संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ६|पाद १| खण्ड ५९ पाद १ खण्ड ५९ खण्ड ६० खण्ड ६१ खण्ड ६२ खण्ड ६३ खण्ड ६४ खण्ड ६५ खण्ड ६६ पाद १ - खण्ड ५९ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५९ Translation - भाषांतर १ - १३० - एकाचः इति किम् अयम् बहुव्रीहिः ।२ - १३० - एकः अच् अस्मिन् सः एकाच् ।३ - १३० - एकाचः इति ।४ - १३० - आहोस्वित् तत्पुरुषः अयम् समानाधिकरणः ।५ - १३० - एकः अच् एकाच् ।६ - १३० - एकाचः ।७ - १३० - किम् च अतः ।८ - १३० - यदि बहुव्रीहिः सिद्धम् पपाच पपाठ ।९ - १३० - इयाय ।१० - १३० - आर इति न सिध्यति ।११ - १३० - अथ तत्पुरुषः समानाधिकरणः सिद्धम् इयाय ।१२ - १३० - आर इति ।१३ - १३० - पपाच पपाठ इति न सिध्यति ।१४ - १३० - अतः उत्तरम् पठति ।१५ - १३० - एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः ।१६ - १३० - एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः अयम् ।१७ - १३० - एकवर्णेषु कथम् ।१८ - १३० - एकवर्णेषु व्यपदेशिवद्वचनात् ।१९ - १३० - व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् ।२० - १३० - एवम् एकवर्णेषु द्विर्वचनम् भविष्यति ।२१ - १३० - एकाचः द्वे भवतः इति उच्यते ।२२ - १३० - तत्र न ज्ञायते कस्य एकाचः द्वे भवतः इति ।२३ - १३० - वक्ष्यति लिटि धातोः अनभ्यासस्य इति ।२४ - १३० - तेन धातोः एकाचः इति विज्ञायते ।२५ - १३० - यदि धातोः एकाचः सिद्धम् पपाच पपाठ ।२६ - १३० - जजागार पुपुत्रीयिषति इति न सिध्यति ।२७ - १३० - धातोः इति न एषा एकाच्समानाधिकरणा षष्ठी ।२८ - १३० - धातोः एकाचः इति ।२९ - १३० - किम् तर्हि अवयवयोगा एषा षष्ठी ।३० - १३० - धातोः यः एकाच् अवयवः इति ।३१ - १३० - अवयवयोगा एषा षष्ठी इति चेत् सिद्धम् जजागार पुपुत्रीयिषति इति ।३२ - १३० - पपाच पपाठ इति न सिध्यति ।३३ - १३० - एषः अपि व्यपदेशिवद्भावेन धातोः एकाच् अवयवः भवति ।३४ - १३० - एकाचः द्वे प्रथमस्य इति उच्यते ।३५ - १३० - तेन यत्र एव प्रथमः च अप्रथमः च तत्र द्विर्वचनम् स्यात् ।३६ - १३० - जजागार पुपुत्रीयिषति इति ।३७ - १३० - पपाच पपाठ इति अत्र न स्यात् ।३८ - १३० - प्रथमत्वे च ।३९ - १३० - प्रथमत्वे च किम् ।४० - १३० - व्यपदेशिवद्वचनात् सिद्धम् इति एव ।४१ - १३० - सः तर्हि व्यपदेशिवद्भावः वक्तव्यः ।४२ - १३० - न वक्तव्यः ।४३ - १३० - उक्तम् वा ।४४ - १३० - किम् उक्तम् ।४५ - १३० - तत्र व्यपदेशिवद्वचनम् ।४६ - १३० - एकाचः द्वे प्रथमार्थम् ।४७ - १३० - षत्वे च आदेशसम्प्रत्ययार्थम् ।४८ - १३० - अवचनात् लोकविज्ञानात् सिद्धम् इति एव ।४९ - १३० - योगविभागः वा ।५० - १३० - अथ वा योगविभागः करिष्यते ।५१ - १३० - एकाचः द्वे भवतः ।५२ - १३० - किमर्थः योगविभागः ।५३ - १३० - एकाज्मात्रस्य द्विर्वचनार्थः ।५४ - १३० - एकाज्मात्रय्त द्विर्वचनम् यथा स्यात् ।५५ - १३० - इयाय पपाच ।५६ - १३० - ततः प्रथमस्य ।५७ - १३० - प्रथमस्य एकाचः द्वे भवतः ।५८ - १३० - इदम् इदानीम् किमर्थम् ।५९ - १३० - नियमाऋथम् ।६० - १३० - यत्र प्रथमः च अप्रथमः च अस्ति तत्र प्रथमस्य एकाचः द्विर्वचनम् यथा स्यात् ।६१ - १३० - अप्रथमस्य मा भूत् ।६२ - १३० - जजागार पुपुत्रीयिषति इति ।६३ - १३० - एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनप्रसङ्गः ।६४ - १३० - एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनम् प्राप्नोति ।६५ - १३० - नेनिजति इति अत्र निज्शब्दः अपि एकाच् इज्शब्दः अपि एकाच् इकारः अपि एकाच् निशब्दः अपि ।६६ - १३० - तत्र निज्शब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः च न सन्ति ।६७ - १३० - इज्शब्दस्य द्विर्वचने रूपम् न सिध्यति दोषाः च न सन्ति ।६८ - १३० - इकारस्य द्विर्वचने रूपम् न सिधति दोषाः च न सन्ति ।६९ - १३० - निशब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः तु सन्ति ।७० - १३० - तत्र कः दोषः ।७१ - १३० - तत्र जुस्भाववचनम् ।७२ - १३० - तत्र जुस्भावः वक्तव्यः ।७३ - १३० - अनेनिजुः ।७४ - १३० - पर्यवेविषुः ।७५ - १३० - अभ्यस्तात् झेः जुस्भावः भवति इति जुस्भावः न प्राप्नोति जकारेणव्यवधानात् ।७६ - १३० - स्वरः च ।७७ - १३० - स्वरः च न सिध्यति ।७८ - १३० - नेनिजति ।७९ - १३० - यत् परिवेविषति इति ।८० - १३० - अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति ।८१ - १३० - अद्भावः च ।८२ - १३० - अद्भावः च न सिध्यति ।८३ - १३० - नेनिजति ।८४ - १३० - परिवेविषति इति ।८५ - १३० - अभ्यस्तात् इति अद्भावः न प्राप्नोति ।८६ - १३० - नुम्प्रतिषेधः च ।८७ - १३० - नुम्प्रतिषेधः च न सिध्यति ।८८ - १३० - नेनिजत् ।८९ - १३० - परिवेविषत् ।९० - १३० - न अभ्यास्तात् शतुः इत् नुम्प्रतिषेधः न प्राप्नोति जकारेणव्यवधानात् ।९१ - १३० - शास्त्रहानिः च ।९२ - १३० - शास्त्रहानिः च भवति ।९३ - १३० - समुदायैकाचः शास्त्रम् हीयते ।९४ - १३० - सिद्धम् तु तत्समुदायैकाच्त्वात् शास्त्राहानेः ।९५ - १३० - सिद्धम् एतत् ।९६ - १३० - कथम् ।९७ - १३० - तत्समुदायैकाच्त्वात् ।९८ - १३० - किम् इदम् तत्समुदायैकाच्त्वात् इति ।९९ - १३० - तस्य समुदायः तत्समुदायः ।१०० - १३० - एकाज्भावः एकाच्त्वम् ।१०१ - १३० - तत्समुदायस्य एकाच्त्वम् तत्समुदायैकाच्त्वम् ।१०२ - १३० - तत्समुदायैकाच्त्वात् ।१०३ - १३० - तत्समुदायैकाचः द्विर्वचनम् भविष्यति ।१०४ - १३० - कुतः ।१०५ - १३० - शास्त्राहानेः ।१०६ - १३० - एवम् हि शास्त्रम् अहीनम् भवति ।१०७ - १३० - ननु च समुदायैकाचः द्विर्वचने क्रियमाणे अपि अवयवैकाचः शास्त्रम् हीयते ।१०८ - १३० - न हीयते ।१०९ - १३० - किम् कारणम् ।११० - १३० - अवयवात्मकत्वात् समुदायस्य ।१११ - १३० - अवयवात्मकः समुदायः ।११२ - १३० - अभ्यन्तरः हि समुदाये अवयवः ।११३ - १३० - तत् यथा वृक्षः प्रचलन् सहावयवैः प्रचलति ।११४ - १३० - तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनम् अन्यपदार्थत्वात् ।११५ - १३० - तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनम् प्राप्नोति ।११६ - १३० - आटतुः ।११७ - १३० - आटुः ।११८ - १३० - किम् कारणम् ।११९ - १३० - अन्यपदार्थत्वात् बहुव्रीहेः ।१२० - १३० - अन्यपदार्थे बहुव्रीहिः वर्तते ।१२१ - १३० - तेन यत् अन्यत् अचः तस्य द्विर्वचनम् स्यात् ।१२२ - १३० - तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः सन्ति सः आनीयते न गावः ।१२३ - १३० - सिद्धम् तु तद्गुणसंविज्ञानात् पाणिनेः यथा लोके ।१२४ - १३० - सिद्धम् एतत् ।१२५ - १३० - कथम् ।१२६ - १३० - तद्गुणसंविज्ञानात् भगवतः पाणिनेः आचार्यस्य यथा लोके ।१२७ - १३० - लोके शुक्लवाससम् आनय ।१२८ - १३० - लोहितोष्णीषाः प्रचरन्ति इति ।१२९ - १३० - तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।१३० - १३० - एवम् इह अपि ।१ - ८७ - अथ यस्य द्विर्वचनम् आरभ्यते किम् तस्य स्थाने भवति आहोस्वित् द्विःप्रयोगः इति ।२ - ८७ - कः च अत्र विशेषः ।३ - ८७ - स्थाने द्विर्वचने णिलोपवचनम् समुदायादेशत्वात् ।४ - ८७ - स्थाने द्विर्वचने णिलोपः वक्तव्यः ।५ - ८७ - आटिटत् ।६ - ८७ - आशिशत् ।७ - ८७ - किम् कारणम् ।८ - ८७ - समुदायादेशत्वात् ।९ - ८७ - समुदायस्य समुदायः आदेशः ।१० - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टः णिः भवति इति णेः अनिटि इति णिलोपः न प्राप्नोति ।११ - ८७ - इदम् इह सम्प्रधार्यम् ।१२ - ८७ - द्विर्वचनम् क्रियताम् णिलोपः इति किम् अत्र कर्तव्यम् ।१३ - ८७ - परत्वात् णिलोपः ।१४ - ८७ - नित्यम् द्विर्वचनम् ।१५ - ८७ - कृते अपि णिलोपे प्राप्नोति अकृते अपि ।१६ - ८७ - द्विर्वचनम् अपि नित्यम् ।१७ - ८७ - अन्यस्य कृते णिलोपे प्राप्नोति अन्यस्य अकृते ।१८ - ८७ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।१९ - ८७ - नित्यम् एव द्विर्वचनम् ।२० - ८७ - कथम् ।२१ - ८७ - रूपस्य स्थानिवत्वात् ।२२ - ८७ - यत् च सन्यङन्तस्य द्विर्वचने ।२३ - ८७ - यत् च सन्यङन्तस्य द्विर्वचने चोद्यम् तत् इह अपि चोद्यम् ।२४ - ८७ - किम् पुनः तत् ।२५ - ८७ - सन्यङन्तस्य चेत् अशेः सनि अनिटः ।२६ - ८७ - दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् ।२७ - ८७ - आबृध्योः च अभ्यस्तविप्रतिषेधः ।२८ - ८७ - सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् इति ।२९ - ८७ - अस्तु तर्हि द्विःप्रयोगः द्विर्वचनम् ।३० - ८७ - द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्ववचनम् लिटि ।३१ - ८७ - द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् ।३२ - ८७ - नेमतुः ।३३ - ८७ - नेमुः ।३४ - ८७ - सेहे ।३५ - ८७ - सेहाते ।३६ - ८७ - सहिरे ।३७ - ८७ - अनादेशादेः इति प्रतिषेधः प्राप्नोति ।३८ - ८७ - स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।३९ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः आदेशादिः भवति ।४० - ८७ - द्विःप्रयोगे अपि द्विर्वचने सति न दोषः ।४१ - ८७ - वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् ।४२ - ८७ - लिटि यः आदेशादिः तदादेः न इति ।४३ - ८७ - इड्वचनम् च यङ्लोपे ।४४ - ८७ - इट् च यङ्लोपे वक्तव्यः ।४५ - ८७ - बेभिदिता ।४६ - ८७ - बेभिदितुम् ।४७ - ८७ - एकाचः उपदेशे अनुदात्तात् इति इट्प्रतिषेधः प्राप्नोति ।४८ - ८७ - स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।४९ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः एकाच् उपदेशे अनुदात्तः ।५० - ८७ - द्विःप्रयोगे अपि द्विर्वचने सति न दोषः ।५१ - ८७ - एकाज्ग्रहणेन अङ्गम् विशेषयिष्यामः ।५२ - ८७ - एकाचः अङ्गात् इति ।५३ - ८७ - ननु च एकैकम् अत्र अङ्गम् ।५४ - ८७ - समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति ।५५ - ८७ - कुतः एतत् ।५६ - ८७ - शास्त्राहानेः ।५७ - ८७ - एवम् हि शास्त्रम् अहीनम् भवति । इड्दीर्घप्रतिषेधः च ।५८ - ८७ - इटः दीर्घत्वस्य च प्रतिषेधः वक्तव्यः ।५९ - ८७ - जरीगृहिता ।६० - ८७ - जरीगृहितुम् ।६१ - ८७ - ग्रहः अलिटि दीर्घः इति दीर्घत्वम् प्राप्नोति ।६२ - ८७ - स्थाने पुनः द्विर्वचने समुदायस्य समुदायः आदेशः ।६३ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः ग्रहिः ।६४ - ८७ - द्विःप्रयोगे अपि द्विर्वचने न दोषः ।६५ - ८७ - ग्रहिणा अङ्गम् विशेषयिष्यामः ।६६ - ८७ - ग्रहेः अङ्गात् इति ।६७ - ८७ - ननु च एकैकम् अत्र अङ्गम् ।६८ - ८७ - समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति ।६९ - ८७ - कुतः एतत् ।७० - ८७ - शास्त्राहानेः ।७१ - ८७ - एवम् हि शास्त्रम् अहीनम् भवति । पदादिविधिप्रतिषेधः च ।७२ - ८७ - पदादिलक्षण विधेः प्रतिषेधः वक्तव्यः ।७३ - ८७ - सिषेच ।७४ - ८७ - सुष्वाप ।७५ - ८७ - सात्पदाद्योः इति षत्वप्रतिषेधः प्राप्नोति ।७६ - ८७ - स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।७७ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः पदादिः भवति ।७८ - ८७ - द्विःप्रयोगे च अपि द्विर्वचने न दोषः ।७९ - ८७ - सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः ।८० - ८७ - यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् तिङन्तम् च ।८१ - ८७ - ननु च एकैकस्मात् [अपि अत्र (ऋ)] सुप्तिङ्विधिः ।८२ - ८७ - समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा भविष्यति ।८३ - ८७ - कुतः एतत् ।८४ - ८७ - शास्त्राहानेः ।८५ - ८७ - एवम् हि शास्त्रम् अहीनम् भवति । तौ एव सुप्तिङौ ततः परौ सा एव च प्रकृतिः आद्या ।८६ - ८७ - आदिग्रहणम् प्रकृतम् ।८७ - ८७ - समुदायपदत्वम् एतेन.१ - १० - द्वितीयस्य इति अवचनम् अजादेः इति कर्मधारयात् पञ्चमी ।२ - १० - द्वितीयस्य इति शक्यम् अवक्तुम् ।३ - १० - कथम् ।४ - १० - अजादेः इति न एषा बहुव्रीहेः षष्ठी ।५ - १० - अच् आदिः यस्य सः अयम् अजादिः ।६ - १० - अजादेः ।७ - १० - किम् तर्हि कर्मधारयात् पञ्चमी ।८ - १० - अच् आदिः अजादिः ।९ - १० - अजादेः परस्य इति ।१० - १० - तत्र अन्तरेण द्वितीयग्रहणम् द्वितीयस्य एव भविष्यति ।१ - ९९ - द्वितीयद्विर्वचने प्रथमनिवृत्तिः प्राप्तत्वात् ।२ - ९९ - द्वितीयद्विर्वचने प्रथमस्य निवृत्तिः वक्तव्या ।३ - ९९ - अटिटिषति ।४ - ९९ - अशिशिषति इति ।५ - ९९ - किम् कारणम् ।६ - ९९ - प्राप्तत्वात् ।७ - ९९ - प्राप्नोति एकाचः द्वे प्रथमस्य इति ।८ - ९९ - ननु च द्वितीयद्विर्वचनम् प्रथमद्विर्वचनम् बाधिष्यते ।९ - ९९ - कथम् अन्यस्य उच्यमानस्य बाधकम् स्यात् ।१० - ९९ - असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।११ - ९९ - न वा प्रथमविज्ञाने हि द्वितीयाप्राप्तिः अद्वितीयत्वात् ।१२ - ९९ - न वा वक्तव्यम् ।१३ - ९९ - किम् कारणम् ।१४ - ९९ - प्रथमविज्ञाने हि सति द्वितीयस्य अप्राप्तिः स्यात् ।१५ - ९९ - किम् कारणम् ।१६ - ९९ - अद्वितीयत्वात् ।१७ - ९९ - न हि इदानीम् प्रथमद्विर्वचने कृते द्वितीयः द्वितीयः भवति ।१८ - ९९ - कः तर्हि ।१९ - ९९ - तृतीयः ।२० - ९९ - तत् यथा द्वयोः आसीनयोः तृतीये उपजाते न द्वितीयः द्वितीयः भवति ।२१ - ९९ - कः तर्हि ।२२ - ९९ - तृतीयः ।२३ - ९९ - न हि किम् चित् उच्यते अकृते द्विर्वचने यः द्वितीयः तस्य भवितव्यम् इति ।२४ - ९९ - किम् तर्हि कृते द्विर्वचने यः द्वितीयः तस्य भविष्यति ।२५ - ९९ - अनारम्भसमम् एवम् स्यात् ।२६ - ९९ - अटेः प्रथमस्य द्विर्वचनम् स्यात् ।२७ - ९९ - हलादिशेषः ।२८ - ९९ - द्वितीयस्य द्विर्वचनम् ।२९ - ९९ - हलादिशेषः ।३० - ९९ - त्रयाणाम् अकाराणाम् पररूपत्वे अटिषति इति एवम् रूपम् स्यात् ।३१ - ९९ - न अनारम्भसमम् ।३२ - ९९ - अटेः प्रथमस्य द्विर्वचनम् ।३३ - ९९ - हलादिशेषः ।३४ - ९९ - इत्त्वम् ।३५ - ९९ - द्वितीयस्य द्विर्वचनम् ।३६ - ९९ - हलादिशेषः ।३७ - ९९ - इत्त्वम् ड्वयोः इकारयोः सवर्णदीर्घत्वम् ।३८ - ९९ - अभ्यासस्य असवर्णे इति इयङादेशः ।३९ - ९९ - इयटिषति इति एतत् रूपम् यथा स्यात् ।४० - ९९ - ओणेः च उवणिषति इति ।४१ - ९९ - न अनिष्टार्था शास्त्रप्रवृत्तिः भवितुम् अर्हति ।४२ - ९९ - यथा वा आदिविकारे अलः अन्त्यविकाराभावः ।४३ - ९९ - यथा वा आदिविविधौ अलः अन्त्यविधिः न भवति एवम् द्वितीयद्विर्वचने प्रथमद्विर्वचनम् न भविष्यति ।४४ - ९९ - विषमः उपन्यासः ।४५ - ९९ - न अप्राप्ते अलः अन्त्यविधौ आदिविधिः आरभ्यते ।४६ - ९९ - सः तस्य बाधकः भविष्यति ।४७ - ९९ - इदम् अपि एवञ्जातीयकम् ।४८ - ९९ - न अप्राप्ते प्रथमद्विर्वचने द्वितीयद्विर्वचनमारभ्यते ।४९ - ९९ - तत् बाधकम् भविष्यति ।५० - ९९ - यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति ।५१ - ९९ - न एतत् अस्ति ।५२ - ९९ - सति अपि सम्भवे बाधनम् भवति ।५३ - ९९ - तत् यथा दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति ।५४ - ९९ - सति अपि दधिदानस्य सम्भवे तक्रदानम् निवर्तकम् भवति ।५५ - ९९ - एवम् इह अपि सति अपि सम्भवे प्रथमद्विर्वचनस्य द्वितीयद्विर्वचनम् बाधिष्यते ।५६ - ९९ - तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः वक्तव्या ।५७ - ९९ - अटिटिषति इति ।५८ - ९९ - यथा एव अचः निवृत्तिः भवति एवम् व्यञ्जनस्य अपि प्राप्नोति ।५९ - ९९ - तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनानिवृत्तिः अशासनात् पूर्वस्य ।६० - ९९ - तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः सिद्धा ।६१ - ९९ - कुतः ।६२ - ९९ - अशासनात् पूर्वस्य ।६३ - ९९ - न इह वयम् पूर्वस्य प्रतिषेधम् शिष्मः ।६४ - ९९ - किम् तर्हि द्वितीयस्य द्विर्वचनम् आरभामहे ।६५ - ९९ - व्यञ्जनानि पुनः नटभार्यवत् भवन्ति ।६६ - ९९ - तत् यथा ।६७ - ९९ - नटानाम् स्त्रियः रङ्गम् गताः यः यः पृच्छति कस्य यूयम् कस्य यूयम् इति तम् तम् तव तव इति आहुः ।६८ - ९९ - एवम् व्यञ्जनानि यस्य यस्य अचः कार्यम् उच्यते तम् तम् भजन्ते ।६९ - ९९ - न्द्रादिप्रतिषेधात् च ।७० - ९९ - यत् अयम् न न्द्राः संयोगादयः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः पूर्वनिवृत्तौ व्यञ्जनस्य अनिवृत्तिः इति ।७१ - ९९ - तत्र द्वितीयाभावे प्रथमाद्विर्वचनम् प्रतिषिद्धत्वात् ।७२ - ९९ - तत्र द्वितीयस्य एकाचः अभावे प्रथमस्य द्विर्वचनम् न प्राप्नोति ।७३ - ९९ - आटतुः ।७४ - ९९ - आटुः ।७५ - ९९ - किम् कारणम् ।७६ - ९९ - प्रतिषिद्धत्वात् ।७७ - ९९ - अजादेः द्वितीयस्य इति प्रतिषेधात् ।७८ - ९९ - न एष दोषः ।७९ - ९९ - सति तस्मिन् प्रतिषेधः ।८० - ९९ - सति द्वितीयद्विर्वचने प्रथमस्य प्रतिषेधः ।८१ - ९९ - सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः ।८२ - ९९ - सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः भवति ।८३ - ९९ - हलादिशेषे सति आद्ये हलि अनाद्यस्य लोपः स्यात् ।८४ - ९९ - इह एव स्यात् ।८५ - ९९ - पपाच ।८६ - ९९ - पपाठ इति ।८७ - ९९ - इह न स्यात् ।८८ - ९९ - आटतुः ।८९ - ९९ - आटुः इति ।९० - ९९ - लोकवत् हलादिशेषे ।९१ - ९९ - लोकवत् हलादिशेषे सिद्धम् ।९२ - ९९ - तत् यथा लोके ईश्वरः आज्ञापयति ग्रामात् ग्रामात् मनुष्याः आनीयन्ताम् प्रागाङ्गम् ग्रामेभ्यः ब्राह्मणाः आनीयन्ताम् इति ।९३ - ९९ - येषु तत्र ग्रामेषु ब्राह्मणाः न सन्ति न तर्हि इदानीम् ततः अन्यस्य आनयनम् भवति ।९४ - ९९ - यथा तत्र क्व चित् अपि ब्राह्मणस्य सत्ता (ऋसर्वत्र - अब्राह्मणस्य निवर्त्तिका भवति एवम् इह अपि क्व चित् अपि हल् आद्यः सन् सर्वस्य अनाद्यस्य हलः निवर्तकः भवति ।९५ - ९९ - क्व चित् अन्यत्र लोपः इति चेत् द्विर्वचनम् ।९६ - ९९ - क्व चित् अन्यत्र लोपः इति चेत् द्विर्वचनम् अपि एवम् प्राप्नोति ।९७ - ९९ - क्व चित् अपि द्वितीयः सन् सर्वस्य प्रथमस्य निवर्तकः स्यात् ।९८ - ९९ - तस्मात् अस्तु सति तस्मिन् प्रतिषेधः इति एव. ननु च उक्तम् सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः इति ।९९ - ९९ - प्रतिविधास्यते हलादिशेषे ।१ - २२ - किमर्थम् इदम् उच्यते ।२ - २२ - न्द्रादेः द्विर्वचनप्रसङ्गः तत्र न्द्राणाम् प्रतिषेधः ।३ - २२ - न्द्रादेः एकाचः द्विर्वचनम् प्राप्नोति ।४ - २२ - तत्र न्द्राणाम् संयोगादीनाम् प्रतिषेधः उच्यते ।५ - २२ - ईर्ष्यतेः तृतीयस्य ।६ - २२ - ईर्ष्यतेः तृतीयस्य द्वे भवतः इति वक्तव्यम् ।७ - २२ - के चित् तावत् आहुः एकाचः इति ।८ - २२ - ईर्ष्यिषिषति ।९ - २२ - अपरः आह ॒व्यञ्जनस्य इति ईर्ष्यियिषति ।१० - २२ - कण्ड्वादीनाम् च ।११ - २२ - कण्ड्वादीनाम् च तृतीयस्य द्वे भवतः इति वक्तव्यम् ।१२ - २२ - कण्डूयियिषति ।१३ - २२ - असूयियिषति ।१४ - २२ - वा नामधातूनाम् ।१५ - २२ - वा नामधातूनाम् तृतीयस्य द्वे भवतः इति वक्तव्यम् ।१६ - २२ - अश्वीयियिषति ।१७ - २२ - अशिश्वीयिषति ।१८ - २२ - अपरः आह यथेष्टम् वा ।१९ - २२ - यथेष्टम् वा नामधातूनाम् इति ।२० - २२ - पुपुत्रीयिषति ।२१ - २२ - पुतित्रीयिषति ।२२ - २२ - पुत्रीयियिषति ।१ - १६ - पूर्वः अभ्यासः इति उच्यते ।२ - १६ - कस्य पूर्वः अभ्याससञ्ज्ञः भवति ।३ - १६ - द्वे इति वर्तते ।४ - १६ - द्वयोः इति वक्तव्यम् ।५ - १६ - सः तर्हि तथा निर्देशः कर्तव्यः ।६ - १६ - न कर्तव्यः ।७ - १६ - अर्थात् विभक्तिविपरिणामः भविष्यति ।८ - १६ - तत् यथा ।९ - १६ - उच्चानि देवदत्तस्य गृहाणि ।१० - १६ - आमन्त्रयस्व एनम् ।११ - १६ - देवदत्तम् इति गम्यते ।१२ - १६ - देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।१३ - १६ - आढ्यः वैधवेयः ।१४ - १६ - देवदत्तः इति गम्यते ।१५ - १६ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।१६ - १६ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।१ - ९७ - अभ्यस्तसञ्ज्ञायाम् सहवचनम् ।२ - ९७ - अभ्यस्तसञ्ज्ञायाम् सहग्रहणम् कर्तव्यम् ।३ - ९७ - किम् प्रयोजनम् ।४ - ९७ - आद्युदात्तत्वे पृथगप्रसङ्गार्थम् ।५ - ९७ - आद्युदात्तत्वम् सह भूतयोः यथा स्यात् ।६ - ९७ - एकैकस्य मा भूत् इति ।७ - ९७ - यस्मिन् एव अभ्यस्तकार्ये अदोषः तत् एव पठितम् अनुदात्तम् पदम् एकवर्जम् इति ।८ - ९७ - न अस्ति यौगपद्येन सम्भवः ।९ - ९७ - पर्यायः तर्हि प्रसज्येत ।१० - ९७ - पर्यायः च ।११ - ९७ - पूर्वस्य तावत् परेण रूपेण व्यवहितत्वात् न भविष्यति ।१२ - ९७ - परस्य तर्हि स्यात् ।१३ - ९७ - तत्र आचार्यप्रवृत्तिः ज्ञापयति न परस्य भवति इति यत् अयम् बिभेत्यादीनाम् पिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति आह ।१४ - ९७ - एवम् व्यवधानात् न पूर्वस्य ज्ञापकात् न परस्य उच्यते च इदम् अभ्यस्तानाम् आदिः उदात्तः भवति इति ।१५ - ९७ - तत्र सः एव दोषः पर्यायः प्रसज्येत ।१६ - ९७ - तस्मात् सहग्रहणम् कर्तव्यम् ।१७ - ९७ - न कर्तव्यम् ।१८ - ९७ - उभेग्रहणम् क्रियते ।१९ - ९७ - तत् सहार्थम् विज्ञास्यते ।२० - ९७ - अस्ति अन्यत् उभेग्रहणस्य प्रयोजनम् ।२१ - ९७ - किम् ।२२ - ९७ - उभेग्रहणम् सञ्ज्ञिनिर्देशार्थम् ।२३ - ९७ - अन्तरेण अपि उभेग्रहणम् प्रक्ल्̥प्तः सञ्ज्ञिनिर्देशः ।२४ - ९७ - कथम् ।२५ - ९७ - द्वे इति वर्तते ।२६ - ९७ - इदम् तर्हि प्रयोजनम् ।२७ - ९७ - यत्र उभे शब्दरूपे श्रूयेते तत्र अभ्यस्तसञ्ज्ञा यथा स्यात् ।२८ - ९७ - इह मा भूत् ईर्त्सन्ति , ईप्सन्ति , ईर्त्सन् , ईप्सन् , ऐर्त्सन् , ऐप्सन् ।२९ - ९७ - किम् च स्यात् ।३० - ९७ - अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् ।३१ - ९७ - अद्भावे तावत् न दोषः ।३२ - ९७ - सप्तमे योगविभागः करिष्यते ।३३ - ९७ - इदम् अस्ति अत् अभ्यस्तात् ।३४ - ९७ - ततः आत्मनेपदेषु ।३५ - ९७ - आत्मनेपदेषु च अत् भवति ।३६ - ९७ - अनतः इति उभयोः शेषः ।३७ - ९७ - यत् अपि उच्यते नुम्प्रतिषेधः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।३८ - ९७ - इदम् इह सम्प्रधार्यम् ।३९ - ९७ - नुम्प्रतिषेधः क्रियताम् एकादेशः इति ।४० - ९७ - किम् अत्र कर्तव्यम् ।४१ - ९७ - परत्वात् नुम्प्रतिषेधः ।४२ - ९७ - नित्यः एकादेशः ।४३ - ९७ - कृते अपि नुम्प्रतिषेधे प्राप्नोति अकृते अपि ।४४ - ९७ - एकादेशः अपि नित्यः ।४५ - ९७ - अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति अन्यस्य अकृते ।४६ - ९७ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।४७ - ९७ - अन्तरङ्गः तर्हि एकादेशः ।४८ - ९७ - का अन्तरङ्गता ।४९ - ९७ - वर्णौ आश्रित्य एकादेशः ।५० - ९७ - विधिविषये नुम्प्रतिषेधः विधिः च नुमः सर्वनामस्थाने प्राक् तु सर्वनामस्थानोत्पत्तेः एकादेशः ।५१ - ९७ - तत्र नित्यत्वात् च अन्तरङ्गत्वात् च एकादेशः ।५२ - ९७ - एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।५३ - ९७ - यत् अपि उच्यते जुस्भावः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।५४ - ९७ - एकादेशे इति उच्यते केन च अत्र एकादेशः ।५५ - ९७ - अन्तिना ।५६ - ९७ - न अत्र अन्तिभावः प्राप्नोति ।५७ - ९७ - किम् कारणम् ।५८ - ९७ - जुस्भावेन बाध्यते ।५९ - ९७ - न अत्र जुस्भावः प्राप्नोति ।६० - ९७ - किम् कारणम् ।६१ - ९७ - शपा व्यवहितत्वात् ।६२ - ९७ - एकादेशे कृते न अस्ति व्यवधानम् ।६३ - ९७ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति व्यवधानम् एव ।६४ - ९७ - किम् पुणः कारणम् निमित्तवान् अन्तिः एकादेशम् तावत् प्रतीक्षते न पुनः तावति एव निमित्तम् अस्ति इति अन्तिभावेन भाव्यम् ।६५ - ९७ - इह अपि तर्हि तावति एव निमित्तम् अस्ति इति अन्तिभावः स्यात् ।६६ - ९७ - अनेनिजुः ।६७ - ९७ - पर्यवेविषुः इति ।६८ - ९७ - अस्तु ।६९ - ९७ - अन्तिभावे कृते स्थानिवद्भावात् झिग्रहणेन ग्रहणात् जुस्भावः भविष्यति ।७० - ९७ - अथ वा यदि अपि निमित्तवान् अन्तिः अयम् तस्य जुस्भावः अपवादः ।७१ - ९७ - न च अपवादविषये उत्सर्गाः अभिनिविशन्ते ।७२ - ९७ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।७३ - ९७ - प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः प्रवर्तते ।७४ - ९७ - न तावत् अत्र कदा चित् अपि अन्तिभावः भवति ।७५ - ९७ - अपवादम् जुस्भावम् प्रतीक्षते ।७६ - ९७ - न खलु अपि क्व चित् अभ्यस्तानाम् झेः च आनन्तर्यम् ।७७ - ९७ - सर्वत्र विकरणैः व्यवधानम् ।७८ - ९७ - तेन अनेन अवश्यम् विकरणनाशः प्रतीक्ष्यः क्व चित् लुका क्व चित् श्लुना क्व चित् एकादेशेन ।७९ - ९७ - सः यथा श्लुलुकौ प्रतीक्षते एवम् एकादेशम् अपि प्रतीक्षते ।८० - ९७ - एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।८१ - ९७ - किम् ।८२ - ९७ - स्थानिवद्भावम् ।८३ - ९७ - स्थानिवद्भावात् व्यवधानम् ।८४ - ९७ - व्यवधानात् न भविष्यति ।८५ - ९७ - पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वस्य विधिः ।८६ - ९७ - पूर्वस्मात् अपि विधिः पूर्वविधिः ।८७ - ९७ - तत् एतत् असति प्रयोजने उभेग्रहणम् सहार्थम् विज्ञास्यते ।८८ - ९७ - कथम् कृत्वा एकैकस्य अभ्यस्तसञ्ज्ञा प्राप्नोति ।८९ - ९७ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।९० - ९७ - तत् यथा ।९१ - ९७ - वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।९२ - ९७ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।९३ - ९७ - तत् यथा ।९४ - ९७ - गर्गाः शतम् दण्ड्यन्ताम् इति ।९५ - ९७ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।९६ - ९७ - सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।९७ - ९७ - अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुण्वृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।१ - ३० - जक्षित्यादिषु सप्तग्रहणम् वेवीत्यर्थम् ।२ - ३० - जक्षित्यादिषु सप्तग्रहणम् कर्तव्यम् ।३ - ३० - सप्त जक्षित्यादयः अभ्यस्तसञ्ज्ञकाः भवन्ति इति वक्तव्यम् ।४ - ३० - किम् प्रयोजनम् ।५ - ३० - वेवीत्यर्थम् ।६ - ३० - वेवीतेः अभ्यस्तसञ्ज्ञा यथा स्यात् ।७ - ३० - वेव्यते ।८ - ३० - अपरिगणनम् वा आगणान्तत्वात् ।९ - ३० - न वा अर्थः परिगणनेन ।१० - ३० - अस्तु आगणान्तम् अभ्यस्तसञ्ज्ञा ।११ - ३० - इह अपि तर्हि प्राप्नोति ।१२ - ३० - आङः शासु ।१३ - ३० - अस्तु ।१४ - ३० - अभ्यस्तकार्याणि कस्मात् न भवन्ति ।१५ - ३० - भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् ।१६ - ३० - स्वरः तर्हि प्राप्नोति ।१७ - ३० - यत्र अपि अस्य आत्मनेपदेषु अभ्यस्तकार्यम् स्वरः तत्र अपि अनुदात्तेतः परम् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वे कृते न अस्ति विशेषः धातुस्वरेण उदात्तत्वे सति अभ्यस्तस्वरेण वा ।१८ - ३० - षसिवशी छान्दसौ ।१९ - ३० - दृष्टानुविधिः छन्दसि भवति ।२० - ३० - चर्करीतम् अभ्यस्तम् एव ।२१ - ३० - ह्नुङः तर्हि प्राप्नोति ।२२ - ३० - अस्तु ।२३ - ३० - अभ्यस्तकार्याणि कस्मात् न भवन्ति ।२४ - ३० - भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् ।२५ - ३० - स्वरः तर्हि प्राप्नोति ।२६ - ३० - अह्न्विङोः इति प्रतिषेधविधानसामर्थ्यात् स्वरः न भविष्यति ।२७ - ३० - अथ वा सप्त एव इमे धातवः पठ्यन्ते ।२८ - ३० - जक्ष् अभ्यस्तसञ्ज्ञः भवति ।२९ - ३० - इत्यादयः च षट् ।३० - ३० - जक्ष् इत्यादयः षट् इति ।१ - २१ - तुजादिषु छन्दःप्रत्ययग्रहणम् ।२ - २१ - तुजादिषु छन्दःप्रत्ययग्रहणम् कर्तव्यम् ।३ - २१ - छन्दसि तुजादीनाम् दीर्घः भवति इति वक्तव्यम् ।४ - २१ - अस्मिन् च अस्मिन् च प्रत्यये इति वक्तव्यम् ।५ - २१ - इह मा भूत् ।६ - २१ - तुतोज शबलान् हरान् ।७ - २१ - अनारम्भः वा अपरिगणितत्वात् ।८ - २१ - अनारम्भः वा छन्दसि दीर्घत्वस्य न्याय्यः ।९ - २१ - कुतः ।१० - २१ - अपरिगणितत्वात् ।११ - २१ - न हि छन्दसि दीर्घत्वस्य परिगणनम् कर्तुम् शक्यम् ।१२ - २१ - किम् कारणम् ।१३ - २१ - अन्येषाम् च दर्शनात् ।१४ - २१ - येषाम् अपि दीर्घत्वम् न आरभ्यते तेषाम् अपि छन्दसि दीर्घत्वम् दृश्यते ।१५ - २१ - तत् यथा पूरुषः ।१६ - २१ - नारकः इति ।१७ - २१ - अनेकान्तत्वात् च ।१८ - २१ - येषाम् च अपि आरभ्यते तेषाम् अपि अनेकान्तः ।१९ - २१ - यस्मिन् एव च प्रत्यये दीर्घत्वम् दृश्यते तस्मिन् एव च न दृश्यते ।२० - २१ - मामहानः उक्थपात्रम् ।२१ - २१ - ममहानः इति च ।१ - ३३ - धातोः इति किमर्थम् ।२ - ३३ - ईहाम् चक्रे ।३ - ३३ - न एतत् अस्ति ।४ - ३३ - लिटि इति उच्यते न च अत्र लिटम् पश्यामः ।५ - ३३ - प्रत्ययलक्षणेन ।६ - ३३ - न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।७ - ३३ - इदम् तर्हि ।८ - ३३ - ससृवांसः विशृण्विरे ।९ - ३३ - लिटि द्विर्वचने जागर्तेः वावचनम् ।१० - ३३ - लिटि द्विर्वचने जागर्तेः वा इति वक्तव्यम् ।११ - ३३ - यः जागर तम् ऋचः कामयन्ते ।१२ - ३३ - यः जजागार तम् ऋचः कामयन्ते ।१३ - ३३ - अनभ्यासस्य इति किम् ।१४ - ३३ - कृष्णः नोनाव वृषभः यदि इदम् ।१५ - ३३ - नोनूयतेः नोनाव ।१६ - ३३ - अभ्यासप्रतिषेधानर्थक्यम् च छन्दसि वावचनात् ।१७ - ३३ - अभ्यासप्रतिषेधः च अनर्थकः ।१८ - ३३ - किम् कारणम् ।१९ - ३३ - छन्दसि वावचनात् ।२० - ३३ - अवश्यम् छन्दसि वा द्वे भवतः इति वक्तव्यम् ।२१ - ३३ - किम् प्रयोजनम् ।२२ - ३३ - प्रयोजनम् आदित्यान् याचिषामहे ।२३ - ३३ - यियाचिषामहे इति प्राप्ते ।२४ - ३३ - देवता नो दाति प्रियाणि ।२५ - ३३ - ददाति प्रियाणि ।२६ - ३३ - मघवा दातु ।२७ - ३३ - मघवा ददातु ।२८ - ३३ - सः नः स्तुतः वीरवत् धातु ।२९ - ३३ - वीरवत् दधातु ।३० - ३३ - यावता इदानीम् छन्दसि वा द्वे भवतः इति उच्यते धातुग्रहणेन अपि न अर्थः ।३१ - ३३ - कस्मात् न भवति ससृवांसः विशृण्विरे इति ।३२ - ३३ - छन्दसि वावचनात् ।३३ - ३३ - तत् एतत् धातुग्रहणम् सान्न्यासिकम् तिष्ठतु तावत् ।१ - १५९ - किम् इयम् षष्ठी आहोस्वित् सप्तमी ।२ - १५९ - कुतः सन्देहः ।३ - १५९ - समानः निर्देशः ।४ - १५९ - किम् च अतः ।५ - १५९ - यदि षष्ठी सन्यङन्तस्य द्विर्वचनेन भवितव्यम् ।६ - १५९ - अथ सप्तमी सन्यङोः परतः पूर्वस्य द्विर्वचनम् ।७ - १५९ - कः च अत्र विशेषः ।८ - १५९ - सन्यङोः परतः इति चेत् इटः द्विर्वचनम् परादित्वात् ।९ - १५९ - सन्यङोः परतः इति चेत् इटः द्विर्वचनम् कर्तव्यम् ।१० - १५९ - अटिटिषति ।११ - १५९ - अशिशिषति ।१२ - १५९ - किम् पुनः कारणम् न सिध्यति ।१३ - १५९ - परादित्वात् ।१४ - १५९ - इट् परादिः ।१५ - १५९ - हन्तेः च ईटः ।१६ - १५९ - हन्तेः च ईटः द्विर्वचनम् कर्तव्यम् ।१७ - १५९ - जेघ्नीयते ।१८ - १५९ - ननु च यस्य अपि सन्यङन्तस्य द्विर्वचनम् तस्य अपि स्थानिवद्भावप्रसङ्गः ।१९ - १५९ - ईटि स्थानिवद्भावात् ईटः द्विर्वचनम् न प्राप्नोति ।२० - १५९ - न एषः दोषः ।२१ - १५९ - द्विर्वचननिमित्ते अचि स्थानिवत् इति उच्यते न च असौ द्विर्वचननिमित्तम् ।२२ - १५९ - यस्मिन् अपि द्विर्वचनम् यस्य अपि द्विर्वचनम् सर्वः असौ द्विर्वचननिमित्तम् ।२३ - १५९ - तस्मात् ईटः द्विर्वचनम् ।२४ - १५९ - तस्मात् उभाभ्याम् ईटः द्विर्वचनम् कर्तव्यम् ।२५ - १५९ - यः च उभयोः दोषः न तम् एकः चोद्यः भवति ।२६ - १५९ - एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः ।२७ - १५९ - एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः वक्तव्यः ।२८ - १५९ - बिभित्सति ।२९ - १५९ - चिच्छित्सति ।३० - १५९ - द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति ।३१ - १५९ - अस्तु तर्हि सन्यङन्तस्य ।३२ - १५९ - सन्यङन्तस्य इति चेत् अशेः सनि अनिटः ।३३ - १५९ - सन्यङन्तस्य इति चेत् अशेः सनि अनिटः द्विर्वचनम् वक्तव्यम् ।३४ - १५९ - इयक्षमाणाः भृगुभिः सजोषाः ।३५ - १५९ - यस्य अपि सन्यङोः परतः द्विर्वचनम् तेन अपि अत्र अवश्यम् इडभावे यत्नः कर्तव्यः ।३६ - १५९ - किम् कारणम् ।३७ - १५९ - अशेः हि प्रतिपदम् इट् विधीयते स्मिपूङ्रञ्ज्वशाम् सनि इति ।३८ - १५९ - तेन एव द्वितीयद्विर्वचनम् अपि न भविष्यति ।३९ - १५९ - अथ वा न एतत् अशेः रूपम् ।४० - १५९ - यजेः एषः छान्दसः वर्णलोपः ।४१ - १५९ - तत् यथा तुभ्य इदम् अग्ने ।४२ - १५९ - तुभ्यम् इदम् अग्ने इति प्राप्ते ।४३ - १५९ - अम्बानाम् चरुम् ।४४ - १५९ - नाम्बानाम् चरुम् इति प्राप्ते ।४५ - १५९ - आव्याधिनीः उगणाः ।४६ - १५९ - सुगणाः इति प्राप्ते ।४७ - १५९ - इष्कर्तरम् अध्वरस्य ।४८ - १५९ - निष्कर्तारम् इति प्राप्ते ।४९ - १५९ - शिवा उद्रस्य भेषजी ।५० - १५९ - शिवा रुद्रस्य भेषजी इति प्राप्ते ।५१ - १५९ - अश्यर्थः वै गम्यते ।५२ - १५९ - कः पुनः अशेः अर्थः ।५३ - १५९ - अश्नोतिः व्यप्तिकर्मा ।५४ - १५९ - यजिः अपि अश्यर्थे वर्तते ।५५ - १५९ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।५६ - १५९ - बह्वर्थाः अपि धातवः भवन्ति इति ।५७ - १५९ - तत् यथा ।५८ - १५९ - वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते ।५९ - १५९ - केशान् वपति इति ।६० - १५९ - ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते ।६१ - १५९ - अग्निः वै इतः वृष्टिम् ईट्टे ।६२ - १५९ - मरुतः अमुतः च्यावयन्ति ।६३ - १५९ - करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते ।६४ - १५९ - पृष्ठम् कुरु ।६५ - १५९ - पादौ कुरु ।६६ - १५९ - उन्मृदान इति गम्यते ।६७ - १५९ - निक्षेपणे च अपि दृश्यते ।६८ - १५९ - कटे कुरु ।६९ - १५९ - घटे कुरु ।७० - १५९ - अश्मानम् इतः कुरु ।७१ - १५९ - स्थापय इति गम्यते ।७२ - १५९ - एवम् तर्हि दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् । दीर्घत्वम् द्विर्वचनाधिकस्य न सिध्यति ।७३ - १५९ - चिचीषति ।७४ - १५९ - तुष्टूषति ।७५ - १५९ - समुदायस्य समुदायः आदेशः ।७६ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति ।७७ - १५९ - तत्र अजन्तानाम् सनि इति दीर्घत्वम् न प्राप्नोति ।७८ - १५९ - इदम् इह सम्प्रधार्यम् दीर्घत्वम् क्रियताम् द्विर्वचनम् इति किम् अत्र कर्तव्यम् ।७९ - १५९ - परत्वात् दीर्घत्वम् ।८० - १५९ - नित्यम् द्विर्वचनम् ।८१ - १५९ - कृते अपि दीर्घत्वे प्राप्नोति अकृते अपि प्राप्नोति ।८२ - १५९ - दीर्घत्वम् अपि नित्यम् ।८३ - १५९ - कृते अपि द्विर्वचने प्राप्नोति अकृते अपि प्राप्नोति ।८४ - १५९ - अनित्यम् दीर्घत्वम् ।८५ - १५९ - न हि कृते द्विर्वचने प्राप्नोति ।८६ - १५९ - किम् कारणम् ।८७ - १५९ - समुदायस्य समुदायः आदेशः ।८८ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य अजन्तता न अस्ति इति दीर्घत्वम् न प्राप्नोति ।८९ - १५९ - द्विर्वचनम् अपि अनित्यम् ।९० - १५९ - अन्यस्य कृते दीर्घत्वे प्राप्नोति अन्यस्य अकृते ।९१ - १५९ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।९२ - १५९ - उभयोः अनित्ययोः परत्वात् दीर्घत्वम् ।९३ - १५९ - यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति ।९४ - १५९ - जुहूषति इति ।९५ - १५९ - कुत्वम् द्विर्वचनाधिकस्य न सिध्यति ।९६ - १५९ - जिघांसति ।९७ - १५९ - जङ्घन्यते ।९८ - १५९ - किम् कारणम् ।९९ - १५९ - समुदायस्य समुदायः आदेशः ।१०० - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हन्तिः भवति ।१०१ - १५९ - तत्र अभ्यासात् हन्तिहकारस्य इति कुत्वम् न सिध्यति ।१०२ - १५९ - सम्प्रसारणम् च द्विर्वचनाधिकस्य न सिध्यति ।१०३ - १५९ - जुहूषति. जोहूयते ।१०४ - १५९ - समुदायस्य समुदायः आदेशः ।१०५ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हवयतिः भवति ।१०६ - १५९ - तत्र ह्वः सम्प्रसारणम् अभ्यस्तस्य इति सम्प्रसारणम् न प्राप्नोति ।१०७ - १५९ - न एषः दोषः ।१०८ - १५९ - वक्ष्यति हि एतत् ह्वः अभ्यस्तनिमित्तस्य इति ।१०९ - १५९ - यावता च इदानीम् ह्वः अभ्यस्तनिमित्तस्य इति उच्यते सः अपि अदोषः भवति यत् उक्तम् यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति इति ।११० - १५९ - षत्वम् च द्विर्वचनाधिकस्य न सिध्यति ।१११ - १५९ - पिपक्षति ।११२ - १५९ - यियक्षति ।११३ - १५९ - समुदायस्य समुदायः आदेशः ।११४ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति ।११५ - १५९ - तत्र इण्कुभ्याम् उत्तरस्य प्रत्ययसकारस्य इति षत्वम् न प्रापोति ।११६ - १५९ - इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् षत्वम् इति किम् अत्र कर्तव्यम् ।११७ - १५९ - परत्वात् षत्वम् ।११८ - १५९ - पूर्वत्रासिद्धे षत्वम् सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।११९ - १५९ - आबृध्योः च अभ्यस्तविधिप्रतिषेधः ।१२० - १५९ - आबृध्योः च अभ्यस्ताश्रयः विधिः प्राप्नोति ।१२१ - १५९ - सः प्रतिषेध्यः ।१२२ - १५९ - ईप्सति ।१२३ - १५९ - ईर्त्सति ।१२४ - १५९ - ईप्सन् ।१२५ - १५९ - ईर्त्सन् ।१२६ - १५९ - ऐप्सन् ।१२७ - १५९ - ऐर्त्सन् ।१२८ - १५९ - किम् च स्यात् ।१२९ - १५९ - अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् ।१३० - १५९ - न एषः दोषः ।१३१ - १५९ - उक्ताः अत्र परिहाराः ।१३२ - १५९ - सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् ।१३३ - १५९ - सङाश्रये च कार्ये समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः ।१३४ - १५९ - किम् कारणम् ।१३५ - १५९ - आमिश्रत्वात् ।१३६ - १५९ - आमिश्रीभूतम् इदम् भवति ।१३७ - १५९ - तत् यथा ।१३८ - १५९ - क्षीरोदके सम्पृक्ते ।१३९ - १५९ - आमिश्रत्वात् न ज्ञायते कियत् क्षीरम् कियत् उदकम् इति ।१४० - १५९ - कस्मिन् अवकाशे क्षीरम् कस्मिन् अवकाशे उदकम् इति ।१४१ - १५९ - एवम् इह अपि आमिश्रत्वात् न ज्ञायते का प्रकृतिः कः प्रत्ययः कस्मिन् अवकाशे प्रकृतिः कस्मिन् अवकाशे प्रत्ययः इति ।१४२ - १५९ - तत्र कः दोषः ।१४३ - १५९ - सङि झलि इति कुत्वादीनि न सिध्यन्ति ।१४४ - १५९ - इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् कुत्वादीनि इति किम् अत्र कर्तव्यम् ।१४५ - १५९ - परत्वात् कुत्वादीनि ।१४६ - १५९ - पूर्वत्रासिद्धे कुत्वादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।१४७ - १५९ - एवम् तर्हि पूर्वत्रासिद्धीयम् अद्विर्वचने इति वक्तव्यम्. तत् च अवश्यम् वक्तव्यम् ।१४८ - १५९ - विभाषिताः प्रयोजयन्ति ।१४९ - १५९ - द्रोग्धा द्रोग्धा ।१५० - १५९ - द्रोढा द्रोढा ।१५१ - १५९ - यावता च इदानीम् पूर्वत्रासिद्धीयम् अद्विर्वचने इति उच्यते सः अपि अदोषः भवति यत् उक्तम् षत्वम् न सिध्यति ।१५२ - १५९ - इह स्थाने द्विर्वचने णिलोपः अपरिहृतः ।१५३ - १५९ - सन्यङोः परतः द्विर्वचने इटः द्विर्वचनम् वक्तव्यम् ।१५४ - १५९ - सन्यङन्तस्य द्विर्वचने हन्तेः कुत्वम् अपरिहृतम् ।१५५ - १५९ - तत्र सन्यङन्तस्य द्विर्वचनम् द्विःप्रयोगः च इति एषः पक्षः निर्दोषः ।१५६ - १५९ - तत्र इदम् अपरिहृतम् सनः इटः प्रतिषेधः इति ।१५७ - १५९ - एतस्य अपि परिहारम् वक्ष्यति उभयविशेषणत्वात् सिद्धम् इति ।१५८ - १५९ - कथम् जेघ्नीयते ।१५९ - १५९ - वक्ष्यति एतत् यङ्प्रकरणे हन्तेः हिंसायाम् घ्नी इति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP