वम् न प्राप्नोति ।

२५ - ६५ - ननु च अयम् मुक् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते ।

२६ - ६५ - न सिध्यति ।

२७ - ६५ - अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् ।

२८ - ६५ - सः असौ सङ्घातभक्तः अशक्यः मुक् अदुपदेशग्रहणेन ग्रहीतुम् ।

२९ - ६५ - अथ अयम् अद्भक्तः स्यात् गृह्येत अयम् अदुपदेशग्रहणेन ।

३० - ६५ - बाढम् गृह्येत ।

३१ - ६५ - अद्भक्तः तर्हि भविष्यति ।

३२ - ६५ - तत् कथम् ।

३३ - ६५ - वक्ष्यति एतस्य परिहारम् ।

३४ - ६५ - इतः च उपसङ्ख्यानम् ।

३५ - ६५ - इतः च उपसङ्ख्यानम् कर्तव्यम् ।

३६ - ६५ - इद्भिः च व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति ।

३७ - ६५ - पचतः , पठतः ।

३८ - ६५ - इतः च अनेकान्तत्वात् ।

३९ - ६५ - अनेकान्ताः अनुबन्धाः ।

४० - ६५ - यदि अनेकान्ताः अनुबन्धाः अदिप्रभृतिजुहोत्यादिभ्यः प्रतिषेधः वक्तव्यः ।

४१ - ६५ - अत्तः , जुहुतः इति ।

४२ - ६५ - अदुपदेशात् इति अनुदात्तत्वम् प्राप्नोति ।

४३ - ६५ - तत्र अदिप्रभृतिजुहोत्यादिभ्यः अप्रतिषेधः स्थान्यादेशाभावात् ।

४४ - ६५ - तत्र अदिप्रभृतिभ्यः जुहोत्यादिभ्यः अप्रतिषेधः ।

४५ - ६५ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

४६ - ६५ - अनुदात्तत्वम् कस्मात् न भवति ।

४७ - ६५ - स्थान्यादेशाभावात् ।

४८ - ६५ - न एव अत्र स्थानिनम् न एव आदेशम् पश्यामः ।

४९ - ६५ - अनुदात्तङिद्ग्रहणात् वा ।

५० - ६५ - अथ वा यत् अयम् अनुदात्तङिद्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न लुप्तविकरणेभ्यः अनुदात्तत्वम् भवति इति ।

५१ - ६५ - न एतत् अस्ति ज्ञापकम् ।

५२ - ६५ - श्ननर्थम् एतत् स्यात् ।

५३ - ६५ - विन्दाते , खिन्दाते ।

५४ - ६५ - यत् तर्हि ङिद्ग्रहणम् करोति ।

५५ - ६५ - न हि श्नम्विकरणः ङित् भवति ।

५६ - ६५ - ङितः अनुदात्तत्वे विकरणेभ्यः प्रतिषेधः वक्तव्यः ।

५७ - ६५ - चिनुतः , सुनुतः , लुनीतः , पुनीतः ।

५८ - ६५ - ङितः इति अनुदात्तत्वम् प्राप्नोति ।

५९ - ६५ - ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः सर्वस्य उपदेशविशेषणत्वात् ।

६० - ६५ - ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः ।

६१ - ६५ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

६२ - ६५ - अनुदात्तत्वम् कस्मात् न भवति ।

६३ - ६५ - सर्वस्य उपदेशविशेषणत्वात् ।

६४ - ६५ - सर्वम् उपदेशग्रहणेन विशेषयिष्यामः ।

६५ - ६५ - उपदेशे अनुदात्तेतः , उपदेशे ङितः , उपदेशे अकारान्तात् ।

१ - ५ - सिचः आद्युदात्तत्वे अनिटः पितः उपसङ्ख्यानम् ।

२ - ५ - सिचः आद्युदात्तत्वे अनिटः पितः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ५ - मा हि कर्षम् , मा हि कार्षम् ।

४ - ५ - अनिटः इति किमर्थम् ।

५ - ५ - मा हि लविषम् ।

१ - ७ - स्वपादीनाम् वावचनात् अभ्यस्तस्वरः विप्रतिषेधेन ।

२ - ७ - स्वपादीनाम् वावचनात् अभ्यस्तस्वरः भवति विप्रतिषेधेन ।

३ - ७ - स्वपादीनाम् वावचनस्य अवकाशः स्वपन्ति श्वसन्ति ।

४ - ७ - अभ्यस्तस्वरस्य अवकाशः ददति , दधति ।

५ - ७ - इह उभयम् प्राप्नोति ।

६ - ७ - जग्रति ।

७ - ७ - अभ्यस्तस्वरः भवति विप्रतिषेधेन ।

१ - ८ - अनुदात्ते च इति बहुव्रीहिनिर्देशः लोपयणादेशार्थम् ।

२ - ८ - अनुदात्ते च इति बहुव्रीहिनिर्देशः कर्तव्यः ।

३ - ८ - अविद्यमानोदात्ते इति वक्तव्यम् ।

४ - ८ - किम् प्रयोजनम् ।

५ - ८ - लोपयणादेशार्थम् ।

६ - ८ - लोपयणादेशयोः कृतयोः आद्युदात्तत्वम् यथा स्यात् ।

७ - ८ - मा हि दधात् ।

८ - ८ - दधाति अत्र ।

१ - ३ - सर्वस्वरः अनच्कस्य ।

२ - ३ - सर्वस्वरः अनच्कस्य इति वक्तव्यम् ।

३ - ३ - इह मा भूत् सर्वके ।

१ - ४१ - भ्यादिग्रहणम् किमर्थम् ।

२ - ४१ - इह मा भूत् ।

३ - ४१ - ददाति दधाति ।

४ - ४१ - न एतत् अस्ति प्रयोजनम् ।

५ - ४१ - अभ्यस्तस्वरः अत्र बाधकः भविष्यति ।

६ - ४१ - अन्ततः उभयम् स्यात् ।

७ - ४१ - अनवकाशाः खलु अपि विधयः बाधकाः भवन्ति सावकाशः च अभ्यस्तस्वरः ।

८ - ४१ - कः अवकाशः ।

९ - ४१ - मिमीते ।

१० - ४१ - अथ प्रत्ययग्रहणम् किमर्थम् ।

११ - ४१ - प्रत्ययात् पूर्वस्य उदात्तत्वम् यथा स्यात् ।

१२ - ४१ - आटः पूर्वस्य मा भूत् इति ।

१३ - ४१ - बिभयानि ।

१४ - ४१ - न च एव अस्ति विशेषः प्रत्ययात् वा पूर्वस्य उदात्तत्वे सति आटः वा ।

१५ - ४१ - अपि च पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते ।

१६ - ४१ - इदम् तर्हि प्रयोजनम् ।

१७ - ४१ - प्रत्ययात् पूर्वस्य उदात्तत्वम् यथा स्यात् ।

१८ - ४१ - आटः एव मा भूत् इति ।

१९ - ४१ - एतत् अपि न अस्ति प्रयोजनम् ।

२० - ४१ - पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते ।

२१ - ४१ - एवम् तर्हि सिद्धे सति यत् प्रत्ययग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वरविधौ सङ्घातः कार्यी भवति इति ।

२२ - ४१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२३ - ४१ - चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् विप्रतिषेधेन इति उक्तम् ।

२४ - ४१ - तत् उपपन्नम् भवति ।

२५ - ४१ - अथ पूर्वग्रहणम् किमर्थम् न तस्मिन् इति निर्दिष्टे पूर्वस्य इति पूर्वस्य एव भविष्यति ।

२६ - ४१ - एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वरविधौ सप्तम्यः तदन्तसप्तम्यः भवन्ति इति ।

२७ - ४१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२८ - ४१ - उपोत्तमम् रिति रिदन्तस्य ।

२९ - ४१ - चङि अन्यतरस्याम् चङन्तस्य ।

३० - ४१ - यदि एतत् ज्ञाप्यते चतुरः शसि इति शसन्तस्य अपि प्राप्नोति ।

३१ - ४१ - शस्ग्रहणसामर्थ्यात् न भविष्यति ।

३२ - ४१ - इतरथा हि तत्र एव अयम् ब्रूयात् ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः चतुर्भ्यः च इति ।

३३ - ४१ - अथ पिद्ग्रहणम् किमर्थम् ।

३४ - ४१ - इह मा भूत् ।

३५ - ४१ - जाग्रति. न एतत् अस्ति प्रयोजनम् ।

३६ - ४१ - भवति एव अत्र पूर्वेण ।

३७ - ४१ - इदम् तर्हि प्रयोजनम् दरिद्रति ।

३८ - ४१ - आकारेण व्यवहितत्वात् न भविष्यति ।

३९ - ४१ - लोपे कृते न अस्ति व्यवधानम् ।

४० - ४१ - स्थानिवद्भावाद् व्यवधानम् एव ।

४१ - ४१ - प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरसन्धिम् प्रति न स्थानिवत् इति ।

१ - ३६ - यकि रपरे उपसङ्ख्यानम् ।

२ - ३६ - यकि रपरे उपसङ्ख्यानम्कर्तव्यम् ।

३ - ३६ - स्तीर्यते स्वयम् एव ।

४ - ३६ - उपदेशवचनात् सिद्धम् ।

५ - ३६ - उपदेशे इति वक्तव्यम् ।

६ - ३६ - उपदेशवचने जनादीनाम् ।

७ - ३६ - उपदेशवचने जनादीनाम् स्वरः न सिध्यति ।

८ - ३६ - जयते स्वयम् एव ।

९ - ३६ - जायते स्वयम् एव ।

१० - ३६ - योगविभागात् सिद्धम् ।

११ - ३६ - योगविभागः करिष्यते ।

१२ - ३६ - अजन्तानाम् कर्तृयकि वा आदिः उदात्तः भवति ।

१३ - ३६ - चीयते स्वयम् एव ।

१४ - ३६ - चियते स्वयम् एव ।

१५ - ३६ - जयते स्वयम् एव ।

१६ - ३६ - जायते स्वयम् एव ।

१७ - ३६ - ततः उपदेशे ।

१८ - ३६ - उपदेशे च अजन्तानाम् कर्तृयकि वा आदिः उदात्तः भवति ।

१९ - ३६ - स्तीर्यते स्वयम् एव ।

२० - ३६ - स्तीर्यते स्वयम् एव ।

२१ - ३६ - तत् तर्हि उपदेशग्रहणम् कर्तव्यम् ।

२२ - ३६ - न हि अन्तरेण उपदेशग्रहणम् योगाङ्गम् जायते ।

२३ - ३६ - न कर्तव्यम् ।

२४ - ३६ - प्रकृतम् अनुवर्तते ।

२५ - ३६ - क्व प्रकृतम् ।

२६ - ३६ - तास्यनुदात्तेन्ङिददुपदेशात् लसार्वधातुकम् अनुदात्तम् अह्न्विङोः इति ।

२७ - ३६ - ननु च उक्तम् उपदेशवचने जनादीनाम् स्वरः न सिध्यति इति ।

२८ - ३६ - न एषः दोषः ।

२९ - ३६ - न एवम् विज्ञायते उपदेशवचने जनादीनाम् स्वरः न सिध्यति इति ।

३० - ३६ - कथम् तर्हि ।

३१ - ३६ - जनादीनाम् अपि आत्त्वे उपदेशवचनम् कर्तव्यम् ।

३२ - ३६ - तत् तर्हि तत्र उपदेशग्रहणम् कर्तव्यम् ।

३३ - ३६ - न कर्तव्यम् ।

३४ - ३६ - प्रकृतम् अनुवर्तते ।

३५ - ३६ - क्व प्रकृतम् ।

३६ - ३६ - अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः झलि क्ङिति इति ।

१ - ५ - सेड्ग्रहणम् किमर्थम् न थलि इट् अन्तः वा इति उच्येत ।

२ - ५ - इट् अन्तः वा इति उच्यमाने इह अपि प्रसज्येत पपक्थ ।

३ - ५ - न एतत् अस्ति प्रयोजनम् ।

४ - ५ - अचः इति वर्तते ।

५ - ५ - इदम् तर्हि प्रयोजनम् ययाथ इति ।

१ - २१ - किमर्थम् इदम् उच्यते न ञ्निति आदिः नित्यम् इति एव सिद्धम् ।

२ - २१ - ञ्निति इति उच्यते न च अत्र ञ्नितम् पश्यामः ।

३ - २१ - प्रत्ययलक्षणेन ।

४ - २१ - न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

५ - २१ - अङ्गाधिकारोक्तस्य सः प्रतिषेधः न लुमता अङ्गस्य इति ।

६ - २१ - अतः उत्तरम् पठति उपमानस्य आद्युदात्तवचनम् ज्ञापकम् अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य ।

७ - २१ - उपमानस्य आद्युदात्तवचनम् ज्ञापकार्थम् क्रियते ।

८ - २१ - किम् ज्ञाप्यते ।

९ - २१ - एतत् ज्ञापयति आचार्यः अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणम् न भवति इति ।

१० - २१ - किम् एतस्य ज्ञापने प्रयोजनम् ।

११ - २१ - गर्गः , वत्सः , बिदः , उर्वाः , उष्ट्रग्रीवः , वामरज्जुः ञ्निति इति आद्युदात्तत्वम् मा भूत् इति ।

१२ - २१ - इह च अत्रयः इति तद्धितस्य कितः इति अन्तोदात्तत्वम् न भवति ।

१३ - २१ - यदि अनुबन्धलक्षणे इति उच्यते पथिप्रियः , मथिप्रियः इति पथिमथोः सर्वनामस्थाने इति आद्युदात्तत्वम् प्राप्नोति ।

१४ - २१ - एवम् तर्हि आचार्यः ज्ञापयति स्वरे प्रत्ययलक्षणम् न भवति इति ।

१५ - २१ - एवम् अपि सर्पिः आगच्छ , सप्त आगच्छत इति आमन्त्रितस्य च इति आद्युदात्तत्वम् न प्राप्नोति ।

१६ - २१ - इह च म हि दताम् , म हि धताम् आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति ।

१७ - २१ - एवम् तर्हि ज्ञापयति आचार्यः सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणम् न भवति इति ।

१८ - २१ - एवम् अपि सर्वस्तोमः , सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति ।

१९ - २१ - अस्तु तर्हि अनुबन्धलक्षणे इति एव ।

२० - २१ - कथम् पथिप्रियः , मथिप्रियः ।

२१ - २१ - वक्तव्यम् एव एतत् पथिमथोः सर्वनामस्थाने लुकि लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति ।

१ - ३२ - निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः ।

२ - ३२ - निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः वक्तव्यः ।

३ - ३२ - दत्ताभ्याम् , गुप्ताभ्याम् ।

४ - ३२ - न वा बहिरङ्गलक्षणत्वात् ।

५ - ३२ - न वा वक्तव्यम् ।

६ - ३२ - किम् कारणम् ।

७ - ३२ - बहिरङ्गलक्षणत्वात् ।

८ - ३२ - बहिरङ्गः अत्र दीर्घः , अन्तरङ्गः स्वरः ।

९ - ३२ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

१० - ३२ - अन्तरेण प्रतिषेधम् अन्तरेण च एताम् परिभाषाम् सिद्धम् ।

११ - ३२ - कथम् ।

१२ - ३२ - न एवम् विज्ञायते न चेत् आकारान्ता निष्ठा इति ।

१३ - ३२ - कथम् तर्हि ।

१४ - ३२ - न चेत् आकारात् परा निष्ठा इति ।

१५ - ३२ - यदि एवम् निर्देशः च एव न उपपद्यते ।

१६ - ३२ - न हि एषा आकारात् परा पञ्चमी युक्ता ।

१७ - ३२ - इह च प्राप्नोति ।

१८ - ३२ - आप्तः , राद्धः इति ।

१९ - ३२ - एवम् तर्हि न चेत् अवर्णात् परा निष्ठा इति ।

२० - ३२ - भवेत् निर्देशः उपपन्नः ।

२१ - ३२ - इह तु प्राप्नोति ।

२२ - ३२ - आप्तः , राद्धः इति ।

२३ - ३२ - इह च न प्राप्नोति ।

२४ - ३२ - यतः , रतः ।

२५ - ३२ - एवम् तर्हि विहितविशेषणम् अकारग्रहणम् ।

२६ - ३२ - न चेत् अकारारान्तात् विहिता निष्ठा इति ।

२७ - ३२ - एवम् अपि दत्तः , अत्र न प्राप्नोति इह च प्राप्नोति ।

२८ - ३२ - आप्तः , राद्धः इति ।

२९ - ३२ - एवम् तर्हि कार्यिविशेषणम् अकारग्रहणम् ।

३० - ३२ - न चेत् आकारारः कार्यी भवति ।

३१ - ३२ - एवम् अपि अद्य अष्टः , कदा अष्टः , अत्र न प्राप्नोति ।

३२ - ३२ - तस्मात् सुष्ठु उच्यते निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः , न वा बहिरङ्गलक्षणत्वात् इति ।

१ - १३ - किम् निपात्यते ।

२ - १३ - आशिते कर्तरि निपातनम् उपधादीर्हत्वम् आद्युदात्तत्वम् च ।

३ - १३ - आशितः इति क्तः कर्तरि निपात्यते उपधादीर्हत्वम् ।

४ - १३ - आशितवान् आशितः ।

५ - १३ - आद्युदात्तत्वम् च निपात्यते ।

६ - १३ - आद्युदात्तत्वम् अनिपात्यम् ।

७ - १३ - अधिकारात् सिद्धम् ।

८ - १३ - उपधादीर्हत्वम् अनिपात्यम् ।

९ - १३ - आङ्पूर्वस्य प्रयोगः ।

१० - १३ - यदि एवम् अवग्रहः प्राप्नोति ।

११ - १३ - न लक्षणेन पदकाराः अनुवर्त्याः ।

१२ - १३ - पद्कारैः नाम लक्षणम् अनुवर्त्यम् ।

१३ - १३ - यथालक्षणम् पदम् कर्तव्यम् ।

१ - ७ - किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

२ - ७ - कथम् च प्राप्ते कथम् वा अप्राप्ते ।

३ - ७ - यदि सञ्ज्ञायाम् उपमानम् , निष्ठा च द्व्यच् अनात् इति नित्ये प्राप्ते आरम्भः तत प्राप्ते अन्यत्र वा अप्राप्ते ।

४ - ७ - वेणुरिक्तयोः अप्राप्ते ।

५ - ७ - वेणुरिक्तयोः अप्राप्ते विभाषा प्राप्ते नित्यः विधिः ।

६ - ७ - वेणुः इव वेणुः ।

७ - ७ - रिक्तः नाम कः चित् ।

१ - ७ - उपोत्तमग्रहणम् किमर्थन् न रिति पूर्वम् इति एव उच्येत ।

२ - ७ - तत्र अयम् अपि अर्थः ।

३ - ७ - मतोः पूर्वम् आत् सञ्ज्ञायाम् स्त्रियाम् इति अत्र पूर्वग्रहणम् न कर्तव्यम् भवति ।

४ - ७ - एवम् तर्हि उपोत्तमग्रहणम् उत्तरार्थम् ।

५ - ७ - चङि अन्यतरस्याम् उपोत्तमम् इति एव ।

६ - ७ - इह मा भूत् ।

७ - ७ - मा हि स्म दधत् ।

१ - ९ - किमर्थम् इदम् उच्यते न वत्याः इति एव उच्यते ।

२ - ९ - वत्याः इति इयति उच्यमाने राजवती , अत्र अपि प्रसज्येत ।

३ - ९ - अथ अवत्याः इति उच्यमाने कस्मात् एव अत्र न भवति ।

४ - ९ - असिद्धः नलोपः ।

५ - ९ - तस्य असिद्धत्वात् न एषः अवतीशब्दः ।

६ - ९ - कः तर्हि ।

७ - ९ - अन्वतीशब्दः ।

८ - ९ - यथा एव तर्हि नलोपस्य असिद्धत्वात् न अवतीशब्दः एवम् वत्वस्य अपि असिद्धत्वात् न अवतीशब्दः ।

९ - ९ - आश्रयात् सिद्धत्वम् स्यात् ।

१ - ४० - चोः अतद्धिते ।

२ - ४० - चुस्वरः अतद्धिते इति वक्तव्यम् ।

३ - ४० - इह मा भूत् ।

४ - ४० - दाधीचः , माधूचः इति ।

५ - ४० - तत् तर्हि वक्तव्यम् ।

६ - ४० - न वक्तव्यम् ।

७ - ४० - प्रत्ययस्वरः अत्र बाधकः भविष्यति ।

८ - ४० - स्थानान्तरप्राप्तः चुस्वरः ।

९ - ४० - प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति ।

१० - ४० - अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः ।

११ - ४० - उदात्तनिवृत्तिस्वरस्य चुस्वरः ।

१२ - ४० - सः यथा एव उदात्तनिवृत्तिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत ।

१३ - ४० - न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति ।

१४ - ४० - किम् कारणम् ।

१५ - ४० - न गोश्वन्साववर्ण इति प्रतिषेधात् ।

१६ - ४० - न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः ।

१७ - ४० - कस्य तर्हि ।

१८ - ४० - तृतीयादिस्वरस्य ।

१९ - ४० - यत्र तर्हि तृतीयादिस्वरः न अस्ति दधीचः पश्य इति ।

२० - ४० - एवम् तर्हि न तृतीयादिलक्षणस्य प्रतिषेधम् षिष्मः ।

२१ - ४० - किम् तर्हि ।

२२ - ४० - येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधम् ।

२३ - ४० - यदि विभक्तिस्वरस्य प्रतिषेधः वृक्षवान् , प्लक्षवान् अत्र न प्राप्नोति ।

२४ - ४० - मतुब्ग्रहणम् अपि प्रकृतम् अनुवर्तते ।

२५ - ४० - क्व प्रकृतम् ।

२६ - ४० - ह्रस्वनुड्भ्याम् मतुप् इति ।

२७ - ४० - यदि तत् अनुवर्तते वेतस्वान् इति अत्र प्राप्नोति ।

२८ - ४० - मतुब्ग्रहणम् अनुवर्तते ड्मतुप् च एषः ।

२९ - ४० - यदि तरि मतुब्ग्रहणे ड्मतुपः ग्रहणम् न भवति वेतस्वान् इति अत्र वत्वम् न प्राप्नोति ।

३० - ४० - सामान्यग्रहणम् वत्वे इह पुनः विशिष्टस्य ग्रहणम् ।

३१ - ४० - यत्र तर्हि विभक्तिः न अस्ति दधीची इति ।

३२ - ४० - यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत ।

३३ - ४० - न एवम् शक्यम् ।

३४ - ४० - इह अपि प्रसज्येत कुमारी इति ।

३५ - ४० - सतिशिष्टः खलु अपि चुस्वरः ।

३६ - ४० - कथम् ।

३७ - ४० - चौ इति उच्यते ।

३८ - ४० - यत्र अस्य एतत् रूपम् ।

३९ - ४० - अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च ।

४० - ४० - तस्मात् सुष्थु उच्यते चोः अतद्धिते इति ।

१ - ४४ - समासान्तोदात्तत्वे व्यञ्जनान्तेषु उपसङ्ख्यानम् ।

२ - ४४ - समासान्तोदात्तत्वे व्यञ्जनान्तेषु उपसङ्ख्यानम् कर्तव्यम् राजदृषत्, ब्राह्मणसमित् ।

३ - ४४ - हल्स्वरप्राप्तौ वा व्यञ्जनम् अविद्यमानवत् ।

४ - ४४ - अथ वा हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति एषा परिभाषा कर्तव्या ।

५ - ४४ - किमर्थम् इदम् उभयम् उच्यते न हल्स्वरप्राप्तौ अविद्यमानवत् इति एव उच्यते स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति वा ।

६ - ४४ - द्विर्बद्धम् सुबद्धम् भवति इति ।

७ - ४४ - यदि हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् इति उच्यते दधि , उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितत्वम् न प्राप्नोति ।

८ - ४४ - उदात्तात् च स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति एषा परिभाषा कर्तव्या ।

९ - ४४ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।

१० - ४४ - प्रयोजनम् लिदाद्युदात्तान्तोदात्त्विधयः ।

११ - ४४ - लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति इह एव स्यात् भौरिकिविधम् , भौलिकिविधम् ।

१२ - ४४ - चिकीर्षकः , जिहीर्षकः इति अत्र न स्यात् ।

१३ - ४४ - ञ्निति आदिः नित्यम् इति इह एव स्यात् अहिचुम्बुकायनिः , आग्निवेश्यः ।

१४ - ४४ - गार्ग्यः , कृतिः इति अत्र न स्यात् ।

१५ - ४४ - धातोः अन्तः उदात्तः भवति इति इह एव स्यात् ऊर्णोति ।

१६ - ४४ - पचति इति अत्र न स्यात् ।

१७ - ४४ - इदम् तावत् यत् उच्यते हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति कथम् हि हलः नाम स्वरप्राप्तिः स्यात् ।

१८ - ४४ - तत् च अपि ब्रुवता उदात्तात् च स्वरविधौ इति वक्तव्यम् ।

१९ - ४४ - तथा अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् व्यञ्जनादेः व्यञ्जनान्तात् च न प्राप्नोति ।

२० - ४४ - यदि पुनः स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति उच्येत ।

२१ - ४४ - अथ स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति उच्यमाने अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् किम् सिद्धम् भवति व्यञ्जनादेः व्यञ्जनान्तात् च ।

२२ - ४४ - बाढम् सिद्धम् ।

२३ - ४४ - कथम् ।

२४ - ४४ - स्वरविधिः इति सर्वविभक्त्यन्तः समासः स्वरेण विधिः स्वरविधिः , स्वरस्य विधिः स्वरविधिः इति ।

२५ - ४४ - न एवम् शक्यम् ।

२६ - ४४ - इह हि दोषः स्यात् ।

२७ - ४४ - उदश्वित्वान् घोषः , विद्युत्वान् बलाहकः इति ।

२८ - ४४ - ह्रस्वनुड्भ्याम् मतुप् इति एषः स्वरः प्रसज्येत ।

२९ - ४४ - अस्तु तर्हि हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति ।

३० - ४४ - ननु च उक्तम् कथम् हि हलः नाम स्वरप्राप्तिः स्यात् ।

३१ - ४४ - उच्चैः उदात्तः , नीचैः अनुदात्तः इति अत्र षष्ठीनिर्दिष्टम् अज्ग्रहणम् निवृत्तम् ।

३२ - ४४ - तस्मिन् निवृत्ते हलः अपि स्वरप्राप्तिः भवति ।

३३ - ४४ - यत् अपि उच्यते उदात्तात् च स्वरविधौ इति वक्तव्यम् इति ।

३४ - ४४ - न वक्तव्यम् ।

३५ - ४४ - न इदम् पारिभाषिकस्य अनुदात्तस्य ग्रहणम् ।

३६ - ४४ - किम् तर्हि ।

३७ - ४४ - अन्वर्थग्रहणम् ।

३८ - ४४ - अविद्यमानोदात्तम् अनुदात्तम् ।

३९ - ४४ - तस्य स्वरितः इति ।

४० - ४४ - यत् अपि उच्यते तत् व्यञ्जनादेः व्यञ्जनान्तात् च न प्राप्नोति इति ।

४१ - ४४ - आचार्यप्रवृत्तिः ज्ञापयति सिद्धम् तत् भवति व्यञ्जनादेः व्यञ्जनान्तात् च इति यत् अयम् न उत्तरपदे अनुदात्तादौ इति उक्त्वा अपृथिवीरुद्रल्क्पूषमन्थिषु इति प्रतिषेधम् शास्ति ।

४२ - ४४ - सा तर्हि एषा परिभाषा कर्तव्या ।

४३ - ४४ - न कर्तव्या ।

४४ - ४४ - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा यत् अयम् यतः अनावः इति नावः प्रतिषेधम् शास्ति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP